SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १६८ द्वादशारनयाचक्रम् अत्रोच्यते न तर्हि पुनर्जुहुयादिति वाच्यं स्यात् , अग्निहोत्रशब्देनैवाग्निप्राजापत्यादिसम्प्रदानजुहोतीत्यादीतिकर्तव्यतायुक्तार्थत्वात् पुनरपि स एव दोषप्रपञ्च उपस्थितः।। (नेति) पुनरपि प्रागभिहितो यो 'न हि कश्चिजुहोतिपुनर्वचनेने'त्यादि ग्रन्थार्थः स एव 5 दोषप्रपञ्चोऽस्मिन्नपि व्याख्याध्वन्युपस्थितः ।। अपि चैवमत्रापि पुरुषप्रमाणकवादापत्तिः, उत्तरोत्तरविरोधपरिहारविचारप्राप्यार्थपरिग्रहात्तर्क आश्रितो भवति सामान्याद्यर्थैकान्तवदेव, स च दोषत्रयादप्रतिपूर्णः पौनरुक्तयादेरसत्कार्याभ्युपगमात् पुनस्तत्त्यागाच्च । अपि चैवमित्यादि, किच्चान्यदत्रापि पुरुषप्रमाणकवादापत्तिः किं कारणं ? उत्तरोत्तरविरो10 धपरिहारविचारप्राप्यार्थपरिग्रहात् , अग्निहोत्रहवनयोः पौनरुक्त्यादिदोषाद्विरोध इत्युक्तेऽनुवादविधि त्वान्नति परिहारः पुनरप्रसिद्धत्वाद्विरोध इत्युक्ते कुर्यादर्थे जुहुयाच्छब्द इत्येवमादिविचारैः प्राप्योऽर्थस्त्वया परिगृहीतोऽतः स्वबुद्धिप्रामाण्यावलम्बनात् पुरुषप्रमाणकस्तर्क आश्रितो भवति, तर्कलक्षणञ्च अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः' (गौ० अ-१आ-१-सू. ४०) इति । किमिव ? सामान्याद्यर्थैकान्तवदेव, यथा सामान्यमेव विशेषा एक सामान्यविशेषश्चेत्येकान्तार्थपरि15 ग्रहः प्रागुक्तविधिना पूर्वोत्तरविरोधपरिहारप्राप्योऽर्थोऽशक्यप्रालिरफला पुरुषमाणत्वालायायामक प्राप्तिरितीति, प्रोपसर्गादापू व्याप्ताविति धातोः स्त्रियां क्तिन्नित्यस्यापवादभूतेन गुरोश्च हल इति सूत्रेणाप्रत्ययो मा भूदिति स्त्रियां क्तिन्निति सूत्रे आबादीनाश्चेति वक्तव्यमिति भाष्ये उक्तत्वात् क्तिन्प्रत्यये प्राप्तिरूपमिति भावः । अग्नये होत्रमिति, 'चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः इति सूत्रस्य चतुर्थी, तदर्थार्थबलिहितसुखरक्षितैरिति योगविभागं कृत्वा प्रथमयोगेन चतुर्थ्यन्तं समर्थन समस्यत इत्यर्थकेनाग्नये होत्रमित्यत्र समासो बोध्यः। यद्वा योगविभागो न कर्त्तव्यः, तर्हि प्रकृते कथं समास इति चेदश्वघासाधुप20 संख्यानमित्युक्तत्वात् समासः, भाष्यकृन्मतेऽश्वघासादीनां न चतुर्थीसमासः किन्तु पष्ठीतत्पुरुष एव। अत एव मीमांसकः खण्ड देवो होत्रशब्दं भावे व्युत्पाद्यामेर्होत्रमिति षष्ठीसमासमुक्तवान् , अत्रैव स्वस्लक्षणं सङ्गच्छते, चतुर्थीतत्पुरुषे तु कर्तृकरणे कृता बहुलमित्यत्र बहुलग्रहणात् तस्य च सर्वोपाधिव्यभिचारार्थत्वाचतुर्थ्यन्तमपि कृता समस्यत इति तेन समासः कार्यः, सचानन्यगतिकत्वाद्धीनः वरलक्षणाननुगतश्चेति तं समासं त्यक्तवान् , शाबरभाष्ये तु यस्मिन्नग्नये होत्रं होमस्तदग्निहोत्रमिति व्यधिकरण चतुर्थीबहुव्रीहिराश्रितः, समासान्तरासम्भवात् , षष्ठीतत्पुरुषे जुहोतिसामानाधिकरण्यानुपपत्तेश्चेति । तदर्थप्रसिद्धिश्चति। 25 अग्निहोत्रशब्दार्थप्रसिद्धिश्चेत्यर्थः, सा च वाक्यान्तरात् । वाक्यान्तरादेव च करणस्य कर्तुः फलसम्बन्धश्व, यदग्नये चेत्यनेन वाक्यान्तरेणाग्निसम्प्रदानकहवनस्य घृतेन पयसा दनेत्यनेन च करणस्य प्रसिद्धिः, तथा च वाक्यान्तरेरितिकत्तव्यताः प्राप्नुवन्ति तासां परस्पराकांक्षावतां सम्बन्ध एव कर्तव्यताऽग्निहोत्रात्मिकेति तदर्थप्रसिद्धिरिति भावः । अमुमर्थमेव स्फुटयतिवाक्यान्तरप्रापिताया इति । एवं तर्हि वाक्यान्तरप्रापितेतिकर्तव्यताभिरेवाग्निसम्प्रदानकहक्नादिप्राप्तेः पूर्ववत् पुनरुक्ति प्रसङ्ग इत्याह-न तर्हि पुनरिति । अपि चैवमित्यादि, पुरुष एव प्रमाणं यस्य नादस्येति पुरुषप्रमाणको कादस्तदापत्तिः 30 पुरुषकृतविचारप्राप्तार्थपरिग्रहात्तदनुसारेण वाक्यार्थनिर्णयात् पौरुषेयत्वं वेदस्यापन्नम, सोऽपि तर्कलक्षणो विचारोऽपरिपूर्ण एव, एकान्तेन सामान्याद्यात्मकवस्तुवादवदिति भावः। विचारप्रकारं दर्शयति-उत्तरोत्तरेति । तर्कलक्षणश्चेति, सामान्यतो ज्ञाते विशेषतोऽज्ञाते वस्तुनि जिज्ञासा भवति जानीयेदमिति सदेवमविज्ञाततत्त्वेऽर्थे व्याहतधर्मविमर्शनेन किं खिदेवमाहोखिन्नैवमिति संशयो जायते तथाभूते वस्तुनि तत्त्वज्ञाना । कारणोपपत्तिपूर्वकं योऽयमूहो ज्ञानविशेषः स तर्क इति सूत्रार्थः । तस्याश्रयो को दोष इत्यत्राह-प्रागुक्तविधिनेति । अत्र तर्काश्रयणेऽपि पुनरुक्तत्वादिदोषसम्भवेनापरि Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy