________________
बटभवनासिद्धिः] न्यायागमानुलारिणीव्याख्यासमेतम्
२२७ देशकालमिन्नपृयिव्याविमेदभूतपदार्थपरिग्रहे तु-अन्यथा तु घटभवनं यदेतत् प्रत्यक्षसंप्रसिद्धं तदपि न सिध्यति ।
तत्कथम् ?
देशभेदप्रत्ययेन तावदीवापृष्ठकुक्षिबुध्नौष्ठादीनां देशभिन्नानां कपालशकलादीनाच यावत् परमाणुशो रूपादिशो निरुपाख्यत्वशश्च भेदादभावे । एवं न श्वेतिकापीतिकायेक देशभेदान्मृत्, अश्मादिभेदान्न पृथिवी, पृथिव्यप्तेजोवाय्वादिभेदान्न द्रव्यं गुणकर्मभेदाद्वा द्रव्यादिभेदान्नैकं सत्त्वमिति । कालभेदप्रत्ययेनापि प्रतिक्षणमव्यपदेश्यभवनात् कतरत् घटभवनम् ? मृद्भूतव्रीह्याद्यम्ब्वादिकालभिन्नभावभेदे मृदभावात् को घटः ? भवनं वा किं स्यात्। अस्मन्मतेन मुद्भूतो ब्रीह्यादिरम्ब्वादिश्चैक एव, कालान्तरावस्थाने सति तत्परिणामोपचे सामान्यान्वयादीह्यादय उदकादय एव वा मृद्भवती घटो भवतीत्यादि युज्यते, परतोऽपि कपालादिपांशुव्रीह्यादिभूतेः, तस्माद्धटादि सर्वात्मकमेव भवति । न चेदेतदिष्यते तत एवं सर्वात्मकस्यैकस्य सत्त्वस्याभावात् प्रत्येकं सत्त्वस्य च देशतः कालत इतरेतरासस्वात्मकत्वात् कुतो भवनं भवितुर्घटादेः।
देशभेदप्रत्ययेन तावदित्यादि, प्रीवापृष्ठकुक्षिबुनौष्ठादीनां देशभिन्नानां कपालशकलादीनाश्च यावत् परमाणुशो रूपादिशो निरुपाख्यत्वशश्च भेदादभावे, घटभवनं न सिद्ध्यतीति वर्तते, 15 एवं न श्वेतिकापीतिकायेकदेशभेदान्मृत् , अश्मादिभेदान्न पृथिवी, पृथिव्यप्तेजोवाय्यादिभेदान्न द्रव्यम् , गुणकर्मभेदावति तदेव हि द्रव्यं रूपगमनादिगुणकर्मभेदात् यावन्निरूपाख्यत्वभेदात् समुदायाभावाचासम्बन्धान्न द्रव्यम्, द्रव्यादिभेदात्-द्रव्यगुणकर्मनानात्वान्नैकं सत्त्वम् , एवं तावदेशमेदे घटभवनं न स्यात्, द्रव्यादीनामनुपपत्तेः । कालभेदप्रत्ययेनापि प्रतिक्षणमव्यपदेश्यभवनात् कतरभ्रूटभवनम् ? क्षणे क्षणेऽत्यन्तमसम्बद्धानामयःशलाकाकल्परूपाद्यात्मकत्वानुपपत्तेः । किं कारणं 30 मृतबीयाद्यम्ब्वादिकालभिन्नभावभेदे मृदभावात् । अस्मन्मतेन मृद्भूतो ब्रीह्यादिरम्ब्वादिश्चैक एक, कालान्तरावस्थाने सति तत्परिणामोपपत्तेः, त्वन्मतेन तु कालभिन्नभावभेदे-क्षणे नवनवार्थासम्बन्धाबावभेदे ब्रीहिरेव विनष्टो मुन्न भवति न चोदकादि विनष्टं मृद्भवतीति निर्बीजत्वान्मृदभावः, मृदा भावाच को घटः ? भवनं वा किं स्यात् ? अस्माकन्तु सामान्यान्वयाद्रीह्यादय उदकादय एक का महाकति
देशभेदेन देशिभेदे निरवयवः परमाणुरेव स्यादिति, तस्यापि रूपादिभेदेन भेदे रूपादिव्यतिरिक्तस्य द्रव्यस्य पृथगनुपल-25 ब्ध्याऽभावे रूपमात्रमेव स्यादिति, तस्यापि ग्राह्यग्राहकभावासम्भवेन विषयाभावे च विज्ञानस्याप्यभावे निरुपाख्यमेव स्यादिति भवनं कस्य स्यादिति भावः । इदमेवोपपादयति सुविस्तरम्-ग्रीवापृष्ठेत्यादिना । कालभेदेन भेदे त्वाहकालभेदेति । खमतेन भक्नं सूपपद्यत इत्याह-अस्मन्मतेनेति । अनुवर्तमानस्यैकस्य वस्तुनोऽभावे न कस्यापि सर्वात्मकत्वं देशकालभेदेन प्रतिवस्तु भिन्नत्वादित्याह-न चेदेतदिति । शुक्लपीतकृष्णादिविरुद्धगुणभेदान्न तदाधारभूतैका मुद्भवितुमर्हति, अश्मसिकतापांश्वादिभेदान्नैका पृथिवी पृथिवीजलानलानिलादिभेदाद्विरुद्धगुणक्रियाभेदाद्वा नैक द्रव्यम् , पृथिव्यादि- 30 समुदायस्यापि पृथिव्यादिभिन्नस्याभावात् कास्त्न्यैकदेशाभ्यां परस्परं सम्बन्धासम्भवाच्च न द्रव्यमेकम् , तथा द्रव्यगुणकर्मणं भेदान्नैकं सत्त्वमपीत्याह-एवं नेत्यादिना। अव्यपदेश्यभवनादिति, व्यपदेशायोग्यतयैव वस्तुनो भवनात् , क्षणमात्रस्थायित्वाद्धस्तुन इति भावः । नानादेशकालसम्बन्धित्वमेकस्य वस्तुनो न सम्भवति विरुद्धधर्माध्यासप्रसङ्गात् , प्रतिदेशं प्रति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org