________________
द्वादशारनयचक्रम्
[विधिविध्यरे त्याश्रिता, कार्यत्वेन परिगृहीतत्वात् कुर्याजुहुयादित्यादिवचनाद्विशेषकान्तवस्तुवत् , एवमनेन तर्केणासत्कार्यवादोऽभ्युपगतस्त्वया, स चाप्रतिपूर्णः, असिद्धहेतुकत्वात् प्रतितर्केण बाध्यत्वाच्च ।
(सर्वगतेति) सुप्तसुषुप्तजागरितत्वाद्यवस्थं क्रमेणैकमेव युगपद्वा सर्वगतं पुरुषाख्यं कारणं 5 तच्च सत्कार्य, सर्वगतं च तत् सत्कार्यकारणश्च तदिति विग्रहात् । वक्ष्यमाणविधिविधिनयदर्शनेन तद्वृत्तित्वेनाग्निहोत्रं कुर्यादिति भेदविधेनिर्विषयत्वमन्याद्यभावात् , यथोक्तम् 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥' (कैवल्योपनिषत् खं-१-का-३) तथा 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् , उतामृतत्वस्येशानो यदन्ने.
नातिरोहति' (ऋ० मं० १० सू० ९०) इत्यादि । एतद्दर्शनं प्रतिपादयिष्यते । अतः सर्ववस्तुसन्नि10 धीत्यादि, सर्ववस्तूनां सन्निधौ सद्भूतैव सा हवनक्रिया, तथापि भेदाः साधनान्यस्याः, घृतेन पयसा
जुहुयादित्यादिभेदक्रिया एवाग्निहवनक्रियायाः साधनानि, तान्यन्तरेण तदभावात् , तत्साधनसम्बन्धाभिनिर्वत्येति विधीयते, तदन्वनुष्ठात्रापि तदुपदिष्टभेदसाधननिष्पाद्यत्वेनाभ्युपगम्य यो यो भागो यथा भागं कारकाणां विन्यास आत्मा यस्या इतिकर्तव्यतायाः सा यथाभागकारकविन्यासात्मिका तयेतिकर्तव्यतया गवालम्भनप्रक्षेपादिप्रकाररूपयाऽनुष्ठीयते सामर्थ्यादतोऽसौ प्राङ्नासीदित्याश्रिता, कस्मात् ?. 18 कार्यत्वेन परिगृहीतत्वात् , कुर्याज्जुहुयादित्यादिवचनात् कार्यत्वेन-
निर्यत्वेन परिगृहीतैव सा, दृष्टान्तो विशेषकान्तवस्तुवदिति, यथा विशेषैकान्तवादिना कार्यमेव न कारणमिति, प्रतिक्षणोत्पत्तिविनाशात्मकस्वात् प्रतिपन्नं वस्तु प्राङ् नास्ति तच्च त्वयाऽभ्युपगतं क्रियाभ्युपगमादिति त्वां प्रति साध्यसाधनधर्मान्वितो दृष्टान्तः, मयापि च त्वदभ्युपगमेनोक्तत्वादिति साध्यसाधनम् । एवमनेन तर्केणासत्कार्यवादस्त्वयाऽभ्युपगतो भवति, स चाप्रतिपूर्णस्तर्कोऽसिद्धहेतुकत्वात् प्रतितर्केण बाध्यत्वाच्च । 20. नतु तत्त्वमेव वस्तुनोऽसत्कार्यत्वं व्यङ्ग्यत्वात् , व्यङ्गया हि सा क्रिया, न कार्या, अवि
वक्षितप्रत्येकसमुदितघृतादिद्रव्यधर्मत्वेनाभिव्यक्तेः पिण्डकालघटवत् , शुक्रशोणितावस्थायामिव वा देवदत्तस्तदवस्थाविशेषान्तरत्वे सत्युत्तरकालमुपलभ्यत्वात् , कार्यत्वादेव वा प्रकाश्यघटवदभिव्यञ्जनस्यैव कार्यत्वाख्यत्वात् , एवं तर्हि सत्त्वरजस्तमसां साम्यवैषम्यवव्यक्ताव्य
कता एककारणत्वस्य बाधिका स्यादिति चेन्न, तत्त्व एवान्यथाभूते व्यक्तता नाम काचि20 दस्ति घटस्वात्मवत् । सस्कार्यवादाङ्गीकारे मेदविधिनिर्विषयत्वादेवासत्कार्यवाद आश्रितः, कथमित्यत्राह-सर्ववस्त्विति, सन्निहितेषु सर्वेषु वस्तुषु अमिहोत्रक्रियायाः सद्भावेऽपि तत्साधनविधानात् घृतेन पयसा जुहुयादित्यादि, अनुष्ठातापि तामुपदिष्टसाधनसम्पाद्यत्वेनाभ्युपगम्य यथाक्रममितिकर्तव्यताभिस्तामाचरति, ततो विज्ञायते सा पूर्वं नासीत् कार्यत्वेन तां परिगृहीतत्वादतोऽसस्कार्यवाद आश्रित एवेति भावः । तथा च प्रयोगः, अमिहवनक्रिया प्राङ् नासीत् कार्यत्वेन परिगृहीतत्वात् , विशेषकान्तअसवदिति, अत्र हेतोरसिद्धिं वारयति-कुर्यादिति । तत्र साधर्म्यदृष्टान्तं प्रकाशयति-दृष्टान्त इति । मीमांसकास्तु भरणे कार्य शक्त्यात्मना विद्यमानं कारणैरभिव्यज्यते न हि बीजादौ सर्वात्मनाङ्कुरायभावोऽस्ति, मूषिकाघ्रातबीजादितोऽङ्कुराअनुत्पतेः तस्माच्छक्त्यात्मना कार्यमाबिभ्रतो बीजादेरेव कार्योदय इति न सा धनव्यापारानर्थक्यमित्याहुः । अथासत्कार्यवादाभुपमसाधनतर्कस्य कार्यत्वेन परिगृहीतत्वलक्षणस्यासिद्धत्वं प्रतितर्कबाधितत्वश्वाचष्टे-न तु तत्वमेवेति असत्कार्यत्वं वस्तुनो
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org