________________
निरूपणासंभवः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
१६७
होत्रशब्देन चार्थ : ? इति । अत आह- ततो भावनस्य गतार्थत्वात्, भवन्तं धर्मं भावयतो हेतुकर्मसाधनसाध्यस्य धात्वर्थस्य भावनस्य जुहुयाच्छब्दप्रयोगादेव गतार्थत्वान्नार्थः कश्चिदग्निहोत्रमित्यनेन, एवं तावदग्निहोत्रशब्दस्य प्रयोगो निरर्थकः । प्रसिद्धिविरुद्धा चेयं कल्पना लोके वेदे वा, तस्य तदर्थाभावात् । अभ्युपेत्याप्यपूर्व विशेषाभिधानमप्रत्यक्षत्वान्निरूपणं हवनेन नोपपद्यत इति ब्रूमः - निरूपणवैधर्म्यात्, न च स प्रत्यक्षोऽपूर्वो यतस्तेन निरूपणमारभ्येत ।
(निरूपण वैधर्म्यादिति ) इह हि यद्वटादिवस्तु मृदानयनमर्दनादिक्रियया निरूपणार्थं प्रत्यक्षत उपलब्धेर्वरं व्यपदिश्यते अनया क्रियया घटो निर्वर्त्यते, अस्यास्तत्कार्यमिदं कारणमिति, दृष्टकारणकार्य सम्बन्धत्वात्, न जात्वदृष्टपूर्वस्य साधर्म्यदृष्टान्ताभावेऽनुमानाभावादत आह-न च स प्रत्यक्षोsपूर्वो यतस्तेन निरूपणमारभ्येत - हवनस्य कार्यं सः इदञ्चास्य कारणमिति निरूपणं व्याख्येत्यर्थः, सा कथं व्याख्येति चेदुच्यते येन हवनेन दृष्टापूर्वनिर्वर्त्तनशक्तिना निर्वर्त्योऽग्निहोत्राख्योऽपूर्वो- 10 निर्वर्त्यते तत्तथानुष्ठातव्यं हवनम्, यथा मृदानयनक्रियाघटनिर्वर्त्तनार्थमिति, तच्च न युज्यते, अत्यन्तमदृष्टकारणकार्यसम्बन्धत्वादनयोः सम्भावनयैवमपि कृत्वा कल्पनात्मिकयोक्तमपि न सम्भवतीति ।
safear दोषास्तत्परिहारमनादृत्य परेण प्रसिद्धि मात्रप्रतिपादनार्थम् —
अथोच्येत अस्यास्तावत्प्राप्तेः वाक्यान्तरप्रापिता प्रसिद्धिर्भविष्यत्यनये होत्रमग्निहोत्र - मिति, वाक्यान्तरानुबन्धाच्चेतिकर्त्तव्यताप्रसिद्धेः ।
15
( अथेति ) अथोच्येत - अस्यास्तावत् प्राप्तेः प्रसिद्धिर्भविष्यतीति, ततो दोषपरिहारो भविष्यतीति, प्राप्तिरिति 'स्त्रियां क्तिन् ' ( पा. ३।३।९४ ) इत्यत्राऽऽबादीनाश्चेति वक्तव्यम्, 'गुरोश्च हलः ' (पा. ३ | ३ | १०३ ) इत्यप्रत्ययेनापवादेन मा भूद्वावेति । प्रापणात् प्राप्तेः वाक्यान्तरप्रापिता प्रसिद्धिर्भविष्यति अग्नये होत्रमिति चतुर्थीसमासः योगविभागादश्वघासाद्युपसंख्यानाद्वा रूपसिद्धिः । तदर्थप्रसिद्धिश्च ततः करणं तत्फलसम्बन्धश्च कर्तुरिति सर्वमुपपन्नम्, कतमस्माद्वाक्यात् प्रापिता प्रसिद्धि 20 रिति चेत् ? वक्ष्यमाणे वाक्यान्तरे 'यमये च प्रजापतये च सायं जुहोति घृतेन पयसा दध्ना जुहुयादिति' तदनुबन्धाश्चेतिकर्त्तव्यतैव कर्त्तव्यता तस्याः प्राप्तेः, वाक्यान्तरप्रापिताया अनुबन्धात्सम्बन्धादनुपरताकांक्षादुत्तराः सर्वा इतिकर्तव्यता एव कर्तव्यतास्तासां चेतिकर्त्तव्यतानां प्रसिद्धि - रग्निहोत्रस्य प्रसिद्धिस्तदात्मकस्येति ।
5
नामधेयेन सम्भवति तदर्थमेव च नामधेय समर्पकोऽग्निहोत्रशब्दः, एवं हवनस्य क्रियाकलापरूपस्य संकल्पादावुच्चारणे गौरवाला- 26 घवेन तादृशक्रियाकलापबोधकनामधेयस्यावश्यकत्वे तद्बोधकमग्निहोत्रपदमित्याहुः । अपूर्वविशेषाभिधायकत्वमग्निहोत्रशब्दानां न क्वापि प्रसिद्धमिति तदर्थंकल्पनाविरुद्धेत्याह- प्रसिद्धिविरुद्धेति । तुष्यतु दुर्जन इति न्यायेन तदभ्युपगमेऽपि दोषं वक्तुमाहअभ्युपेत्यापीति । इह हीति, हवनेन धर्मस्य निरूपणं न सम्भवति, निरूपणस्वरूपवैधर्म्यात्, प्रत्यक्षयोरेव हि निरूपणं भवति, घटादीनां प्रत्यक्षत उपलब्धेर्घटादिवस्तु मृदानयनादिक्रियया निर्वत्र्त्यं, तत्क्रियाकार्यं घटादि सा च तत्कारणमिति व्यपदेष्टुं शक्यते, न जात्वदृष्टपूर्वस्येति नापूर्वहवनयोः साध्यसाधनभावान्निरूपणं सम्भवति । साधर्म्यदृष्टान्ताभावान्नानुमानेनापि निरूपणम्, 30 गृहीतेऽपूर्वे तेन सह कस्यचित्सम्बन्धग्रहणं सम्भवतीति भावः । अत्र मीमांसकां आगमादप्यदृष्टयोः कार्यकारणसम्बन्धावगम इति वदन्ति । सम्भावनयेति, कार्यकारणभावसम्भावनयाप्यनयोर्निरूपणं न सम्भवति, कल्पनात्मकत्वप्रसङ्गादिति भावः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org