________________
२२८ द्वादशारनयचक्रम्
[विधिविध्यरे घटो भवतीत्यादि युज्यते परतोऽपि कपालादिपांशुब्रीह्यादिभूतेः-घटभवनात् परतोपि घट एव कपालादिर्भवति, कपालादेरपि परतो यावच्छर्कराभवनात् , पांश्वादेरपि परतो व्रीह्यादेर्भवनात् , तस्माद्धटादिसर्वात्मकमेव भवति। न चेदेतदिष्यते-एवं प्रकारं भवनम् , तत एवं घटादिसर्वात्मकस्यैकस्य देशकालव्यापिनः सत्त्वस्याभावात् , त्वन्मतेनैव प्रत्येकं सत्त्वस्य इतरेतरासत्त्वात्मकत्वात् कुतो भवनं भवितुर्घटादेः? घटः पटात्मना नास्ति पटोऽपि घटात्मनेति देशतः, कालतश्च प्राक् पश्चाद्वा न स एवेति न पटोऽस्ति न वा घट इति प्रत्येकं भिन्नत्वे भावानामभावात् को घटः ? किं भवनम् ? ।
_ यथा तु यैः रूपादिभेदेन घटो देशभेदाद्यावन्निरुपाख्यशः कालभेदेन च परमनिरुद्धक्षणोत्पत्तिनिरुपाख्यशो भिद्यत इति सर्वभेदपर्यन्तं भेदं विधायापि विज्ञानमात्रमेवेति व्यवस्थाप्यते तैरस्मदुपवर्णनवदेवाभिहितं भवति, रूपादिपरस्परविविक्तत्वे तु तद्विज्ञानान्वयाभा10वादूपरसादिभेदपरिकल्पनाभावस्तदंशकल्पनाभावो निरुपाख्यत्वकल्पनाभाव इति विज्ञान
मात्रता न भवति । - यथातुयैः रूपादीत्यादि यावदस्मदुपवर्णनवदेवाभिहितं भवति । यैश्च वर्ण्यते विज्ञानमात्रत्वं देशभेदाटो भिद्यमानो रूपादिभेदेन भिद्यते यावन्निरुपाख्यशः, कालभेदेन च भिद्यमानः परमनिरुद्धक्षणोत्पत्तिविनाशनिरुपाख्यशो भिद्यत इति, तैः सर्वभेदपर्यन्तं भेदं विधायापि विज्ञानमात्रमेव 15 नान्यत् किञ्चिदिति व्यवस्थाप्यते यथा तु तद्व्यवस्थाप्यते तथाऽस्मदुक्तवदुपवर्णितमभिन्नमेकं विज्ञानमित्युक्तं भवति, ततश्च रूपरसादिघटपटादिविश्वभेदात्मकत्वात्तस्य, रूपादेः परस्परविविक्तत्वे तु तद्विज्ञानान्वयाभावाद्रूपरसादिभेदपरिकल्पनाभावस्तदंशकल्पनाभावो निरुपाख्यत्वकल्पनाभाव इति विज्ञानमात्रता न भवति । .. अत्र कश्चिद् ब्रूयात्तदपि विज्ञानमसत् , सर्वभावशून्यत्वादित्येतच्चायुक्तम्20 ज्ञानस्यापि त्वभावाभ्युपगमे रूपाद्यपलापबीजनिरूपणादिनिर्मूलत्वात् प्रत्यक्षादिविरोधः,
तस्मादवश्यमात्मा ज्ञानस्वभाव एकः सर्वभावव्यापी विपरिवर्त्तमानोऽवस्थितः कारणमिति सिद्धम् , अत एवोक्तवत् रूपादीनां तत्त्वात् ज्ञानस्वभावात्मावस्थाविशेषमात्रत्वात् सर्वत्र सन्निपत्यारादूरादुपकारित्वेभ्यो हेतुभ्यः आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्ति
र्भवतीत्येष विशेषः। 25 क्षणच भिनं भिन्नमेव वस्त्वेषितव्यमिति नैकस्य नानादेशकालव्यापिनः सत्त्वमिति को वा घटस्तद्भवनं वेत्याह-त्वन्मतेनै
वेति । विज्ञानमात्रवादिनो बौद्धा अपि मदुक्तविधयैव देशकालाभ्यां बाह्यं वस्तु प्रतिक्षिपन्तो विज्ञानमात्रतां व्यवस्थापयन्ती. त्याह-यथा त्विति । अस्मदुपवर्णनवदेवेति, रूपादयोऽमूर्तसूक्ष्मवृत्तिमत्यजन्त एव खप्रवृत्तिप्रभावावबद्धमूर्तत्वप्रकमान् परमाणूनध्यास्य तत उत्तरकालं नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते ते च रूपादयो रूपणाद्रूपं रसनाद्रस इत्येवं
रूपणादिकृतात्मलाभनिरुक्तत्वाज्ज्ञानमेवेत्यस्माभिरुपवर्णितप्रकार इव तझ्यवस्थाप्रकारः इवशब्देन सूचितो भेदश्च तैज्ञोनं 30 क्षणिकमित्युच्यते, अस्माभिश्च नित्यमेकमन्वयीत्युच्यत इति भावः। रूपादीनामत्यन्तं व्यावृत्तताङ्गीकारे च तेषु विज्ञानस
म्बन्धाभावाद्रूपादेर्निरूपणमेव न स्यादिति रूपरसादिभेदकल्पनं न सिझ्यतीति तदभाव एव स्यादतो रूपादीनां विज्ञानस्याकारविशेषत्वाद्विज्ञानाशकल्पना निरुपाख्यत्वकल्पना वा न सम्भवति, ज्ञानेनैव हि सर्व निरूपणीयम् , न ह्यसम्बद्धेन तेन तन्निरूपयितुं शक्यमिति रूपाद्यभाव एव, ततश्च विज्ञानमात्रतापि न सिद्ध्येत् . रूपज्ञानं रसज्ञानमित्येवं रूपणरसनक्रियया निकाय विज्ञानं निरूपकाभावे कथं भवेदित्याह-रूपादे परस्परेति । विज्ञानमपि मा भूतु को दोष इत्यत्राह-ज्ञानस्यापीति।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org