________________
व्यायातदोषः] न्यायागमानुसारिणीव्याल्यासमेतम्
इतिकर्तव्यताकर्तव्यताभ्युपगमास्वित्यादि, इतिशब्दस्य प्रकारार्थवाचित्वादिस्थमिस्थश्च कर्तव्यं घृतेन जुहुयात् पयसा जुहुयादित्यादि कर्त्तव्यताप्रकारा इतिकर्तव्यताः कारणभूताः, सैव कर्तव्यता, ता एव प्रोक्षणादिक्रिया अमिहोत्रमित्यभ्युपगमात् । पूर्वोत्तरावस्थानुबन्धात् विच्छिन्नपूर्वोसरावस्खस्य कस्यचिदभावात् कारणमेव कार्यम्, सर्पस्फटाटोपमुकुलप्रसारणकुण्डलीकरणवत्, यज्ञोपवीससूत्रतन्तुपटत्ववद्वा, सूत्रमेव यथायज्ञोपवीताख्यां लभते तथा समवस्थानात्तथा वन्तव एव पटस्तद्वत् । संस्थानमात्रभिन्नस्य कारणस्यैव कार्यत्वमित्ययमभ्युपगम आपद्यते इतिशब्दो हेत्वर्थे, एतस्मात् संस्थानमात्रभित्रकारणकार्यत्वाभ्युपगमापत्तेर्हेतोः कार्यस्य त्यागः कुर्यादिति, अयं हि शब्दः कार्यार्थे सत्यर्थवान् भवति नान्यथा, पुनरितिशब्दो हेत्वर्थे, ततश्च कुर्यादर्थत्यागात् स्वशब्दार्थापत्तिविषयविपरीतार्थत्वाद्विवक्षाभेदव्याघातः, अग्निहोत्रं जुहुयादित्यनेन स्वशब्देनैवासत्कार्यवादोऽभ्युपगतस्तदनुबन्धादेतिकर्तव्यदैव कर्तव्यतेत्यर्थापत्त्या कारणात्मककार्यवादोऽभ्युपगतः, तयोरन्योऽन्यविपरीतार्थत्वात्-विरुद्धत्वाद्विव- 10 क्षाभेदो व्याघातश्च । विवक्षाभेदस्तावदसत्कार्यवाचिनः शब्दस्य कारणात्मककार्याभिधानाभ्युपगमात्, कारणात्मककार्यवाचिनश्चासत्कार्याभिधानाभ्युपगमात् , अत एव च परस्परतो विरोधाव्याघातोऽनयोरर्थयोः, अर्थद्वयस्य स्वशब्दार्थापत्तिविषयस्याभ्युपगमाद्विवक्षाभेदोऽयं पुरुषबुद्धिवशादप्रामाण्यमपौरुषेयत्वं व्याइन्तीति विवक्षाभेदव्याघातः, स च त्वया तत्त्वानपेक्षणदोषान्नेक्ष्यते । वस्तुतत्त्वविचारप्रवेषिणो वा कार्यकारणखरूपानपेक्षिणोऽपि बलादयं कारणकार्यतत्त्ववाद आपद्यतेऽनेकान्तरूपो वस्तुनस्तादा-15 म्यादनपेक्षमाणोऽपि स्वमतव्याघातीति ।
एवं कारणात्मकत्वेऽभ्युपगतेऽपि यदीतिकर्तव्यता जनयतीतीष्यते ततो न सा कर्त्तव्यता काचिदस्तीति सातजन्या न भवति, जनकत्वात् कारणत्वात् पूर्वत्वाद्विधायकत्वान्मातृवचनवत् ।
पूर्वोत्तरभावेन नियतक्रमवतामितिकर्तव्यतानामेवामिहोत्रकर्तव्यतात्वान्निरन्वयविनाशिपूर्वोत्तरावस्थस्य कस्यचिद्वस्तुनोऽभावात् 20 कारणभूतं वस्त्वेव सर्पस्फटाटोपादिवत् प्रवर्तत इति भावः । ता एवेति, कारणभूताः पूर्वोत्तरभावमापन्नाः घृतहवनपयोहवनप्रोक्षणादयोऽग्निहोत्रमित्युच्यन्त इति भावः। संस्थानमात्रेति विलक्षणावयवविन्यासविशिष्टकारणस्यैव कार्यत्वाभ्युपगमेन कार्य त्यकमेवेति भावः । अयमभ्युपगमो विचारात् सम्प्राप्तो न मीमांसकसिद्धान्तः, तैरितिकर्तव्यतानां कर्त्तव्यतानगीकारात्, प्रधानविध्यभिहितभावनायाः कथंभावाकांक्षायां नियतायां यत्सन्निधौ पठितमभूयमाणफलकश्च क्रियाजातं तदेवोपकार्याकांक्षयेतिकर्तव्यतात्वेनान्वयमनुभवतीति स्वीकारादिति ध्येयम् । अयं हि शब्द इति, कुर्यादिति शब्दः कार्यरूपे द्रव्ये 25 सत्येव सम्भवति कारणस्यैव च तथा तथा भावात् कार्याभावेन कुर्यात् पदार्थस्त्यक्त एवेति भावः । असत्कार्यवाद इति, कुर्याजुहुयादित्यादिवचनादितिकर्तव्यताभिर्हवनक्रियायाः कार्यत्वेन परिगृहीतत्वादसत्कार्यवादोऽभ्युपगत इति भावः । कारणा त्मककार्यवाद इति, परस्पराकांक्षधृतहवनपयोहवनादीतिकर्तव्यता एव कर्तव्यतेत्यभ्युपगमेन कारणात्मककार्यवादोऽभ्युपगत इति भावः । एवमभ्युपगमयोर्दोषमादर्शयति-तयोरिति । स्वशब्देति, जुहुयात् कुर्याच्छब्देनासत्कार्यवादस्य इतिकर्तव्यतैव कर्त्तव्यतेत्त्युक्त्याऽर्थापत्त्या कारणात्मककार्यवादस्य प्राप्तेः खीयबुद्धिबलसम्पन्नोऽयं विवक्षामेदो वेदस्य प्रामा- 30 ण्यवादमपौरुषेयत्ववादश्च व्याहन्तीति न पश्यसि, वस्तुतत्त्वविचारणस्योपेक्षणात्, तत्र वा द्वेषात् , तथापि त्वां बलादयं वादः प्रामोत्येवेति भावः । अथ कार्यस्य कारणात्मकत्वे दोषमाह-एवमिति । यत्कारणं न तज्जायते कारणत्वात् पूर्वत्वात् विधायकत्वात् मातृवद्वचनवद्वा, न हि यदेव कारणं तदेव कार्यम् , एकस्यैव कार्यत्वकारणत्वयोरसम्भवात्, न वा यदेव पूर्वमेवास्ति कारकव्यापारात् तदेव पश्चाद्भवति, नापि यदेव विधायकं तदेव विधेयमसम्भवादेवेति भावः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org