________________
१७५
विध्यनुवादः] न्यायागमानुसारिणीव्याख्यासमेतम्
किश्चान्यत्
अभिमतविध्यनुवादवैपरीत्यदोषप्रसङ्गश्च, अनुवादकता च घृतादेः कारणमात्रवृत्तित्वाद्धवनवत् , घृतादिवद्धवनस्य वा विधायकता, एवञ्च न विधिर्नानुवादो वाऽस्ति, अतोऽवाक्यत्वम्, अनुवादविधायकत्वाद्विच्छिन्नार्थपदवत् , काकरतवद्वा ।
(अभिमतेति) अभिमतविध्यनुवादवैपरीत्यदोषप्रसङ्गश्च, तत्र तावद् घृतेन जुहुयात् पय- 5 सा जुहुयादित्यादिवाक्येषु घृतादेर्विधेयत्वाभिमतस्य कारणमात्रस्य हवनकार्यानन्यस्य तन्मात्रेतिकर्तव्यतामात्रहवनार्थत्वादग्निहोत्रं जुहुयादित्यत्र श्रुतहवनानुवादाभावोऽपि, हवनस्य घृतादिव्यतिरिक्तस्याभावात् , ततश्च घृतादिविधानवत् ज्ञातार्थाभिमतस्य हवनस्य विधायकतैव स्यान्नानुवादकता, अनुवादकता च घृतादेरज्ञातार्थविधायकाभिमतस्यापि कारणमात्रवृत्तित्वाद्धवनवदिति, कारणमात्रे वृत्तिरस्य तत् कारणमात्रवृत्ति घृतादिहवनम् , प्रोक्तविधिना कार्याभावस्य प्रतिपादितत्वात् , तस्मात् कारणमात्रवृत्ति-10 त्वाद्धवनवद्धतादेरनुवादकता, घृतादिवद्धवनस्य वा विधायकतेति, एवञ्चेति, विध्यनुवादयोरन्योऽन्यखभावसङ्कराव्यवस्थितात्मस्वभावत्वान्न विधिर्नानुवादो वाऽस्ति, अतः-एवमुक्तप्रकारेणावाक्यत्वम् , अनुवादविधायकत्वाद्विच्छिन्नार्थपदवत् , यथा विच्छिन्नार्थमेकं पदमधिकृतपदार्थान्तरसम्बन्धं गामित्येतन्न वाक्यम् , अत एव विध्यनुवादत्वाकांक्ष्यार्थाभावात् , तथाऽग्निहोत्रं जुहुयात् स्वर्गकामो घृतेन पयसा जुहुयादित्यादीनि । यस्यापि पदार्थों नास्त्येव तं प्रति काकरतवदिति दृष्टान्तः, यथा काकरुतमर्थान्तरा-15 कांक्षारहितमवाक्यमविध्यनुवादत्वात्तथेदमपि ।
ज्ञाताज्ञातविशेषाञ्चैवं पदवाक्यशब्दानां घटज्ञानवत् साधुतासाधुते न घटेते, अर्थाः रित्युच्यन्ते किन्तु ताभिनिष्पाद्या, सापि तासु शक्तिरूपाऽस्ते शक्तयोऽपि यावत्य इतिकर्तव्यतास्तावत्यो भवन्ति, प्रकृतेऽपि तथैव, तस्मादेकयेतिकर्तव्यतया प्रधानविधेर्निष्पत्तावप्यपरेतिकर्तव्यतायां शक्तितः सत्यप्यनुत्पन्नत्वात्तदुत्पत्तये तदनुष्ठानमिति न वैयर्थ्यमितिकर्तव्यतायाः लोके तथैव दृष्टत्वादिति शक्तिनिरूपणे प्राहुः । अभिमतेति, अत्रायमाशय इति प्रतिभाति तथाहि 20 इतिकर्तव्यताया एव कर्तव्यतात्वादग्निहोत्रकर्त्तव्यतामृतादीतिकर्तव्यताया अभेदेन घृतेन जुहुयादित्यत्र यदि घृतादेविधेयत्वं तदाऽग्निहोत्रं जुहयादित्यत्रापि घृताधभिन्नहवनादेविधेयत्वमेव स्यात्, न त्वनुवादत्वमित्यग्निहोत्रं जुहयादिति वाक्यं न श्रुतहवनानुवादकं स्यात् , अथापि हवनस्यात्र वाक्येऽनुवादत्वे घृतेन जुहुयादित्यत्रापि घृतादेरनुवादता स्यात् , अतोऽज्ञातार्थविधायकत्वेनाभिमतमप्यनुवादकं घृतेन जुहुयादित्यादिवाक्यम्, ज्ञातार्थाभिधायकत्वेनाभिमतमप्यग्निहोत्रं जुहुयादिति वाक्यं विधायकमिति प्राप्तत्वेन विधेरज्ञातज्ञापकत्वलक्षणस्यानुवादस्य च ज्ञातानुवचनलक्षणस्य खभावस्य साङ्कर्येण व्यवस्थाविर-25 हान कोऽपि विधिर्न वाऽनुवादोऽस्तीत्यग्निहोत्रं जुहुयादित्यादिवाक्यानामवाक्यत्वमेव स्यात् , विधायकत्वाभावादनुवादकत्वाभावाच्च, न हि किञ्चिद्वाक्यमन्तरेण विधायकत्वानुवादकत्वाभ्यां वाक्यं भवितुमर्हतीति । कारणमात्रवृत्तित्वाद्धवन- . पदिति, यथा हि घृतादिलक्षणे कारणे एवामेदेन वर्तमानमपि हवनमनुवादकं तथैव कारणमपि घृतादिहवनाभिन्नत्वादनुबादकमेव स्यादिति भावः । अनुवाद विधायकत्वादिति, यथा गामानयेति वाक्यागवानुवादेनानयनविधायकात् पृथक्कृत्योक्तस्य गामितिपदस्य पदार्थान्तरसाकाङ्क्षार्थबोधकस्यापि विधित्वेनानुवादत्वेनाकांक्षणीयार्थाभावान वाक्यत्वं तथैवामिहोत्रं 30 जुहुयादित्यस्य वा घृतेन जुहुयादित्यादेर्वा न वाक्यत्वम् , विधित्वेनानुवादत्वेन वाऽऽकांक्षणीयार्थाभावादेवेति भावः । येषां मते .. पदेभ्यो भिन्नं वाक्यमेव पदार्थव्यतिरिक्त वाक्यार्थं साक्षादेव बाचकतया बोधयति तन्मते पदार्थज्ञानस्यानुपयोगात् वाक्यार्थ बुबोधयिषतां पदार्थ व्युत्पत्तिय॑थैव, न हि पदार्थाद्वाक्यार्थावगतिरसम्बन्धात् , यथा च पदपदार्थयोः सम्बन्धोऽस्ति न तथा पदार्थवाक्यार्थयोरिति तन्मताश्रयेण दृष्टान्तान्तरमाह-यस्यापीति । ननु कारणमात्रकार्यत्वाभ्युपगमे पदानां वाक्यानाच ज्ञाताजातरूपत्वासम्भवेन साधुत्वमसाधुत्वं घा न सम्भवतीत्याह-शाताज्ञातविशेषाञ्चेति । साधुतासाधुतयोर्मध्ये साधुता
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org