________________
तस्यैवान्यथाभवनम् ] . न्यायागमानुसारिणीव्याख्यासमेतम्
१७१ ..(न विति) न तु तत्त्वमेव वस्तुनोऽसत्कार्यत्वं किं कारणं ? व्यङ्ग्यत्वात् , व्यङ्ग्या हि सा क्रिया न कार्या, अविवक्षितप्रत्येकसमुदितघृतादिद्रव्यधर्मत्वेनाभिव्यक्तः, को दृष्टान्तः ? पिण्डकालघटवत्, यथा मृत्पिण्डकाल एव घटो विद्यमानोऽपि साधनान्तरापेक्षाभिव्यक्तत्वान्नोपलभ्यते, शुक्रशोणितावस्थायामिव वा देवदत्तस्तवस्थाविशेषान्तरत्वे सत्युत्तरकालमुपलभ्यत्वात् । कार्यत्वादेव वा प्रकाश्यघटवदभिव्यञ्जनस्यैव कार्यत्वाख्यत्वात् , इतरथा वन्ध्यापुत्रोऽपि क्रियतामसत्कार्यत्वात् , घटवत् । । एवं तर्हि सत्त्वरजस्तमसां साम्यवैषम्यवद्व्यक्ताव्यक्तता एककारणत्वस्य बाधिका स्यादिति चेन्नेत्युच्यते । कुतः ? तत्त्व एवान्यथाभूतेः, न व्यक्ता नाम काचिदस्ति, किन्तर्हि ? तत्व एवान्यथाभावोऽस्ति तस्य भावस्तत्त्वं तस्मिंस्तत्त्व एव-तद्भावावस्थायामेवान्यथाभवनातू , तदेव हि वस्तु स्वरूपावस्थायामेवान्यथा भवति, यद्यन्यदन्यथा भवेन्मृत्पिण्डोऽपि पटो भवेत् , न तु भवति, साधर्म्यदृष्टान्तश्च घटखात्मवत् , यथा घटो घटस्वात्मन्येव स्थितो नवः पुराणतयोत्पद्यते तथा स एव मृत्पिण्डोऽन्यो घटो 10 भवति, न तु सांख्याभिमताऽव्यक्तता नाम काचिदस्ति, यदि स एव घटो नवः पुराणतयाऽन्यो न भवेन्न पुराणः स्यात् नव एव स्यात् , ततोऽन्यो वा घटादिः पुराणघटः स्यात् , नैव वा कश्चिदपि भवेत् , तस्मात्तत्त्व एव तथाभूते व्यक्तता नाम काचिदस्ति ।
अत्राह
घटस्वात्मवदित्ययं दृष्टान्त उपपद्यते, मृत्पिण्डकालघटवदिति तु न युज्यते तत्त्व एवा-15 न्यथाभावात् , पिण्डानन्तरं हि शिबको भवति न घटो न स्तूपकछत्रकस्थालककोशककुशूलका इति, अत्रोच्यते तुल्यप्रत्यासत्तित्वात् , मृत्पिण्डघटवत् पिण्डावस्थायामेव घटस्य भावात् ।
(घटखात्मवदिति) घटस्वात्मवदित्ययं दृष्टान्त उपपद्यते नवत्वावस्थानन्तरं पुराणत्वावस्थानुभवात् , मृत्पिण्डकालघटवदिति तु न युज्यते तत्त्व एवान्यथाभावात् , पिण्डानन्तरं हि शिबको भवति न घटो न स्तूपकछत्रकस्थालककोशकुशूलका इत्यत्रोच्यते, तुल्यप्रत्यासत्तित्वात्, यथा घटो भवति कुशू-20 न खभाव इति भावः । अविवक्षितेति हवनक्रियाया अभिव्यक्तिः किं प्रत्येकद्रव्यधर्मत्वेन किं वा समुदितद्रव्यधर्मत्वेनेति विकल्पमुपेक्ष्य घृतादिद्रव्यधर्मतयाऽभिव्यक्तरित्यर्थः। एवञ्च व्यङ्ग्यत्वादेव सा घृतादिद्रव्येषु वर्तत एव, साधनान्तरापेक्षया प्रकाशात् साधनान्तरानुपलम्भकाले नोपलभ्यते तत्र दृष्टान्तमाह-पिण्डकालघटवदिति । एवञ्च पिण्डकाले या घटावस्था साकारणमभिव्यक्तश्च घटः कार्यमिति व्यङ्ग्यत्वकार्यत्वयोरमेदमभ्युपगम्याह-कार्यत्वादेव वेति. पूर्व विद्यमान एव घटो यथा प्रतिपादितः प्रकाश्यतामापद्यत इत्यर्थः। ननु यथा सत्त्वरजस्तमसां साम्यवैषम्यलक्षणौ विरुद्धौ धर्मावेकस्य कारणतायां 25 बाधको तथैवैकस्य घटाळक्ताव्यक्तते बाधिके भवत इत्याशङ्कते-एवं तहीति । तद्धावावस्थायामेवेति, मृदूपतया वर्तमानस्य मृत्पिण्डस्यैव घटरूपतया परिणते व्यक्ता नाम काचिदवस्था विद्यते, उभयत्र मृदूपताया अविशेषेण प्रतीयमानत्वात्, भिनखरूपादपि यदि स्यात्तर्हि मृत्पिण्डादितः पटादिरपि स्यादिति भावः । अत्रार्थे दृष्टान्तमाह-घटखात्मवदिति। ननु नूतनतया विद्यमान एव घटाः पुराणतयाऽन्यो भवति, यदि पुराणतयाप्यन्यो न स्यात्तर्हि नव एव स्यात् पुराणो न स्यात् ततो वा भिन्न एव घटः पुराणः स्यात् अन्येषामपि घटानां नवत्वे पुराणः कोऽपि न स्यादित्येकस्यैवैकपरिणामात् परिणा-30 मान्तरगमनानाव्यक्तता नाम काचिदवस्था विद्यत इत्याशयेनाह-यदि स एवेति।ननु नवपुराणाद्यवस्थासु घटस्यैकप्रकारेण सत्त्वात् स एव दृष्टान्तो युज्यते सत्कार्यवादस्य, मृत्पिण्डकालघटस्तु न युज्यते घटकाले मृत्पिण्डस्याभावात्, नूतनावस्थाव्यवहितोत्तरं पुराणावस्थेव मृत्पिण्डानन्तरं घटावस्थाया अभावाचेत्याशङ्कते-घटखात्मवदिति । मृदेव तदीयसर्वावस्थासु खखरूपेणावस्थिताऽन्यथा भवतीति न वैषम्यमित्याह-तुल्यप्रत्यासत्तित्वादिति । तद्रूपेण स्थितादेव मृत्पि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org