________________
द्वादशारनयचक्रम्
[विधिविभ्वारे रिवर्तवत् । एवंप्रकारस्य भवनस्य स्वजात्यपरित्यागरूपस्य देशकालभेदैकान्ताभ्युपगमेऽनन्तरवक्ष्यमामोक्त्वात् , नान्यथैतदिति प्रतिपत्तव्यम् ।
अत्राह- नन्वेवमनाद्यनन्तत्वे सति कुकुव्यण्डकयोरिव मुक्तस्यापि चैतन्यरूपादिमत्त्वयोस्तुल्ये'ऽविवेके किमर्थ ज्ञानात्मकमित्युच्यते ? किं वा कारणं रूपादिमदात्मकमिति नोच्यते सर्वम् ? नैवं परिग्रहेऽपि कश्चिद्दोषः, अस्यैवार्थस्य सिषाधयिषितत्वात् , चतुरवस्थत्वात्तस्य, तत एव रूपादिद्रव्येन्द्रियपृथिव्यादिरूपः स एवोच्यते। चेतनाचेतनयोरै क्यापादनप्रस्तुतेः, ज्ञमयञ्चेदं स एव स्वतन्त्रो भवतीति विशिष्य ज्ञग्रहणं स्वतन्त्रग्रहणञ्च किमर्थमिति चेदुच्यते, तथाहि, भावस्वरूपदर्शनार्थन्तु यो भवति स वाच्य इति ज्ञग्रहणम् , तदपि भवनं ज्ञस्यैव सर्वदेशका10 लात्मकस्य देशकालाभ्यां सिद्ध्यति, तथाहि वस्तु भवतीति वक्तुं शक्यम्, तद्भिन्नपृथिव्यादिभेदभूतपदार्थपरिग्रहे तु घटभवनं न सिद्ध्यति ।
नन्वेवमित्यादि, नन्वेवमनादित्वात् कुक्कुट्यण्डकयोरिवानन्तत्वाञ्च, कुत्सिता कुटिः कुक्कुटिरित्यर्थे कुकुटिशब्दस्य शरीरार्थव्याख्यानात् , मुक्तस्यापि रूपाद्यर्थज्ञानपरिणामादविवेके चैतन्यरूपादि
मत्त्वयोस्तुल्ये किमर्थं ज्ञानात्मकमित्युच्यते ? किं वा कारणं रूपादिमदात्मकमिति नोच्यते सर्वम् ? 15 विशेषहेतुर्वा वाच्य इति तदर्शयन्नाह पर:-नन्वेवमनाद्यनन्तत्वे सतीति, गतार्थम् । आचार्य आह-नैवं परिग्रहेऽपि कश्चिद्दोषः, किं कारणम् ? अस्यैवार्थस्य सिषाधयिषितत्वात् , चतुरवस्थत्वात्तस्य, तत एव रूपादिद्रव्येन्द्रियपृथिव्यादिरूपः स एवोच्यते, तथा च सृष्टेः पूर्वमुक्तत्वात् । आह-चेतनाचेतनयोरैक्यापादनप्रस्तुतेः ज्ञः पुरुषस्तम्मयश्चेदम् , स एव स्वतत्रो भवतीति च विशिष्य शाहणं स्वतंत्र
ग्रहणश्च किमर्थमिति, आचार्य आह-तथाहीत्यादि, भावयिष्यते, भवतीति भाव इत्युक्तम् , भावखरू20 पप्रदर्शनार्थन्तु यो भवति स वाच्य इति ज्ञग्रहणम् । तदपि तथाहीत्यादि, एवञ्च कृत्वा यत्प्रागुक्तं देशकालभेदेन भवनाभावदोषे वक्ष्यमाणे इति तत्परिहारेण ज्ञस्यैव भवनस्योपपत्तेस्तदन्वयाञ्च सर्वदेशकालात्मकस्य देशकालाभ्यां भवनं सिद्ध्यति, तथाहि वस्तु भवतीति वक्तुं शक्यम् । तद्भिन्नेत्यादि,
मेवंप्रकारस्य भवनस्य देशभेदेन कालभेदेन चैकान्तेन भेदेऽभ्युपगम्यमाने वक्ष्यमाणो दोषः समापततीत्याह-एवंप्रका
रखेति । वक्ष्यमाणो दोषश्च भवनासिद्धिरनुवर्तमानवस्त्वसिद्धेरिति । अमुमेव दोषमाशङ्कते-नन्वेवमिति, चैतन्यस्थाना25 द्यनन्तशः सूक्ष्मस्थूलशरीरादिरूपादिमत्त्वापत्तावित्यर्थः । मुक्तस्यापीति, एकस्मिन् देशे मुक्तस्यापीत्यर्थः । नैवं परिग्रहेऽपीति, रूपादिमत्त्वेन चैतन्यस्य परिग्रहेऽपीत्यर्थः, अन्यथा तस्य चतुरवस्थात्मकत्वानुपपत्तिरिति भावः। ननु चेतनाचेतनयोरक्यप्रतिपादनावसरे विशेषाभावात् ज्ञ एव सर्व भवतीति भवनाश्रयतया विशिष्य ज्ञस्यैव खातंत्र्येण कर्तृतया च प्रतिपादनमनुचितमित्याशङ्कते-चेतनाचेतनयोरिति, चेतनमचेतनं भवत्यावेतनश्चेतनश्चेत्येवं भवनधाराया अङ्गीकारेऽपि
भवनाश्रयस्यैकस्याभावे भवनमेव न सिद्ध्यति अतो यो भवति सोऽवश्यं वाच्यः, स एव ज्ञः स्वतंत्रश्च पूर्वपूर्वकायोव30 च्छिमस्य तस्यैवोत्तरोत्तरकार्यनिमित्तत्वात् , तथा च मूर्तामूर्त्तानि सद्वस्तुप्रकृतिकानि सत्वभावानुरक्तत्वे सति विविधविकारत्वात् , मृदनुस्यूत घटादिवदित्यनुमानम् , तच्च सद्वस्तुचेतन एव स च सर्वदेशकालयोरेक एव सन् तत्तद्देशकालभेदेन भिन्नो भवतीत्याह-तथाहीति। इदं घटो भवतीति इदम्भूतपदार्थस्यैव घटादिरूपेण भवनप्रतीतेः पूर्वोत्तरावस्थाऽनुस्यूतपदार्थसमाव एव भक्नं सम्भवतीति प्राह-तथाहि वस्त्विति । कथं भवनस्याभावोऽनुवर्त्यवस्त्वभाव इत्यत्राह-देशमेवेति
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org