________________
२२९
पुरुषात्तु सर्वसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम्
(ज्ञानस्यापीति) रूपादयो न सन्तीति यदपलापबीजं निरूपणं तदपि नास्तीति रूपादि प्रतिषेधो न सिद्ध्यति, प्रत्यक्षतश्च स्वानुभवेन रूपस्य निरूपणमुपलभ्यते प्रतिस्वम् । आदिग्रहणादा. स्वादनघ्राणस्पर्शनश्रवणानुभवा उपलभ्यन्तेऽतः प्रत्यक्षविरोधः, तदनुस्मरणदर्शनादनुमानविरोधः आदिग्रहणात्, अनुस्मरणं हि स्वयमनुभूतस्यार्थस्य, नाननुभूतस्य । तस्मादवश्यमात्मा ज्ञानस्वभाव एकः सर्वभावव्यापी विपरिवर्त्तमानोऽवस्थितः कारणमिति सिद्धम् । अत एवोक्तवदित्यादि, एतस्मादेवात्मव्याप्तिविपरिवृत्तिव्यवस्थितत्वाद्धेतोरुक्तेन तुल्यमुक्तवत् , रूपादीनां तत्त्वात्-रूपणात्मकत्वात् ज्ञानस्वभावात्मावस्थाविशेषमात्रत्वात् । सर्वत्र-सर्वभावेषु एष विशेषः तस्यैव कारणपदार्थस्योपकारविशेषेभ्योऽपरो द्रष्टव्यः, सन्निपत्योपकारिणी बुद्धिरात्मनः साक्षाव्यवहिता भावानां स्वपरिवर्तविशेषाणामुपभोगे, भोक्ता तु स्वयमेव स्वपरयोरारादिन्द्रियाणि करणत्वात् , दूरात् प्रकाशादयोऽनुप्राहकाः इन्द्रियाणाम् , दवीयांसस्तु रूपादयः दविष्ठा घटादयः, औषधान्यञ्जनादीनीन्द्रियाणां पाटवजननादु-10 पकार्योपकारित्वेन तदुपोद्वलकराश्वाऽऽहाराः सर्वभावगतासु ज्ञानवृत्तिष्विति, अत आह-सर्वत्र सन्नि. पत्याराहरादुपकारित्वेभ्यो हेतुभ्य आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्तिर्भवतीति ।
अत्रआह च पुरुष एवेदमित्यादि।
आह चेति ज्ञापकमेतस्मिन्नर्थे पूर्वोक्तमेव जैनैर्वक्ष्यमाणज्ञापकार्थमेकोऽहमनेकोऽप्यहमित्या-10 दिकम् , अतोऽपि लौकिकस्तदनुसारेणाह न स्वमहिम्नेति, पुरुष एवेदमित्यादि, एवेत्यवधारणे, भवितुरन्यस्याभावात् , उक्तवत्तस्यैव च भवनात् । इदमिति दृश्यस्पृश्यादीन्द्रियगोचरं लिङ्गगम्यं च निर्दि
अथ न खलु बाह्यार्थस्याभावोऽध्यवसातुं शक्यते विज्ञानाभावे रूपादयो न सन्तीति निरूपणोपायाभावात् , न वा स्फुटतरे सर्वजनीन उपलम्भे सति तदभावो वक्तुं शक्यः, यथा हि कश्चिद्भुञ्जानो भुजिनिय॑तृप्तौ स्वयमनुभूयमानायां नाहं भुजे न : वा तृप्यामीति ब्रुवन्ननुपादेयवचनो भवति प्रत्यक्षविरुद्धत्वात् , तद्वदिन्द्रियसन्निकर्षेण खयमुपलभमान एव रूपाद्यर्थजातं नाह-20 मुपलभे न च सोऽस्तीति ब्रुवन् कथमुपादेयवचनः स्यादित्याशयेनाह-रूपादय इति । आदिग्रहणादिति, रूपादीत्यत्रादिग्रहणादित्यर्थः। प्रत्यक्षादीत्यत्रादिग्रहणादनुमानस्य ग्रहणमित्याह-तदनुस्मरणेति । रूपणरसनादिना चानुभवनीय यद् ज्ञानं तदपि न विभिन्नमनुस्मरणानुपपत्तेः, तच्च खयमनुभूतस्यैव, नान्येनानुभूतस्येति सर्वभावव्यापी ज्ञानलक्षणः स्वय म्प्रकाशश्चतनाचेतनतया विपरिवर्त्तमान एक आत्मा सर्वकारणं सिक्यतीति भावः । एतस्मादेवेति, सर्वभावव्याप्तत्वे सति विपरिवर्तमानत्वादेव हेतोरित्यर्थः, रूपादयो रूपणाद्यात्मकत्वे सति ज्ञानखभावात्मावस्थाविशेषा एव । चेतनस्यैकस्यैव 25 भोग्यभोक्तभोगभोगोपकरणादिना वर्तनमादर्शयति-सर्वत्रेति । सन्निपत्येति, चेतनस्य खपरिवर्त्तविशेषाणामुपभोगे सन्निपत्त्योपकारिणी भवति, आन्तरं साधनमिति भावः,भोक्ता चेतनस्साक्षदेव, इन्द्रियाणि करणत्वादारादुपकारकाणि प्रकाशादय इन्द्रियापेक्षया विप्रकर्षेणोपकारकाः, रूपादयश्च तदपेक्षयाऽपि विप्रकृष्टास्ततोऽपि घटादयः, औषधादीनि चेन्द्रियपाटवाधाय.. कानि आहारादयोऽपीन्द्रियाणामुपोद्वलकरा इति विशेष इति भावः । तत्र प्रमाणमाह-आह चेति-पुरुष एवेदं सर्व यद्भूतं यच्च भव्यम् , उतामृतत्वस्येशानो यदन्नेनातिरोहति इति (ऋग्वेदे० पुरुषसू०) पूर्णा ऋक् ज्ञापकमिदं पुरुषवादिनः, आई-30 तमतानुसारेण ज्ञापकं सूचयति-जैनैरिति, हे सोमिल! एकोऽप्यहं द्वावप्यहमक्षयोऽप्यहमव्ययोऽप्यहमवस्थितोऽप्यहमनेक भूतभावभावकोऽप्यहमिति विधिविध्यरान्ते वक्ष्यमाणं ज्ञापकमत्र बोध्यम् । पुरुष एवेदमिति ऋचं व्याचष्टे-पुरुष एवेदमित्यादीति, भवितुरिति, पुरुषातिरिक्तस्य प्रपञ्चस्य प्रतिषेधात् पुरुषोपादानमेव जगदित्यवधार्यते तस्यैव प्रागुदितप्रकारेण चेतनाचेतनरूपेण भवनादिति भावः । इदंशब्देन व्याकृतं प्रत्यक्षानुमानगम्यं गृह्यत इत्याह-इदमितीति । निखिल
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org