________________
सर्वात्मकतावर्णनम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
२३१ नोत्तरन्ति, भवनानुत्तरात् सर्वधातूनां भवत्याद्यर्थत्वात् , एवं ज्ञानस्वरूपः कर्ता भवत्यस्ति वर्तते ज्ञानस्वरूपभवनानुत्तरात्, अत आह-वस्त्यर्थादिभ्यः सर्वस्यानुत्तरात् , अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्थाः, भ्वादयश्च सर्वधातवस्तदर्थं नातिवर्तन्त इति, यावदेव किञ्चिदुत्पद्यते विनश्यति व्यवस्थितं वा तस्य सर्वस्यासावात्मा स्वरूपं तत्त्वमित्यर्थः, इति पर्यायैः स्वरूपोपनयनम् ।
स्यान्मतम्
स्वात्मनि वृत्तिविरोधात् कथमात्मनाऽऽत्मानं सृजत्युपसंहरति च, बध्यते मुच्यते च? न ह्यङ्गल्यग्रं स्पृशति, नासिरात्मानं छिनत्तीत्येतच्चायुक्तम् , शक्तिभेदात् कारकभेदोपपत्तेः, तन्तुवायकोशकारकीटवञ्च तदात्मका एवैते संसारविसर्गबन्धमोक्षाः। यथा च 'सुदीप्तात् पावकाद्विस्फुलिङ्गाः प्रभवन्ते सरूपाः', एवं पुरुष एवं सर्वम् , स एवोच्यते कालोऽपि ज्ञत्वात् , प्रकरणात् प्रकृतिः, रूपणान्नियमनान्नियतिः, स्वोभाव आत्मनैव स्वेन रूपेण भवनात्स्वभावः। 10
(स्वात्मनीति) (संसारविसर्गबन्धमोक्षा इति ) यथा तन्तुवायकीटः स्वशरीरजयैव लालया तन्तुं प्रसारयत्युपसंहरति च, न चान्यतः कुतश्चित्तथाऽऽत्मन एव संहारविसर्गौ । उक्तं हि-'यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाsक्षरात् सम्भवतीह विश्वम्' (मुण्ड. ११११७) इति । यथा वा 'यथा सुदीप्तात् पावकाद्विस्फुलिया सहस्रशः प्रभवन्ते सरूपाः (मुण्ड. २।१।१) इति । बन्धमोक्षावपि, यथा कोशकारकीटकः आत्मानं 15 वेष्टयति स्वशरीरविनिर्गतेन कोशेन पुनश्च तत्रैव प्रलीयते कश्चिच्च कोशकं छिद्रीकृत्य निर्गच्छत्येवमात्मनो बन्धमोक्षौ नान्यत इति । किश्चान्यत्-यथा च सुदीप्तादित्यादि, अयमपि दृष्टान्तोऽमिखतवानतिवृत्त्याऽविरूपसम्भवात् पुरुषस्य तत्साधर्म्यप्रदर्शनार्थः, यथा वाह-यथा सुदीप्तात् पावकादित्यादि ।
-
सपः पुरुष एव यावन्तो जगति प्रभवविभवस्थितिधर्माणस्तेषां सर्वेषामात्मखरूप इत्याह-भ्वादयश्चेति । नन्वात्मात्मानमेव साधनान्तरनिरपेक्षः स्वयमेव सृजति उपसंहरति चेति न संभवदुक्तिकम् , कर्तृत्वकरणत्वकर्मत्वानां परस्परविरुद्धानामेकत्र 20 विरोधादित्याशङ्कते-खात्मनीति । न स्यङ्गुली खाग्रं स्पृशति नाप्यसिः खात्मानं छिनत्ति, तस्मान्नात्माऽऽत्मनाऽऽत्मानं सृजतीत्यादिसम्भव इति शङ्कार्थः । समाधत्ते-शक्तिमेदादिति, सिद्धत्वसाध्यत्वसाधनत्वादिलक्षणोपाध्यवच्छिन्नस्यात्मनो भेदेन कर्तृत्वाधुपपत्तिः, अत्र दृष्टान्तमाह-तन्तुवायेति, दृष्टान्ते शुद्धमचेतनमर्णनाभेर्लाला न लूतातन्तुपरिणामकारणं न वा शुद्धश्वेतनः किन्तु चेतनाधिष्ठितमचेतनमर्णनाभिशरीरं सूत्रस्य योनिः. एवं पुरुषशरीर केशलोनाम्, अत एवाऽऽत्मा शुद्धखरूपोडकर्ता, अविद्योपहितस्तु अभिन्ननिमित्तोपादानकारणभूतः, परिणामाच्च पूर्वसिद्धोऽपि सन्नात्मा खयमात्मना विशेषेण विकारा- 25 स्मना परिणमयत्यात्मानम् । अत्र प्रमाणमाह-यथोर्णनाभिरिति तथैव भूतयोनेः पुरुषात् सर्व विश्वं सम्भवतीत्यर्थः । यथा सुदीप्तादिति, यथाहि वह्नर्विकारा व्युचरन्तो विस्फुलिंगा न बढेरत्यन्तं भिद्यन्ते तद्रूपनिरूपणातू, नापि ततोऽत्यन्तमभिभाः, वहेरिव परस्परध्यावृत्त्यभावप्रसङ्गात्, तथा जीवात्मानोऽपि ब्रह्मविकारा न ब्रह्मणोऽत्यन्तं भिद्यन्ते, चिद्रूपत्वाभाकप्रसङ्गात्, नाप्यत्यन्तं, न भिद्यन्ते परस्पर व्यावृत्त्यभावप्रसङ्गात् , तस्मात्कथंचिद्भेदों जीवात्मनामभेदच भागप्रतिभासो बुख्याधुपाधिनिमित्तात् , आकाशस्येव घटादिसम्बन्धनिमित्तात् , एवञ्च परमात्मांश एव जीवोऽमेरिव विस्फुलिंगः 30 सत्र सत्यपि जीवेश्वरयोरंशांशिभावेऽविद्यादिव्यवधानादीश्वरसमानधर्मत्वं विद्यमानमपि तिरोहितम् , तत्पुनः परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव दृक्शक्तिरौषधवीर्यादीश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति न खभावत एव सर्वेषां जन्तूनाम् , एवश्वेश्वरखरूपापरिज्ञानाद्वन्धस्तत्स्वरूपपरिज्ञानात्तु मोक्ष इति 'यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सकपाः । तथाऽक्षराद्विविधाः सौम्या भावाः प्रजायन्ते तत्र चैधापियन्ति' इति श्रुतेर्भावः । एवं च पुरुष
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org