________________
२३४ द्वादशारनयचक्रम्
[विधिविध्यरे ... एतच्च न, निद्रावदवस्थावृत्तेरस्वातंत्र्यात् , आहितवेगवितटपातवत् । ननु तज्ज्ञत्वाधयुक्ततैव, अज्ञातत्वात् , युक्तत्वाभिमतत्वेऽपि चायमेव नियमः कर्नेतरत्वापादनाय ।
एतच्च न, निद्रावदवस्थावृत्तरित्यादि, नैतदुपपद्यतेऽनानिष्टापादनानुपपत्तिस्यात्मन इति, कस्मात् ? निद्रावदवस्थावृत्तेः, निद्रावत्यवस्था निद्रावदवस्था तया वृत्तिर्निद्रावदवस्थावृत्तिस्तस्या 8 वृत्तेः पुरुषस्यैवास्वातंत्र्यात् , ज्ञस्यापि स्वकृतनिद्रावस्थावृत्तिवशादस्वातंत्र्यम्, आहितवेगवितटपातवत् , यथा कश्चित् पुरुषः स्वयमेव पूरितवेगस्तं वेगं निवर्तयितुमशक्तो वितटे पतति तथा स्वतंत्रमपि ज्ञमपि तत्परं कारणमात्मनोऽनिष्टमनर्थमापादयेत् को दोषः ? इति, अत्र कुतूहलबेहोषं ब्रूमःननु तज्ज्ञत्वेत्यादि, नन्वेवं त्वया निद्रावदवस्थावृत्तिवशादाहितवेगवितटपातवदवस्थास्वातंत्र्यादनानिष्टापादनमिति ब्रुवता तज्ज्ञत्वाद्ययुक्ततैवैषा समर्थ्यते, तेनानया पूरितवेगया शीघ्रगमनक्रियया वितटपातो 10 भविष्यतीत्यज्ञातत्वात् , ज्ञातत्वे वितटपातः स्वतंत्रस्य नोपपद्यत इति स एव दोषस्तस्मात्तदवस्थम
युक्तत्वम् । युक्तत्वाभिमतत्वेऽपि चेत्यादि, यद्यपि स्वातंत्र्यज्ञत्वाविनाभाविभवनबलोपबृंहितमात्ममयत्वमेवास्य सर्वस्य मन्यसे तथापि चायमेव नियमः कर्त्रतरत्वापादनाय, भवतीति वाक्यशेषः ।
कथं कृत्वा तद्भाव्यत इति चेदुच्यते- भवति कर्ता ज्ञ एवावस्थाविशेषादचेतनोऽपीति कारणान्तरास्तित्वं भवतैव समर्थितम् , 15 ज्ञाज्ञस्वतंत्रास्वतंत्रस्वविषयनियतकर्तृकरणाधिकरणकर्मादिनियतशक्तिदर्शनात् देवदत्तकाष्ठ
स्थालीतन्दुलोदकादीनां तनियमकारिणा कारणेनावश्यं भवितव्यम् , तेषां तथाभावान्यथाभावाभावादिति नियतिरेवैका की।
भवति कर्तेति प्रागभिहिताक्षरार्थन्यायं तदीयमेवोच्चारयति यावदचेतनोऽपि भवतीति, त्वयैव कारणान्तरास्तित्वमेवं ब्रुवता समर्थितं भवति किञ्चिदासामवस्थानां ज्ञाज्ञस्वतश्रास्वतत्रस्व20 विषयनियतकर्तृकरणाधिकरणकर्मादिनियतशक्तिदर्शनाद्देवदत्तकाष्ठस्थालीतन्दुलोदकादीनाम् , तन्नियमकारिणा कारणेनावश्यं भवितव्यम् , किं कारणम् ? तेषां तथाभावान्यथाभावाभावात् , देवदत्तोऽधिश्रय. णोदकसेचनतन्दुलाऽऽवपनधोपकर्षणादिव्यापारस्वातंत्र्य एव नियतो न ज्वलनसम्भवनवारणविक्लेद्यादितस्य दर्शयति-देशकालेति । पुरुषवादी समाधत्ते-एतञ्च नेति । आत्मनोऽनर्थमनिष्टं नापादयेदिति यदुक्तं तनेत्यर्थः । निद्रावस्थायामात्मनः सत्त्वादेव स्वातंत्र्यस्य तदानीमभावादनिष्टमप्यापादयतीत्याह-निद्रावदिति । तत्र दृष्टान्तं सङ्गमयति26 यथेति । नियतिवाद्याह-नन्विति, अनर्थप्रसवविज्ञानाभावात्तस्य ज्ञत्वं न युज्यते इति भावः । यदि तु भवनं खतंत्रत्वे
सति ज्ञत्वेन सहाविनाभावि मन्यसेऽथ चात्ममयमेव जगत् . तथापि कर्तृत्वाकर्तत्वयोरपि ज्ञवाज्ञत्वयोरेव नियामकत्वमि. त्याह-यद्यपीति । ज्ञ एव चेतनोऽपि भवत्यचेतनोऽपीति चेतनाचेतनायवस्थासु कारणान्तरास्तित्वं समर्थितमेव, न हि कारणान्तरव्यतिरेकेण कदाचिच्चेतनतया कदाचिच्चाचेतनतया भवनं तस्योपपद्यन्त इत्याशयेनाह-त्वयैवेति । ज्ञोऽपि सन
देवदत्तादिः केषुचियापारेषु नियमेन खतंत्रः केषुचिच्च नियमेनाखतंत्रस्तथाऽज्ञोऽपि करणादिः खव्यापारेषु खतंत्रोऽन्यत्र 30 चाखतंत्रो नियत इत्याह-झाझेति । तथा च त्वाज्ञत्वे न नियमकारिणी किन्तु तत्रान्येन केनचिनियमकारिणा भवितव्यमिति भावः । कर्चादीनां खविषये प्रवृत्तेरन्यविषयेभ्यो निवृत्तश्च नियामकमावश्यकमित्याशयेनाह-तेषां तथाभावेति । कारणानां खव्यापारेषु सामध्य तथाभावः. खव्यापारविपर्यये शक्तिरन्यथाभावः तयोरभावप्रसङ्गः कस्यचिनियामकस्याभाव इत्यर्थः । एतमर्थमाह-देवदत्त इति । अस्माखेतोरिति । तथाभावान्यथाभावाभावाद्धेतोर्देवदत्तादिभावानां प्रोक्तो यो
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org