________________
कार्यसृष्टिः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
२२५
चैतन्यादात्मेत्यादि यावद्विपरिवर्त्तानन्त्यवत्, चेतनस्य भावञ्चैतन्यं तस्माच्चैतन्यादात्मा पृथिव्यादि सुषुप्तावस्थाया विपर्ययेण वृत्तः, तत ईषद्विशुद्धावस्थ इत्यर्थः, चैतन्यस्य रागादिविपरिणामात्, रागादेर्बन्धकारणत्वात्, तदुपयुक्तः, उपयोगस्वातंत्र्येण, उपयोगो हि चेतना, तस्य स्वातंत्र्यं कर्तृत्वात्, 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः' ( तत्त्वार्थ. ८/१ ) इति वचनात् । रागाद्यात्मककषायविकल्पात्मकत्वान्मिथ्यादर्शनादीनां तेन स्वातंत्र्येण बद्धाऽऽत्मनाऽऽत्मानमस्वतंत्रीकरोति तेनैव 5 च स्वयंकृतेन बन्धेना स्वतंत्रीक्रियते, मद्येनेव स्वयं पीतेन मद्यपः, स्वयं पूरितवेगया डोलयेव वा पुरुषो भ्रम्यते, कर्मडोलया कर्मबन्धेन रूपादिमत्त्वमनाद्यनन्तश आपद्यते, एवमेतदुभयं सन्तत्याऽनाद्यनन्तश्च द्रव्यार्थतया यथोक्तं 'पुत्रिं भंते! कुक्कुडी पच्छा अंडए, पुत्रिं अंडर पच्छा कुकुडी ? रोहा ! जा सा कुक्कुडी सा कुतो ? अंडगाओ, जे से अंडर से कुतो ? कुक्कुडीओ, एवं रोहा ! पुबिंपि एते पच्छावि एते सासया भावा । अणाणुपुत्री एसा रोहा !' ( भग. श. १ उ. ६ सू. ५३ ) इति । तथा - 10 'सबजीवाणं भंते! एकमेकस्स मातत्ताए भज्जत्ताए पुत्तत्ताए दुहि तित्ताए गोयमा ! असति अदुवा अनंतखुत्तो? (भग. श. १२ उ. ७) इत्यादि । तच्च द्विविधं रूपादि सूक्ष्मं स्थूलश्व, कर्मादि सूक्ष्मम्, आदिग्रहणादुच्छासनिःश्वासभाषामनस्त्वादिकार्मणतैजसाहार कशरीरादि च तदात्मकत्वगत्या, स्थूलं पृथिव्याद्यौदा रिकवैक्तिक - यशरीरात्मकत्वगत्या तदात्मत्वात् एतत् प्रक्रिययैव प्रतिपादितमपि सुखग्रहणार्थं प्रतिज्ञायते, अनाद्यनन्तशः सूक्ष्मस्थूलशरीरादिरूपादिमत्त्वं प्रतिपद्यते चैतन्यमिति । कुतः ? कार्यात्मत्वात्, कार्यात्मत्वञ्च तस्य 15 सिद्धं रूपादिपृथिव्यादिभेदरूपेण विपरिवृत्तेः साधितत्वात् इह त्वनाद्यनन्तशः सेति साध्यते, यो यः कार्यात्मा स सोऽनाद्यनन्तशो विपरिवर्तमानो दृश्यते, तद्यथा - मृद्घटेत्यादि, द्रव्यं मृद्भवति मृद्घटो भवति घट: कपालानि, ततः क्रमेण शकलशर्कराधूलिपांसुत्रुटिपरमाणवः, ततो रूपादयः, रूपादिभ्यः पुनरुक्तक्रमेण परमाण्वादयो यावद्द्रव्यादित्वविपरिवर्त्तानन्त्यम् । आदिग्रहणागुणकर्मसत्त्वादित्वेन विप
प्रपश्चजातस्य ब्रह्मव्यतिरेकेणाभावस्तस्मान्न तत्ततो भिन्नमिति भावः । चैतन्यस्य रागादिविपरिणामत्वादिति, शुद्ध- 20 बुद्धमुक्तस्वभावस्यात्मनश्चैतन्यं न संसारिभिरनुभूयते, यत्त्वनुभूयते प्रत्यात्म तत्तु चैतन्यं मिथ्याज्ञानद्वेषायनुषतम् तथाविधबुद्ध्युपाधिधर्माध्यासनिमित्तं कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वमात्मन इति भावः । तत्र प्रमाणमादर्शयति - मिथ्यादर्श - नेति । तथाविधबुद्धेरेव मुख्यं कर्तृत्वं न त्वात्मनः आत्मन एव खाभाविके कर्तृत्वे वहेरिवौष्ण्यान्नात्मनः कर्तृत्वान्निर्मोक्ष इति न पुरुषार्थसिद्धिर्भवेत् न च निमित्तपरिहारात् कर्तृत्वमोक्ष इति वाच्यम्, निमित्तानामत्यन्तपरिहारासम्भवादिति क्रियावेशादेवास्य कर्तृत्वमिति भावः । स एष स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसम्पन्नः कर्तृत्वमनुभवतीत्याह - तेन 25 स्वातंत्र्येणेति । एतदुभयमिति, मूर्त्तमूर्त्तत्वेन भवनं कर्मजीवसंसरणं वेत्यर्थः । ननु यदि ब्रह्मणोऽविद्याशक्त्या संसारः प्रजायते तदा विद्यानिवृत्तौ सर्वमुक्तिः, अनिवृत्तौ मुक्तानामपि पुनरुत्पादस्तस्यास्तादवस्थ्यादित्याशंका यामाह - सन्तत्येति । न हि सर्व जीवेष्वेका विद्या, किन्तु प्रतिजीवं भिन्ना तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवा विद्यापनीयते न जीवान्तरस्येति न संसारानुच्छेद इति प्रवाहापेक्षया संसारस्यानादिताऽनन्तता च अविद्योपधिभेदाधीनो जीवभेदः, जीवभेदाधीनश्वाविद्याभेदः बीजाङ्कुरवदनादित्वादिति । जीवसंसृतेरनादितायां प्रमाणमाह-यथोक्तमिति, पूर्वं भदन्त । कुक्कुटी पश्चादण्डकम् ? पूर्वम- 30 ण्डकं पश्चात् कुक्कुटी ? रोह ! या सा कुक्कुटी सा कुतः ? अण्डकातः, यत्तदण्डकं तत्कुतः ? कुक्कुटीतः, एवं रोह । पूर्वमप्येते पश्चादप्येते शाश्वता भावाः अनानुपूर्व्येषा रोह । । इति तच्छाया । तथेति । सर्वजीवानां भगवन् ! एक एकस्य मातृत्वेन पितृत्वेन भ्रातृत्वेन भार्यात्वेन पुत्रत्वेन दुहितृत्वेन गौतम ! असकृत् अथवा अनन्तकृत्वः, इति छाया । तदेवं क्रमोत्कमा भ्या
द्वा० न० २९
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org