________________
असत्कार्यस्वीकारः] न्यायागमानुसारिणीव्याख्यासमेतम् तर्कः, स चानिष्ट इति, अपि च तर्कोऽप्रतिपूर्णो यदि न भवेदाश्रीयेत किन्त्वप्रतिपूर्णः, कस्मात् ? दोषत्रयात, कतमस्माद्दोषत्रयात् ? पौनरुत्यादेरसत्कार्यवादाभ्युपगमात् पुनस्तत्त्यागाच । जुहुयादुक्तः पौनरुक्तयादिदोषाः प्रागुक्तवत् ।
असत्कार्याभ्युपगमप्रदर्शनार्थमाह
एकावस्थामात्रविच्छिन्नपूर्वापरत्वाग्न्यादिभिन्नवस्तुत्वाभिनिवेशविधानाच्च हवनक्रिया-5 नुष्ठानं तत्फलाभिमतः स्वर्गस्तयोश्च सम्बन्ध इति परस्परं विघटितत्वानोपपद्येत, कारणे कार्यस्यासत्त्वैकान्ताभ्युपगमात् ।
एकावस्थामात्रविच्छिन्नेत्यादि, यावत्कुर्यादिति कारणे कार्यस्यासत्वैकान्ताभ्युपगमात् । एकावस्थामात्रविच्छिन्नपूर्वापरत्वान्यादिभिन्नवस्तुत्वाभिनिवेशविधानाच्चेति तच्छब्दाजुहुयादुक्तेश्चैकस्यैवाऽवस्था एका च साऽवस्था चैकावस्था तत्परिमाणमेकावस्थामात्रं स्तिमितसरःसलिलवदविच्छिन्नं तस्यैव 10 पुनस्तत्त्वं विच्छिन्नं पूर्वस्यापरस्येन्धनादेरन्यादेर्भस्मादेर्घटपरादेश्व परविषयसामान्यवादिमतवत् सर्वेक्यापन्नस्य सतोऽम्यादेर्मिन्नवस्तुत्वेनाभिनिवेशः, तदभ्युपगमेऽग्निरिति परमाणुद्यणुकादिभूम्यवादिसंयोगसम्भूतवनस्पतीभूताग्निभस्मत्रुटितपरमाण्वादिविच्छिन्नावस्थामात्रत्वे सत्यग्निरिति भवति क्रमेण परिणामभेदाभ्युपगमात् तस्य विधानादग्निहोत्रं जुहुयादिति च हवनक्रियानुष्ठानं तत्कलाभिमतः स्वर्ग: तयोश्च सम्बन्ध इति परस्परं विघटितत्वान्नोपपद्येत पूर्वापराभ्युपगमयोः, किं कारणं विघटितमिति 15 चेदुच्यते, कारणे कार्यस्यासस्वैकान्ताभ्युपगमादिति विघटन प्रदर्शनम् । एवं हि कारणे धृतादीकार्यस्यामिहवनकर्मणस्तत्कार्यस्य च स्वर्गादेरसत्त्वे सति करणमुपपद्यते, तच्च सति नोपपद्यते, सिौदनपचनवत् ।
विशिष्टैकाम्याद्यवस्थाभ्युपगमश्च पुरुषादिकारणात्मकसवैक्याभ्युपगमविरोधिनि सत्युपपद्यते नान्यचेत्याह
20 सर्वगतसत्कार्यकारणवृत्तित्वेन भेदविधिनिर्विषयत्वादतः सर्ववस्तुसन्निधिसभूताऽपि सा भेदसाधनसम्बन्धाभिनिर्वाति विधीयते तदन्वनुष्ठात्रापि तदुपदिष्टभेदसाधननिष्पाद्यत्वेनाभ्युपगम्य यथाभागकारकविन्यासात्मकेतिकर्तव्यतयाऽनुष्ठीयतेऽतोऽसौ प्राङ्नासीदिपूर्णत्वान्न शक्यमित्याह-अपि चेति । प्रागुक्तवदिति, विज्ञेया इति शेषः । अथैकात्मस्वरूपात् सतोऽन्यादेभिन्नवस्तत्वामिसन्धिनाऽग्निहोत्रं जहयादित्यादिक्रियाविधानादसत्कार्यवाद आश्रित इत्याचष्टे-एकावस्थेति। तच्छब्दादिति.कुर्याच्छब्दा-25 दिव्यर्थः, कुर्याजुहुयादित्येकस्यैवावस्त्रोच्यत इति भावः । एका च सेति, पूर्वापरावस्थापरिहारेणैकावस्थामात्रतस्वाभ्युपगमेनाम्यादिविधानात् परविषयसामान्यवादिवदसत्कार्यवादस्स्थयाभ्युपगत इति भावः । परमाण्विति, परमाणुलणुकादिक्रमेणाम्यादिभूत्वा पुगः परमाणुपर्यन्तं वियोगो भवति, तत्र यावदमि पूर्वावस्थाः ततो यावत् परमाणूतराषस्थाः तेषामत्यन्तमेदाभ्युपगमाद्विघटितार्थता, असत्कार्याभ्युपगमात् , सत्कार्याभ्युपगमे तु सिद्धोदनस्य रधनवनिरर्थकं करणमिति भावः । ननु निखिलावस्थाविषिष्ट एकोऽनिरभ्युपगम्यते न तु परिहतपूर्वापरावस्थो वर्तमानकावस्थोऽमिरिति यदि स्वं ब्रूयात्तथापि सोऽभ्युपगमः सर्वात्म-30 कैककारणपुरुषाद्यभ्युपगमविरुद्ध एव सन् सम्भवति न त्वविरुद्धः समित्याह-विशिष्टैकेति । सर्वगतेति, सत् कार्य यस्मिमिति सत्कार्यम् , सर्वगतच तत् सत्कार्यश्च सर्वमतसत्कार्य तञ्च तत्कारणञ्च सर्वगतसत्कार्यकारणं तहत्तित्वेऽभ्युपगम्यमानेऽम्यादि. विशेषाभावादमिहोत्रं कर्यादिति मेदविधिनिर्विषया स्थाविति भाषः। पूर्व कार्य मासीत्ततः पवादुत्पममिति दर्शयति-अत इति।
द्वा० न० २२
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org