________________
२२४ द्वादशारनयचक्रम्
[विधिविध्यरे वत् , यथा भूम्यम्ब्वाद्येव व्रीहित्वेन परिणतत्वात्तद्रव्यत्वाद्रीहिर्भूम्यादिरेव तथा पृथिव्यादि पुरुष एव चेतनात्मकः, तत्कायेत्वात्तन्तुपटवत्, तद्व्यतिरेकेणाभावात् तद्देशत्वाच्च घटस्वतत्त्वप्रत्ययादित्ववत् ।
(य इति) योऽसौ पुरुषस्तदेव तत्-द्रब्येन्द्रियपृथिव्यादि, तेनात्मत्वेन परिणमितत्वात् को B वाऽत्र भेदः परिणामकपरिणम्ययोरित्याह-तव्यत्वात् , स एव द्रव्यं सप्रभेदं कर्म, तस्मात्तद्रव्यत्वात् , भूम्यबादि ब्रीहित्ववत् , यथा भूम्यम्ब्वाद्येव व्रीहित्वेन परिणतत्वात् तद्र्व्यत्वाद्रीहिभूम्यादिरेव-भूम्यादिभिरेवात्मत्वेन परिणामितत्वात् व्रीहिर्भूम्यादिरेव तथा पृथिव्यादि पुरुष एव चेतनास्मकः । इतश्च-योऽसौ पुरुषस्तदेव तत् , तत्कार्यत्वात् , यद्यस्य कार्य तदेव तत्, पटतन्तुवत् , यथा तन्तूनां कार्यत्वात् पटस्तन्तुरेव तथा पुरुष एव पृथिव्यादि, पुरुषपूर्वकत्वप्रतिपादनस्य कृतत्वात् , 10 इतश्च-तेन विनाऽभूतत्वात्तदेव तत्, यद्येन विना न भवति तदेव तत् , यथा रूपादय एव पृथिव्या
दयः, पृथिव्यादय एव रूपादयः, तेऽन्योऽन्यैर्विना न भूतत्वादन्योऽन्यात्मकास्तथा पुरुष एव पृथिव्याद्यपि । किश्चान्यत्-तद्व्यतिरेकेणाभावात् , यद्धि यद्यतिरेकेण न भवति तदेव तत् , यथा घटस्वतत्त्वप्रत्ययादित्वम् । तद्देशत्वाच्च, तस्य देशस्तद्देशः, तत्पुरुषस्य देशोऽवयवः स्वात्मा, रथ्यापुरुषपाण्यादिवत् , तद्देशत्वं सृष्टेस्तत्पूर्वकत्वादिति हेतुः। यो यद्देशः स तत्स्वतत्त्वं एव, किमिव ? घटस्वतत्त्वप्रत्य15 यादित्ववत् , यथा घटस्य प्रत्ययं नवमध्यपुराणता च घटस्वतत्त्वमेव तथा पृथिव्याद्यचेतनमपि चेतन
पुरुषत्वमेव । यदुक्तं 'अचिन्त्यप्रभावामूर्तसूक्ष्मज्ञकारणरूपादिमूर्तस्थूलविपरिवर्त्ततत्पुरुषविपरिवर्त्तमात्रं पृथिव्यादि' इति युक्त्योपपादितम् ।
तत्रैव पुनः संसारसिद्ध्यै युक्त्योपपादनाथ प्रस्तूयते
चैतन्यादात्मा सुषुप्तावस्थाया विपर्ययेण वृत्तो रागाधुपयुक्त उपयोगस्वातंत्र्येण बद्धाऽऽ20 त्मनाऽऽत्मानमस्वतंत्रीकरोति, मद्येनेव स्वयं पीतेन मद्यपः, स्वयं पूरितवेगया डोलयेव वा
पुरुषो भ्रम्यते, तेन सूक्ष्मस्थूलरूपादिपृथिव्यादिमत्त्वमनाद्यनन्तशः प्रतिपद्यते चैतन्यम् कार्यात्मत्वात् , क्रमेण मृद्धटकपालादि यावद्रूपादयो व्युत्क्रमेण रूपादि यावद्व्यादित्वविपरिवर्ता- नन्त्यवत् । एवंप्रकारस्य भवनस्य देशकालभेदैकान्ताभ्युपगमे वक्ष्यमाणदोषत्वात् ।
ज्ञानात्मनो जगतश्चेतनधर्मतया धर्मधर्मिणोस्तादात्म्यात् योऽसौ पुरुषस्तदेव तदिति भावः। तत्परिणामादितोऽपि पुरुषतादात्म्य 25 जगत इत्याशयेनाह-आत्मत्वेनेति, आत्मनाऽऽत्मानमात्मत्वेन परिणामितत्वादित्यर्थः । तद्रव्यत्वात् , एकस्यैव नाना
रूपेण भवनाव्येन्द्रियपृथिव्यादिचेतन एव न तु तस्य पर्यायो विकारो वा कार्यान्तरं वा कात्म्यैकदेशविकल्पप्रसङ्गात् । । तस्यैव कार्यरूपत्वे निदर्शनमाह-भूम्यबादीति, यथा भूजलादिरेव व्रीहिर्भवति यद्धि यस्मात् प्रभवति यस्मिंश्च प्रलीयते
तत्तस्य परिणामिकारणम् , यथा व्रीहियवादीनां पृथिवी, तथैव प्रकृतेऽपि आत्माऽऽत्मानमात्मनैव परिणमयति, पूर्वसिद्धोऽपि
सन्नात्माऽऽत्मानं विशेषेण विकारात्मना परिणमयति कर्तृत्वेन पूर्वं व्यवस्थितस्य पि परिणामात् क्रियमाणतासिद्धेः परिणामपरि80 णामिनोश्चानन्यत्वाद्रव्येन्द्रियादिपरिणामस्तद्रव्यमेवेति भावः। चेतनं ब्रह्म जगतः प्रकृतिरित्युक्त्वा कारणमपि तदेवेत्याशयेन
हेत्वन्तरमाह-तत्कार्यत्वादिति, तव्यतिरेकेणेति, यथा तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्य नैवोप। लभ्यते केवलास्तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते इति तन्तुरेव पटः तद्भाव एव तदुत्पत्तेः, तथा भोग्यभोक्त्रादि
____Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org