________________
द्वादशारनयचक्रम्
[विधिविध्यरे एवं तावत् पुरुष एव सर्वमित्युक्तम् , स एवोच्यते कालोऽपि ज्ञत्वात् , कलनात् कालः, कल संख्याने, कलनं ज्ञानं संख्यानमित्यर्थः । यथा चाहुरेके 'कालः पचति भूतानी'ति श्लोकः । प्रकरणात् प्रकृतिः, स एवेति वर्तते, सत्त्वरजस्तमःस्वतत्त्वात् प्रकाशप्रवृत्तिनियमार्थाद्गुणानामात्मस्वतत्त्वविकल्पनेन च भोक्ता । प्रकुरुत इति प्रकृतिः । यदाहुः-'अजामेकां लोहितशुक्ल कृष्णां बह्वीः प्रजाः सृजमानां "सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' (श्वेताश्व. ४।२५) इति । रूपणानियमनान्नियतिः, रूपणाच्चक्षुषो विषयो रूपमेव न रसादयः, रसनाद्रसो रसनविषयो न रूपादय इत्यादिनियमनान्नियतिः। वो भावः आत्मनैव खेन रूपेण भवनात् स्वभावः 'कः कण्टकाना'मित्यादि । - येन यत्र यथा यस्माद्यदा यदर्थं प्रवर्तितव्यं तेन तत्र तथा तस्मात्तदा तदर्थञ्च प्रवृत्ति
रन्तरञ्चैतस्य, स एव हीदं सकलं जगत् वृत्तमविवृत्तञ्च बहुधानकं चेतनाचेतनसप्रभेदरूप१० मिति । आह च-'तदेजति तन्नजति तदरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यात्य बाह्यतः' (ईशा०.१-५) इति । स एवार्हन बुद्धः ब्रह्मा विष्णुः ईश्वर इति । . (येनेति) येन-हेतुना यत्र-क्षेत्रे यथा-येन प्रकारेण यस्मादाश्रयाद्वस्तुनः यदा-यस्मिन् काले यदर्थश्च-यत्प्रयोजनमुद्दिश्य प्रवर्तितव्यं तेन तत्र तथा तस्मात्तदा तदर्थश्च प्रवृत्तिः, यथा.
राज्ञाऽऽज्ञप्तः सूपकारः स्थाल्यां कुशूलात्तन्दुलानाकृष्य मृदु विशदमोदनं प्रयत्नपूर्वकं क्षुत्प्रशमनार्थश्च 15 पचतीति, तत्पुनः प्रवर्त्तनं तदन्तरश्चैतस्य, न ततो व्यतिरिक्त बहिर्भूतम् , स एव हीदं, स एव पुरुषो
यस्मादिदं सकलं जगद्वृत्तं-ततः प्रसृतं नानाभेदेन विवर्त्तमानम्, अविवृत्तञ्च तत्स्वरूपापरित्यागात् , बहुधानकं-बहुधानाश्रयः, चेतनाचेतनसप्रभेदा रूपमस्येति चेतनाचेतनसप्रभेदरूपं-यञ्चेतनं नरतिर्यगमरनारकादि तत्प्रभेदाश्च रूपमस्य, काष्ठकुड्यघटपटाद्यचेतनश्च सप्रभेदमस्य रूपमिति, आह चेति,
जैनमतानुसारेणैवेत्यर्थः, तदेजति-चलति स्पन्दते, नैजति-न चलति न स्पन्दते, तहरे-तिर्यग्लोकेऽधो 10 लोकेऽलोके च, तदुपान्तिके -तदेकस्मिन् प्रदेशे दृश्यस्पृश्यादि तदन्तरस्य-घटपटादेः सर्वस्य-वस्तुनः साकारानाकारोपयोगलक्षणस्यात्मनस्तत्परिणतेरप्रतिघातात् , तदु सर्वस्यास्य बाह्यतः-तस्यैवालोकेऽपि सद्भावात् , सर्वस्यास्येति लोकगतभावनिर्देशात्तस्य बाह्यमलोक इति । अहण् बोधने इत्यादेः विशुद्धि
स्मैव सर्जनविसर्जने बन्धमोक्षौ चेति स एव जगद्रूपेण परिणमत इति सिद्धमित्याह-एवं तावदिति । स एव कालप्रकृति. - नियतिखभावादिशब्दवाच्य इत्याह-स एवोच्यत इति काल इति. कालः पचति भूतानि कालः संहरते प्रजाः । कालः 25 सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥ इति कारिका कालवा दिनो बोध्या. प्रधानवादिसम्मतं मंत्रमाह-अजामेकामिति, अत्राजाशब्दः परमेश्वरादुत्पन्नायां ज्योतिःप्रमुखायां तेजोबन्नलक्षणायां चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतायां वत्तेते, न
नयामकाभावादिति शाङ्करभाष्ये निरूपितम । रूपणं हि नियमनं तत्कथं नियम्यत इत्यत्राह-रूपणापक्षष इति । कः कण्टकानामिति, कः कण्टकानां प्रकरोति तैक्षण्यं विचित्रतां वा मृगपक्षिणाञ्च । स्वभावतः सर्वमिदं । प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नाः ॥ इति खभाववादिनः कारिका विज्ञेया। द्रव्यक्षेत्रकालभावभेदेन सर्वविधा प्रवृत्ति30 स्तस्य पुरुषस्यान्तर्गतैव न काचन ततो व्यतिरिक्ता प्रवृत्तिरस्तीति पुरुषवादमुपसंहरति-येनेति । दृष्टान्तमाह-यथेति, राज्ञाऽऽशप्त इति हेतुप्रदर्शनम् , स्थाल्यामित्याधारभूतक्षेत्रप्रदर्शनम् , यस्मादित्यस्यार्थः कुशूलादित्यनेनोक्तः, मृद्वादिर्यथापदार्थः,
रामनाथेमिति यदर्थस्य प्रदर्शनम्। बहिर्भूतत्वाभावे हेतुमाह-स एव हीदमिति । जैनमतानसारेणैवेति. तदेजती.सादिमंत्रस्य जैनमताभिप्रायेण व्याख्यायमानत्वादिति भावः। तथाविधः पुरुष एवार्हदादिशब्दैरुच्यत इत्याह-अर्हणिति।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org