________________
२२३
कार्यात्मवर्णनम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
इदानी कार्यात्मा व्याख्यायते
यथा चैतच्चैतन्यं तथाऽनध्यवसायं द्रव्येन्द्रियपृथिव्यादि कार्यात्मा, सा च सुषुप्तावस्था द्रव्येन्द्रियम्, तदपि ज्ञानात्मकमेव, सुषुप्तावस्थात्मकत्वात् , हालाहलानुविद्धमदिरापानापादितनिद्रासुषुप्तवत् , अथवाऽनध्यवसायवत् ।
__यथा चैतदित्यादि, यथा चैतदनन्तरव्याख्यातमनध्यवसायविपर्ययसंशयावितथप्रत्यक्षादिज्ञानं । चैतन्यं तथाऽनध्यवसायं-अपगताध्यवसाय, अनध्यवसायचेतनाभिमतं द्रव्येन्द्रियपृथिव्यादिकार्यात्मा, आत्मा आत्मनैवात्मत्वेन परिणामितत्वादित्यादयो हेतवो वक्ष्यन्ते, सा च सुषुप्तावस्था द्रव्येन्द्रियम् , निर्वृत्त्युपकरणद्रव्येन्द्रिये व्याख्याते प्राक्, ते च पुरुषेणात्मत्वेन परिणामिते भावेन्द्रियम् , आत्मैव लब्धियुक्त उपयुक्तो वा, पृथिव्यादि च विपरिवर्त्तमानात्मत्वपरिणामापन्नमेव पृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियादिकार्यात्मा सुषुप्तावस्था, तदपि ज्ञानात्मकमेव सुषुप्तावस्थात्मकत्वात् , हाला- 10 हलानुविद्धमदिरापानापादितनिद्रासुषुप्तवत् , यथा हालाहलविशेषेण सद्यो मारकेणानुविद्धां मदिरां पीत्वा तदापादिताया निद्राया वशमुपगम्य सुषुप्तश्चेतन एव सन्न किश्चिञ्चेतयते पुरुषस्तथा द्रव्येन्द्रियपृथिव्यादिकार्यात्मा । अथवाऽनध्यवसायवत् , यथा जागरादिपूर्वव्याख्यातावस्थाभ्यो विशिष्टा सुप्तावस्थाऽनध्यवसायाख्या ज्ञानमेव तद्वत् कार्यावस्था द्रव्येन्द्रियपृथिव्यादि ज्ञानमेव । यथा निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिवेदनीयानामुत्तरोत्तरोत्कर्षभेदावृतज्ञानशक्तेराचैतन्य विशेषस्तदावरणापगमविशेषा- 15 पादितचैतन्यविशुद्ध्यत्कर्षपर्यन्तप्राप्तसार्वज्ञवद्वा चैतन्यावरणप्रकर्षपर्यन्तप्राप्तं पृथिव्यादि ज्ञानमेव, कर्मणश्चाष्टविधस्य सप्रभेदस्य पुरुषपरिणामैक्यापत्तीनात्मत्वमिति चैतन्यमेव पृथिव्यादेः।
अत आह
योऽसौ पुरुषस्तदेव तत्, आत्मत्वेन परिणमितत्वात् तद्रव्यत्वात् , भूम्यबादिव्रीहित्वइति सारूप्याभावेऽपि चिदात्मनः प्रपञ्च उपपद्यत इति कार्यात्मा पुरुषो व्याख्यायते इत्याह-इदानी मिति । द्रव्येन्द्रिय- 20 पृथिव्यादिजगदपि चेतनम् ,प्रकृतिरूपस्य विकारेऽन्वयदर्शनात् , अविभावनन्तु चैतन्यस्य परिणामविशेषात् , यथा स्पष्टचैतन्यानामप्यात्मनां खापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यते एवं काष्ठलोष्टादीनामपि चैतन्यं न विभाव्यते, एतस्मादेव च विभावितत्वकृताद्विशेषात् रूपादिभावाभावाभ्याश्च कार्यकारणानामात्मनाञ्च चेतनत्वा विशेषेऽपि गुणप्रधानभावो न विरुध्यते, यथा च पार्थिवत्वाविशेषेऽपि मांसरूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात् परस्परोपकारित्वं भवत्येवमिहापि भविष्यतीत्याशयेनाहयथा चैतदिति । अनध्यवसायेति. अनध्यवसायसंशयविपर्ययाणि सुप्तावस्थाप्रारम्भनमात्राणि, अवितथं प्रत्यक्षादिज्ञा-25 नञ्च जाग्रदवस्था ज्ञेया। द्रव्यादीनां तत्कार्यात्मत्वे हेतुमाह-आत्मेति। ब्रह्म बहिःसाधनमनपेक्ष्यैव द्रव्यादि सृजति यथा क्षीरं जलं वा खयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्य साधनम् , यथा वा देवा ऋषयो वा महाप्रभावा अनपेक्ष्यैव किञ्चिद्बाह्य साधनमभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा . उपलभ्यन्त इति हेत्वभिप्रायः । सा चेति. सुषुप्तावस्थैव द्रव्येन्द्रियं भावरूपचैतन्यात्मपरिणामवैकल्यात् निवृत्त्युपकरणे. न्द्रिये हि पुरुषेणात्मत्वेन परिणामिते सती भावेन्द्रियव्यपदेश्ये भवतः, अथवा लब्ध्युपयोगोपयुक्त आत्मा भावेन्द्रियं नान्यथा 30 एवं पृथिव्याद्यपि ब्रह्मणः कार्यलक्षणः परिणामः । इयं सुषुप्तावस्थापि ज्ञानात्मैव, ज्ञानविपरिवर्त्तत्वादित्याह-तदपीति, द्रव्येन्द्रियपृथिव्यादीत्यर्थः । दृष्टान्तमाह-हालाहलेति । यथा निद्रानिद्रानिद्रायुत्तरोत्तरोत्कृष्ट कर्मावृतज्ञानशक्तिरपि चेतन ईषचैतन्यवानेव भवति तदावरणानामुत्कर्षतारतम्येनात्यन्तमपगताद्विशुद्धथत्कर्षपर्यन्तप्राप्तं सार्वज्ञलक्षणं चैतन्यं भवति, तथा च चैतन्यावरणभूतेन प्रकर्षपर्यन्तप्राप्तेन स्त्यानर्द्धिनाऽऽवृतचैतन्यं पृथिव्याद्यपि ज्ञानमेवेत्याह-यथा निद्रेति । अष्टविधस्थति, ज्ञानदर्शनावरणान्तरायमोहनीयवेदनीयनामगोत्रायुःकर्मणामष्टानामित्यर्थः । परिणामपरिणामिनोरभेदमाह-योऽसाविति, 35
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org