________________
१७२
द्वादशारनयचक्रम्
[ विधिविष्यरे
लकात् तथा कुशूलकः कोशकास्, कोशक: स्थालकात्, स्थालकः छत्रकात् छत्रकः स्तूपकात्, स्तूपकः शिवकात् शिवकः पिण्डात् पिण्डो मृद इति मृद एव तथा तथा भूतेः, अथवा किमनया सांख्यसृष्टिक्रमिकवचनानुमत्या ? तस्यामेव पिण्डावस्थायां घटो भवतीति प्रतिपद्यस्व स्तिमितसरः सलिलवचरङ्गवत्तत्त्व एवान्यथा भवनान्नास्त्यत्रापि क्रम इत्यतस्तदुपदर्शनार्थमाह- मृत्पिण्डघटवदिति । अथवा 6 तत्व एव तथाभूतेरिति पाठः, तत्त्व एव तद्भाव एव सति तेन तेन प्रकारेण भवनातू, पिण्ड एव मूर्त्तिस्वभावरूपाद्यात्मके शिवकाद्यात्मना नीलरक्ताद्यात्मना च भवनादिति ।
अत एव कारणमात्रमसौ, तदात्मत्वात्तन्निर्वृत्तत्वाच्च, घटमृत्त्ववदेवश्चाप्रतिपूर्णस्तर्कः, स्वयमेव त्वया परित्यक्तत्वाच्च, एकान्तवादस्वाभाव्यात्, पूर्वोक्तमृषात्ववादवत् ।
( अत एवेति ) अत एव तत्त्व एवान्यथाभूतेस्तथाभूतेर्वा कारणं प्रमाणमसौ-हवनक्रिया 10 घृतादिकारणेभ्यो न व्यतिरिक्ता, उक्तहेतोरसत्कार्याभावात्कारणमात्रमसौ क्रियेति प्रतिपत्तव्यमवश्यम्, न केवलं क्रियैव कारणमात्रं, सह फलेनापि सा कारणमात्रम् फलमध्यस्या:- स्वर्गाख्यं सुखादि, घृतादिकारणान्यथाभवनमात्रम् । अत्रोपनय हेतू प्रतिपादितार्थावेव तदात्मत्वात्तन्निर्वृत्तत्वाचेति, तस्य आत्मा स आत्माऽस्येति वा तदात्मा तेन तस्मिंस्तस्य स एव वा निर्वृत्तस्तद्भावस्तन्निर्वृत्तत्वं तदात्मत्वश्च तस्मातदात्मत्वात्तन्निर्वृत्तत्वात् घटमृत्त्ववत्, घटस्य मृत्त्वं घटमृत्त्वं, मृदेव घट घट एव मृद्यथा प्रति15 पारितं तत्त्व एवान्यथाभूतेस्तथाभूतेर्वेति तद्वत् तस्मात् कारणमेव क्रिया क्रियाफल । एवं तावद - प्रतिपूर्णस्तर्कः प्राङ्नासीत्तत्क्रिया, कार्यत्वेन परिगृहीतत्वादित्यसिद्धहेतुत्वात् प्रतितर्केण बाध्यत्वाचेति सुष्टुच्यते । किञ्चान्यत् स्वयमेव त्वया परित्यक्तत्वाचाप्रतिपूर्ण एव, कस्मात् ? एकान्तवादस्वाभा एवंस्वभावा ह्येकान्तवादाः पूर्वोक्तमृषात्ववादवत् ।
व्यात्,
यथोक्तं त्वया तदनुबन्धाश्चेतिकर्त्तव्यतेति ब्रुवता कारणे कार्यस्य सत्त्वमभ्युपगम्य त्यक्तं भव20 त्यतो ग्रूमः --
इतिकर्त्तव्यता कर्तव्यताभ्युपगमात्तु पूर्वोत्तरावस्थानुबन्धात् कारणमेव कार्यम्, सर्पस्फटाटोपमुकुलप्रसारणकुण्डलीकरणवत् यज्ञोपवीतसूत्रतन्तुपटत्ववद्वा संस्थानमात्रभिन्नस्य कारणस्यैव कार्यत्वमित्यभ्युपगम आपद्यत इति कार्यस्य त्यागः कुर्यादिति, स्वशब्दार्थापत्तिविषयविपरीतार्थत्वाद्विवक्षाभेदव्याघातः स च त्वया तत्त्वानपेक्षणदोषान्नेक्ष्यते ।
25 डा. कुशलकादिक्रमोपेक्षादेव घटो भवतीत्याह- अथ वेति । अत एवेति, तद्भावावस्थायामेवान्यथा भवनस्य तद्भावे सति वा तेन तेन प्रकारेण भवनस्याभ्युपगम एव कारणं प्रमाणश्च भवितुमर्हति नान्यथा, तथा चासत्कार्याभावात् घृतादिकारणरूपैव सा हवनक्रियेति भावः । अत्रोपनय हेतू इति, अत्रार्थे उपनयरूपेण प्रतिपादितौ तदात्मत्वात्तन्निर्वृत्तत्वाचेति हेतू तत्त्व एवान्यथाभूतेः तत्त्व एव तथाभूतेरित्यनेन प्रतिपादितार्थावेव, न भिन्नार्थाविति भावः । तदात्मत्वादिति तत्त्व एवान्यथाभूतेरित्यनेन तनिवृत्तत्वादिति तत्त्व एव तथाभूतेरित्यनेन च प्रतिपादितार्थः । तस्यात्मेति, घटस्यात्म मृत्त्वं, मृदेवात्मा घट 30 प्रति वा तदात्मा तस्य भावस्तत्त्वमित्यर्थः मृदा मृदि मृदो निर्वृत्तो मृदेव न घट इति तन्निवृत्तस्तद्भावात्ततन्निर्वृत्तत्वादिति विग्रहार्थः । अथ कार्यत्वेनाभिहवनक्रियायाः परिगृहीतत्वात् प्राक् सा नासीदिति सिद्धः, इतिकर्तव्यतैव कर्त्तव्यतेत्युक्ते श्वासत्कार्यवादस्त्यतस्तेन कार्यश्वेन परिगृहीतत्वादिति हेतुरसिद्ध इत्याह-एवं तावदिति प्रतितर्कश्च सत्कार्यवादसमर्थनलक्षमस्वस्व एवान्यथाभूते खत्त्व एव तथाभूतेरित्येवं रूपो बोध्यः । सत्कार्यवादाङ्गीकारमेव पुनरुपदर्शयति- इति कर्त्तव्यतेति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org