________________
10
नियतिसमर्थनम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
२३५ व्यापारस्वातंत्र्ये, एवं तेषामपि काष्ठादीनां करणादिस्वव्यापारविषयस्वातंत्र्यनियमः तथाभावः, तेषामेव कारणानां स्वव्यापारविपरीतशक्तिः परस्परतोऽन्यथाभावः, तयोस्तथाभावान्यथाभावयोरभावात् , अभावप्रसङ्गादिति यावत्, दृष्टौ चेमौ तथाभावान्यथाभावौ, तस्मानियतत्वानियमकारिकारणापेक्षनियमावेव भावाभावी, तञ्च कारणं नान्यदतो भवितुमर्हति नियतेरित्यत आह-इति नियतिरेवैका की। इतिशब्दो हेत्वर्थे, अस्माद्धेतोर्नियमकारिकारणाविनाभावाद्भावनियमस्य नियतिरेवैका कीत्यस्तु । निर्दोषा कल्पना।
कथं ? यस्मात्.... न हि तस्यां कदाचित्कथञ्चित्तदर्थानुरूपमेकत्वं व्याघाति, ज्ञानात्मैककारणवादे पृथिव्याद्यचेतनं न कारणानुरूपम् । आह च-' प्राप्तव्यो नियतिबले'त्यादि, (सू० श्रु० १ अ० १ उ०२)।
(न हीति) अस्ति च व्याघातावस्थासु चतसृष्वपि कल्पितासु, कारणपूर्वत्वाभ्युपगमात् कार्याणाम् , न हि नियतेनियममात्रस्य का भावानां सारूप्यवैरूप्यभेदेऽपि व्याघातोऽस्ति, कदाचिदिति, अवस्थान्तरेऽपि, कथञ्चिदिति प्रकारान्तरेणापि, तस्मात् कारणैकत्वेऽपि वैरूप्यदोषपरिहारसमर्थत्वान्नियतिकारणकल्पना श्रेयसीति, आह चेति, जिनवचनोपजीविनमेतदपि ज्ञापकं पूर्ववत्, प्राप्तव्यो नियतिबलेत्यादि, कृतेऽपि यत्ने कार्यविपत्तिदर्शनादकृतेऽपि नियमात्सम्पत्चिदर्शनात् कार्यस्य कारणानुरू- 15 पगुणस्तहरूप्यविरोधपरिहारसमर्थोऽस्ति । .. किमयमेव गुणोऽन्योऽप्यस्ति वा ? अस्तीत्युच्यते, कतमोऽसौ ? अयत्नप्रतिपाद्यतागुणः, स च । मूर्तीमूर्त्ताद्ययुक्तविरुद्धधर्मापत्तिपरिहारेणेति तदर्शयति___ न च मूर्तीमूर्सचेतनाचेतनत्वादिवस्तुनो यनप्रतिपाद्यमस्ति, उभयथा तथा तथा प्रविभक्ताप्रविभक्तसवार्थयाथातथ्यस्थापनैकरूपत्वान्नियतेः।
20 नियमस्तस्य नियामकमन्तरेणासम्भवात्तन्नियमकारी यः सैव नियतिः कत्रीत्युच्यत इति भावः । तस्या एकत्वकल्पनायां दोषा. भावमाह-न हीति । ज्ञानात्मकपुरुषस्यैकस्यैव कर्तृत्वे कथञ्चिच्चेतनसृष्टेानात्मकतया सारूप्येऽपि पृथिव्याद्यचेतनसृष्टरसम्भव एव स्यात्, सारूप्याभावात् कार्यानुरूपं हि कारणं भवति कार्यस्याचेतनत्वे कारणमप्यचेतनं स्यात् , कारणस्य चैतन्ये वा कार्यमपि चैतन्यमेव भवेत्, एतस्य व्याघातोऽस्ति पुरुषवादे । नियतिकर्तृपक्षे तु तस्या नियममात्रकर्तृत्वान्न भावसारूप्यवैरूप्ये अपेक्षिते, अतो नियतेरेकत्वे दोषाभाव एवेति न नानात्वं तस्या इति भावः। व्याघातावस्थाखिति, परस्परविरोधिनीषु 25 जाग्रत्खनसुषुप्तितुरीयाख्यासु चतसृष्ववस्थाखित्यर्थः । अत्र वादे प्रमाणमादर्शयतीत्याह-आह चेतीति । इदमपि ज्ञापकं जिनवचनानुसार्येव, सर्ववादानां तस्यैव मूलभूतत्वादित्याह-जिनवचनेति । प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्य भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति नाशः॥' पूर्णा कारिका, अस्याः संक्षेपेणार्थमाह-कृतेऽपीति, महति प्रयत्ने कृतेऽपि फलानुत्पत्तिदर्शनादित्यर्थः । अकृतेऽपीति प्रयत्नव्यतिरेके. णापि नियतिबलात् कार्यसम्पत्तिदर्शनादित्यर्थः । तथा च नियत्यङ्गीकारे कार्य कारणानुरूपमित्येष गुणः सम्पद्यते कारणवैरूप्या-30 पत्तिलक्षणविरोधोऽपि परिहृतो भवतीत्याह-कार्यस्येति । गुणान्तरमप्यत्र सम्भवतीत्याह-किमयमिति । पुरुषस्यैव कारणत्वे तस्यामूर्त्तत्वेन पृथिव्यादिमूर्तलक्षणं कार्य ततो न भवेत् , मूर्तस्यामूर्तोपादानताविरोधात् , नियतिकारणत्वे सोऽपि विरोधः परिहृतो भवति, तथा च यत्नमन्तरेणैव मूर्त्तत्वस्य प्रतिपाद्यता सम्पन्नेत्सयत्नप्रतिपाद्यत्वं गुणोऽप्यस्तीत्याह-अयनेति। तमेव गुणं प्रदर्शयति-न चेति । वस्तूनां मूर्तत्वममूतत्वं चेतनत्वमचेतनत्वं सूक्ष्मत्वं स्थूलत्वं च पुरुषवादिन इवास्माकं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org