________________
१३३
पुरुषकारणभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् प्रकर्षविशेषाद्देवता अपि स एव, अर्हति सकललोकातिशयपूजामित्यर्हन् , बुद्ध्यत इति बुद्धः, वर्धनाद्वृहत्त्वाद्ब्रह्मा वर्धमानो वा, व्याप्नोतीति विष्णुः ज्ञानात्ननैव सर्वानर्थान् , ईशनादीश्वरः । एतेभ्यश्च ज्ञानविशुद्ध्युत्कर्षभेदेभ्यस्तत्पर्यन्तप्राप्तेर्यावदहन्नपि भवतीति सम्भाव्यते दुःप्रापत्वादार्हन्त्यस्य सम्भावनयोच्यते, शेषपदप्राप्तिस्तु सुलभैवेति । तामपि दुरापां सर्वज्ञावस्थां परमविशुद्धां परमार्थाख्यां स एव प्राप्तुमर्हतीति । एवं विधिविधिनयविकल्पः पुरुषवादः ॥
अथ नि यति वादः अधुना नियतिवादो विधिविधिनयदर्शनाश्रयोऽभिधीयते___सत्यम् , भवनकर्तुः स्वातन्त्र्यं न शक्यमपह्नोतुम् , भवनस्य क्रियात्वात् , या क्रिया सा भवितुरेव घटादेः परमाण्वादेवो यथा पचिक्रिया पक्तुरेव स्वतंत्रस्य, भवनमपि च क्रियात्वात् भवित्रा विना न भवति पचिवत् , यत्तु स ज्ञ इति, सम्प्रधार्यमेतत् , सर्वज्ञस्यैव भवनाभ्युपगमे 19 दोषदर्शनात् , स यदि ज्ञः स्वतंत्रश्चेत्युभयगुणसम्पन्न इष्यते नात्मनोऽनर्थमापादयेत् , ज्ञत्वे सति स्वतंत्रत्वात् , विद्वद्राजवत् ।
(सत्यमिति) सत्यं-युक्तमेतदुच्यते त्वया, तन्न भवनस्वातंत्र्यमुपलभ्यमानं पञ्चविधं शक्यमपहोतुम् , किं कारणम् ? भवनस्य क्रियात्वात् , या क्रिया सा भवितुरेव घटादेः परमाण्वादेर्वा, यथा पचिक्रिया पक्तुरेव भवति स्वतंत्रस्य, भवनमपि च क्रिया क्रियात्वाद्भवित्रा विना न भवति, पचिवत् , 15 भविता च कर्ती स्वतंत्रः कर्तृत्वादेव न केनचिदसौ भाव्यते कार्यते क्रियते वा स्वातंत्र्यात् कर्तृत्वात् । यत्तु स ज्ञ इति, सम्प्रधार्यमेतत् , यत्पुनरुच्यते स्वातंत्र्यात् कर्ता ज्ञ एवेत्यवधार्य तत्र त्वया सहैतत्सम्प्रधार्य-विचार्यमस्ति, सर्वज्ञ एवेत्ययुक्तमित्यभिप्रायः । किं कारणमयुक्तम् ? सर्वज्ञस्यैव भवनाभ्युपगमे दोषदर्शनात् , कर्तृत्वात् स्वातश्यमस्ति, को वारयति । स यदि ज्ञः स्वतत्रश्चेत्युभयगुणसम्पन्न इष्यते-- यदि ज्ञः स स्वतत्रोऽपि स्यान्नात्मनोऽनर्थमनिष्टमापादयेत् , ज्ञत्वे सति स्वतत्रत्वात् । को दृष्टान्तः १ विद्व- 20 द्राजवत् , यथा हि दैवपुरुषगतिज्ञो देशकालसहायसाधनसम्पन्नः पराक्रमवान् राजा नात्मनोऽनर्थमनिष्टं मरणपराजयादिकमापादयति, एवमसावपि नात्मनोऽनर्थमनिष्टमापादयेत् , दृष्टस्त्वयमनर्थोऽनिष्टो जन्मजरामरणरोगशीतोष्णादिः शारीरः, मानसश्च शोकभयविषादेासूयादिः, तस्मादयुक्तमस्य झत्वमिति ।
ज्ञानविशुद्धिविशेषाभिप्रायेण बुद्धब्रह्मादिभावावाप्तिः परमोत्कृष्टज्ञानविशेषापेक्षयाऽऽर्हन्त्यसम्भवोऽपीत्याह-एतेभ्यश्चेति । आईन्त्यस्य सम्भावना कथमुक्तत्यत्राह-दुःप्रापत्वादिति । शेषेति बुद्धत्वब्रह्मत्वादिप्राप्तिस्त्वित्यर्थः, सर्वशतावस्था च 20 नान्येन प्राप्या किन्वर्हतेवेत्याह-तामपीति । अथ नियतिवादरूपो विधिविधिनयः पुरुषवादं प्रत्याख्यातुमुपतिष्ठत इलाहअधुनेति । पुरुषवाद्युक्तं खाजीकृतांशं प्रकाशयति-भवनकर्तुरिति । भवनक्रियायाः परानपेक्षप्रवृत्तिनिवृत्तिकस्वरूपं खातंत्र्य यो भवति तस्याभ्युपगम्यत एव, खतंत्रकर्बभावे क्रियाया एवानिष्पत्तेः किन्तु भवनक्रियायाः स्वतंत्रकर्तुः ज्ञत्वेऽस्माकं विवादः, ज्ञस्य खतंत्रकर्तृत्वे खस्यानर्थ प्रति कर्तृत्वानुपपत्तेरिति भावः। क्रिया स्वतंत्रकर्तृका क्रियात्वादित्यत्रान्वयमाह-यथेति । व्यतिरेकमाह-भवनमपि चेति । भवितुरितरानपेक्षत्वमाह-कर्तृत्वादेवेति । अनभ्युपगतांशमाह-यत्त्विति । अवधा-30 यति, अस्योच्यत इत्यनेन सम्बन्धः । भवितुः स्वतंत्रत्वेऽपि ज्ञत्वेऽनिष्टमापादयति-यदि श इति । खतंत्रकर्ता चेतनो नात्मानिष्टजनकः, ज्ञत्वे सति खतंत्रत्वात् , विद्वद्राजवदित्यनुमानेनानिष्टाजनकत्वं तस्य प्राप्तम् , किन्तु तथा न दृश्यते शारीर• मानसानिष्टोत्पत्तिदर्शनान कर्तुत्वं युक्तमिति भावः। राज्ञो जत्वं दर्शयति-दैवपुरुषेति ।दैवगतेः पुरुषगतेश्च वेतेत्यर्थः। खातंत्र्य
द्वा• न०३.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org