________________
१७४ द्वादशारनयचक्रम्
[विधिविध्यरे (एवमिति) एवं कारणात्मकत्वेऽभ्युपगतेऽपि यदीतिकर्तव्यता जनयतीतीष्यते ततो न सा कत्तव्यता घृतादिकारणे इतिकर्तव्यताव्यतिरिक्ता काचिदस्ति ततः सा तजन्या न भवति, क्रिया नात्मनैवात्मानं जनयतीत्यर्थः । कस्मात् ? जनकत्वात् कारणत्वात् , पूर्वत्वात् विधायकत्वात् मातृवत् यथा मातानात्मानं जनयति किन्तर्हि ? ततोऽन्यां दुहितरं जनयति एवमियमितिकर्तव्यता जनिका सती 5 तथा कारणत्वात् पूर्वत्वाद्विधायकत्वादिति व्याख्येयानि । वचनवदिति, अत्र यथा वचनमपि नात्मानं जनयति बुद्धिं तु ततोऽन्यां वाच्यविषयां जनयति तथेतिकर्तव्यतेति ।
अथ मा भूदेष दोष इति जनकत्वमसिद्धं तस्या जन्यत्वात् , जन्या हि सेत्यत्रोच्यते
अथ जन्या सा, एवं तर्हि न जनिका न कारणं जन्यत्वादित्यजनकत्वात् कार्यत्वात् अपूर्वत्वाद्विधेयत्वात् पुत्रादिवत् । 10 (अथेति) पुत्रादिवत्-आदिग्रहणाद्वाक्यार्थज्ञानवत् , तस्मात् स्वविहितदोषत्वाजन्यत्वे जनकत्वे वा दोषानतिवृत्तेरयुक्तमितिकर्तव्यतैव कर्तव्यता तदनुबन्धादिति ।
किश्चान्यत्____ कारणमात्रत्वे सति कर्त्तव्यता प्रतीतिकर्तव्यतां परिसमाप्ता वा स्यादपरिसमाप्तावा? तत्र यदि प्रत्येकमितिकर्तव्यतासु कर्त्तव्यता परिसमाप्ता ततः प्रतीतिकर्तव्यतासमातेरितिकर्तव्य15 तान्तरानारम्भः, अनारम्भ एव वा तस्या अपि, कारणमात्रत्वात् । कर्त्तव्यतायाः प्रत्येकमसमाप्तौ च कारणाभावादतथा तावत्प्राप्नोति, समुदायस्यापि च तन्मात्रत्वादुक्तवत् ।
(कारणमात्रत्वे सतीति) तत्र तावद्यदि प्रत्येकमितिकर्तव्यतासु कर्त्तव्यता परिसमाप्ता ततः प्रतीतिकर्तव्यतासमाप्तेरितिकर्तव्यतान्तरानारम्भः-एकया घृतेन जुहुयादित्यनयैवेतिकर्तव्यतया तन्मात्रपरिसमाप्तायाः कर्त्तव्यतायाः कृतत्वात् पयसा जुहोत्यादीनामितिकर्तव्यतान्तराणामारम्भो निर20 र्थकः प्राप्तः । अनारम्भ एव वा तस्या अपि, किं कारणं ? कारणमात्रत्वात् कर्त्तव्यताया इति त्वयैवाभ्युपगतत्वात् , न्यायतश्च घृतादिकारणद्रव्यमानत्वस्य क्रियायाः प्रतिपादितत्वात् सिद्धौदनपचनवदनारम्भ एव प्राप्तः, एवं तावत्प्रत्येकपरिसमाप्तौ दोषः । प्रत्येकमसमाप्तौ च कारणाभावादतथा तावत् प्राप्नोति-यदि शिबिकावाहककारणत्ववत् प्रत्येकमसमाप्ता च कर्त्तव्यतेतिकर्तव्यतासु तथाप्यकारणता प्रत्येकम
कारणत्वात् , सिकतातैलवत्, इतिशब्दस्यैवमर्थत्वादेवं शब्दस्य च प्रकारार्थत्वादेवं कर्त्तव्यं-इतिकर्त25 व्यम्-घृतादिप्रक्षेपस्वरूपकर्त्तव्यता। अतथा तावत् , न तथा अतथा, तत्तथात्वं न प्राप्नोति प्रत्येकमकारणत्वादिति, ननूक्तं शिबिकावाहकवहनशक्तिवत् समुदाये सति कर्त्तव्यता शक्तिरिति अत्रोच्यतेसमुदायस्यापि च तन्मात्रत्वादद्वयवमात्रत्वात् उक्तवदिति, उक्तं हि तत्त्व एवान्यथाभूतेस्तथाभूतेति, अवयवा एव समुदायीभवन्तः, नो चेत् सिकतातैलवदेव न स्यात्तिलसमुदाये तैलमपि । अथेतिकर्तव्यताया जनकत्वमुपेक्ष्य जन्यत्वाभ्युपगमे दोषमुद्भावयति-अथेति । कारणेषु कार्यस्य सत्त्वे दोषान्तरमाह-कार30 णमात्रत्वे सतीति, अनारम्भ एवेति, तदितिकर्तव्यतायाः सिद्धत्वादेव तत्स्वरूपकर्त्तव्यताऽपि सिद्धैवेति तदारम्भोऽपि वृथैवेति भावः । ननु इतिकर्तव्यतासमुदाय एव कर्तव्यता न तु प्रत्येकपरिसमाप्ता ततो न दोष इत्याशङ्कायामाह-समुदाय स्यापीति । अत्र मीमांसकः, सर्वात्मना कारणमेव न कार्य न ह्यधिश्रयणोदकासेचनतण्डुलावपनधोपकर्षणक्रियाः विक्लित्ति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org