________________
२३०
द्वादशारनयचक्रम्
[विधिविध्यरे शति, सर्वमित्यशेषम् , तस्यैव सामान्यविशेषभेदप्रभेदानन्त्येऽपि सङ्ग्रहीतं बुद्ध्या, इदं च देशतः प्रदर्शनमिदं सर्वमिति । कालतस्तु भूतं भाव्यमिति अतीतानागतवर्तमानानां प्रदर्शनम् , भूतशब्दस्य वर्तमानातीतवाचित्वात् , उत-पश्य, प्रेक्षस्वेत्यर्थः, अमृतत्वस्य-अक्षयत्वस्य ईशानः-प्रभविता, सह. भयोऽजरोऽमरः पुरुषः, ज्ञानस्याविनाशित्वात् , सोऽक्षयत्वमनुभवतीत्यर्थः । यथोक्तम्-'अक्खरस्स अणंतभागो णिचुग्घाडिओ सबजीवाणं (नन्दी. पृष्ठे १९५-२) इति, तद्व्याख्याननिदर्शनश्च-'तंपि जदि आवरिजिज तेण जीवो अजीवयं पावे' (नन्दी. १९५-२) 'सुङवि मेहसमुदए होइ पभा चंदसूराणं' (नन्दी. पृ. १९५-२) इति । यदिति, यस्मात् कारणात् , अन्नेनातिरोहति, अद्यते भुज्यतेऽश्यत इत्यन्नं पुद्गलद्रव्यं तेनैवात्मनाऽनाद्यनन्तशोऽपि विपरिवर्तितत्वात् , तेनान्नेनासावतिरो
इति वर्धते-उपचीयते, तत्स्वारूप्याद्वालक इव नवनीताहारेण, तेन ज्ञानक्रिययोरुपष्टम्भोपलम्भात् 10 करणकायविवृद्धेश्व, यथोक्तं-'अन्नं वै प्राणाः' 'अन्नमयो ह्ययं पुरुषः,' पुरि शयनात् पुरुषः, नाज्ञस्यै तत्सर्व घटते, अतिरोहति भृशं रोहतीति ।
किश्चान्यत्
अत एव सर्वत्वसिद्धिस्तस्य, तया चाऽऽत्मा सत्त्वं भूतः पुरुषः पुद्गलो जन्तुः प्राणी जीव इत्याद्यभिख्या घटन्ते मृदनुत्तीर्णघटपिठरादिवत् भ्वस्त्यर्थादिभ्यः सर्वस्यानुत्तरात 15 यावदेव किश्चिदुत्पद्यते विनश्यति व्यवस्थितं वा तस्य सर्वस्यासावात्मा ।
अत एवेत्यादि, एतस्मादेव कारणात् सर्वत्वसिद्धिः तस्य-तत्त्वज्ञानस्वरूपस्य, तया च पुन: सर्वत्वसम्प्रसिद्ध्या आत्माद्याख्याताः, सततमतति गच्छति जानीते परिणमतीति चात्मा, सतो भाका सत्त्वं स एव सन् भवति चेत्यर्थः, भूतस्तथा सदा भवतीति वा, पुरि शयनात् पुरुषः शरीरे जगति वा खविजृम्भितविकल्पात्मके, पूरणाद्गलनाच पुद्गलः पुमांसं गिलतीति वा पुद्गलः, जीवशरीरस्य 20 विभज्य भोक्तृभोज्यभावाद्वृद्धिहानिभ्यामुत्पत्तिविनाशाभ्यां पूरणगलनाभ्यामित्यर्थः । जायते तैस्तै -
वैरिति जन्तुः । पञ्चेन्द्रियमनोवाकायबलायुरुच्छासनिःश्वासाख्यदशप्राणधारणात् प्राणी जीव इति चोच्यते । इत्येवमाद्यभिख्याः सर्वत्वे सति घटन्ते तेन तेन धर्मेण व्यपदेशाविरोधात् । मृदनुत्तीर्णघटपिठरादिवत्, यथा मृदोऽनुत्तीर्णाः घटपिठरादयो भवन्ति सन्ति वर्तन्ते इत्यादिभ्यो भ्वस्त्याद्यर्थेभ्यो
प्रपश्चग्रहणार्थ सर्वपदमित्याह-सर्व मितीति । अक्खरस्स इति, न क्षरतीत्यक्षरं केवलज्ञानमथवा जीवस्य चेतनाभावो 26 ज्ञानपरिणामो वा अनुपयोगेऽप्यप्रच्यवनातू तच्च सर्वजीवानामनन्तभागो नित्योद्घाटितः। सोऽपि यद्यावियते तेन जीवोs
जीवत्वं प्राप्नुयात् । तत्र दृष्टान्तरूपेणाह-सुदृढवि, सुष्ठपि मेघसमुदये भवति प्रभाचन्द्रसूर्ययोः, तद्वदिति भावः । तेनेति, नवनीताहारेणेत्यर्थः । अत एवेति, सार्वात्म्यं जगत्कारणस्य पुरुषस्यैवोपपद्यते कारणादभेदात् कार्यजातस्य, पुरुषस्य च जगत्कारणत्वादित्यर्थः । अत एव स आत्मादिशब्दैः प्रोच्यत इत्याह-तया चेति. सर्वत्वसिङ्ख्या चेत्यर्थः। दृष्टान्तमाह
मृदनुत्तीर्णेति, मृज्जात्यपरित्यागेन वर्तमाना घटपिठरादयो मृदभेदेन घटो मृत् पिठरं मृदियेवं व्यपदिश्यन्ते तथा घटादेः 30 सत्वप्रकारकप्रमाविषयताप्रयोजकरूपवत्त्वात्सच्चित्तादात्म्यम. तेन तेन प्रकारेण तस्यैव भवनात , वर्तनाच्च भवति अस्ति वत्तेत
इत्याद्यर्थेभ्यो भावं सर्वे नोत्तरन्ति, तस्मात्तत्तद्धावैः स एव भवतीति आत्मादिशब्दवाच्य इति भावः । एतदेवाह-यावदेवेति, सत्त्वशब्दं निर्वक्ति सतो भाव इति, सद्रूपेण वर्तमानः सन् भवनधर्मेत्यर्थः । पुरुषशब्दं निर्वक्ति-पुरि शयनादिति, पुद्गलशब्दं व्याकरोति-पूरणादिति, भ्वादयः सर्वे धातवोऽस्त्यादीनामर्थ नातिवर्त्तन्ते, स चास्त्यादिवच्याः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org