________________
१६६ द्वादशारनयचक्रम्
[विधिविध्यरे व्याख्यायते 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्' (ऋ. १०,९०, १५) इति, किं कारणम् ? तस्मिन्नर्थे प्रत्यक्षत एवानित्याः क्रियाया अनन्तरं फलसम्बन्धादर्शनात् क्रियावैफल्यदोषप्रसङ्गादग्निहोत्रमिति धर्मः क्रियाभिव्यङ्ग्यः इत्युच्यते, कार्यकारणोपचारादग्निहोत्राभिव्यङ्ग्योऽग्निहोत्रमिति ततोऽग्निहोत्रं धर्मं जुहुयाद्भावयेत् स्वर्गकाम इत्येष वाक्यार्थी निर्दोष इत्येवमर्थ स्पष्टीकार5 यितुं विधिविधिनयः पृच्छति-तथा सत्यपूर्वाभिधाने कोऽर्थः कृतः स्यात् ? अर्थशब्दस्य प्रयोजनाभिधेययोईष्टत्वात् कोऽर्थः साधितः ? किं प्रयोजनम् ? कथं स्यात् ? कोऽभिधेयः समर्थितः स्यात् ।
विधिनयो ब्रवीति
यः स्वर्गकामः स हवनेनेतिकर्तव्यताविशेषेण स्वर्ग भावयेदिति कृतः स्यात् , न, विद्यापर्यायतत्त्वज्ञानोत्पादनार्थत्वादविद्यानिराकरणार्थत्वाच्च शब्दप्रयोगः, तेन किमूनीकृतं? याव10 देवोक्तं भवति यः स्वर्ग कामयते स जुहुयादिति तावदुक्तं भवत्यपूर्व जुहुयात्स्वर्गकाम इति,
ततो भावनस्य गतार्थत्वान्नार्थः कश्चिदग्निहोत्रमित्यनेन । प्रसिद्धिविरुद्धा चेयं कल्पना तस्य तदथोभावात् ।
(य इति) यः स्वर्गकामः स हवनेनेतिकर्तव्यताविशेषेण स्वर्ग भावयेदित्ययमर्थः कृतःसाधितः स्यादित्यर्थः । विधिविधिनय आह-विद्यापर्यायतत्त्वज्ञानोत्पादनार्थत्वादविद्यानिराकरणार्थ15 त्वाच्च शब्दप्रयोगः, तेन किमूनीकृतमर्थादविद्याया इति न किंचिदूनीकृतमित्यभिप्रायः, तत्समर्थयति यावदेवेत्यादि, यावदुक्तं भवति यः स्वर्ग कामयते स जुहुयादिति तावदुक्तं भवत्यपूर्व जुहुयात्स्वर्गकाम इति नापूर्वोऽर्थोऽधिकोऽग्निहोत्रशब्देन लभ्यते हवनेनैव तस्याभिव्यङ्ग्यत्वात् , जुहुयात् स्वर्गकाम इत्येतावतैव गतार्थत्वात् , जुहुयात्-धर्म भावयेत् स्वर्गकाम इत्येतस्यां वाक्यार्थव्यक्तौ कोऽग्निशब्देन
केचिन्मीमांसका आहुः य एव श्रेयस्करः स एव धर्मशब्देनोच्यते, यो हि यागमनुतिष्ठति तं धार्मिकमिति समाचक्षते, यश्च 20 यस्य कर्त्ता स तेन व्यपदिश्यते यथा पाचको लावक इति, तेन यः पुरुषं निःश्रेयसेन संयुनक्ति स धर्मशब्देनोच्यते न केवल
लोके, वेदेऽपि 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्' इति यजतिशब्दवाच्यमेव धर्म समामनन्तीति भावः। किमर्थ यज्ञादि क्रिया धर्मो न भवतीत्यत्राह-तस्मिन्नर्थ इति, ननु न तावद्यागादीनां खरूपमेव धर्मः, क्रियायाः क्षणिकत्वेन कालान्तरभाविस्वर्गसाधनत्वासम्भवात् क्रियावैयात् । किन्तु यागादिक्रियाभिव्यङ्ग्यो व्यापारविशेषो धर्मः, कार्ये
धर्मेऽग्निहोत्रादिकारणस्योपचारादग्निहोत्रादिक्रियाभिव्यङ्ग्यो धर्मविशेषोऽपि अग्निहोत्रादिशब्देनोच्यत इति न यज्ञादिक्रियाधर्म 25 इति भावः । मीमांसकास्तु यागादिक्रियाया एव धर्मत्वमाहुः, न त्ववान्तरव्यापारखरूपापूर्वस्य, तद्रूपस्य वेदादनवगमात्, साध्यसाधनभावान्यथानुपपत्त्या हि तत्कल्पनम् , फलकालेऽपि धर्मवानयमिति व्यवहारात् तदानीमपि शक्तिरूपेण यागस्य सत्त्वान्नापूर्वकल्पना तद्धि न फलसाधनत्वेन यागसाध्यत्वेन वा कल्पयितुं शक्यते श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् , तस्माद्यागस्य फलोत्पादिका शक्तिः आत्मनो वा फलभोगयोग्यताऽवान्तरव्यापारो न धर्मपदवाच्य इति यागादिक्रियैव श्रेयःसाधनत्वाद्धर्म ति वदन्ति, अत एव चोदनालक्षणोऽर्थो धर्म इत्युक्तम् । ननु शब्दप्रयोगस्तत्त्वज्ञानार्थमविद्यानिराकरणार्थञ्च क्रियते तथा 30 चानेन शब्दप्रयोगेण तथाविधेन भवितव्यम् न चैवमस्ति तेन शब्दप्रयोगेणाविद्याया ईषदप्यनिराकरणादित्याशयेनाह-विद्यापर्यायेति । जुहुयात् वर्गकाम इत्येतावच्छब्दप्रयोगेणैवाभिलषितार्थलामे किमग्निहोत्रशब्देनेत्याह-यावदुक्तं भवतीति । नन्वग्निहोत्रशब्देन धर्मो विवक्षितः स च हवनेनैव लभ्यते हवनाग्निहोत्रयोरेकार्थत्वात् तथा चाग्निहोत्रपदाभिव्यङ्ग्यो धर्मो हवनपदेनैवाभिव्यज्यत इति नाग्निपदेन न वा होत्रपदेन प्रयोजनमस्तील्याह-हवनेनैव तस्याभिव्यङ्ग्यत्वादिति । अत्र मीमांसकाः हुधातुना हवनसामान्यबोधनात्तत्र च निर्विशेषं न सामान्यमिति न्यायेन वनविशेषज्ञानं नियमेनापेक्षितं तच्च
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org