________________
२२२ द्वादशारनयचक्रम्
[विधिविध्यरे तम् , कस्मात् ? अर्थस्य च तथा तथा तत्त्वात् , ज्ञानमेव ह्यर्थः पुरुषसृष्ठेरनेकरूपतायाः प्रतिपादितत्वादेकात्मविपरिवर्तोऽप्यनेकरूप एव तेन तेन प्रकारेण तस्य भवनात्-तथातथातत्त्वात् , तदपि करणज्ञानं ज्ञानमेव,-करणमपि ज्ञानमेव, ज्ञानविपरिवर्त्तत्वात् । एवं तावज्जायदवस्था करणात्मा ज्ञानमेव । यथा चेदं ज्ञानं तथा जानदवस्थाशेषः-सुप्तावस्थाप्रारम्भमात्रं सुप्तावस्था सापि ज्ञानमेव, । संशयादि ईषत्सुप्तता, इयमपि करणात्मा, संशयादिज्ञानमित्यत्रादिग्रहणाद्विपर्ययानध्यवसायौ ।
सा च सुप्तावस्थापि सती ज्ञानमेव, वस्तुनस्तथातथा तत्त्वात् स्थाणुः स्यात् , पुरुषः स्यादित्यूचंतासामान्यस्य वस्तुत्वात् । तथा विपर्ययोऽपि विज्ञानमेव, तथातत्त्वादर्थस्य स्थाणुत्वपुरुषत्वाभ्यां विपर्ययेण च, तथाऽनध्यवसायोऽपि ज्ञानमेव, चेतनाचेतनात्मकत्वा
जागरितवत् , तदेव हि चेतनाचेननम् , चेतनाया एवाचेतनात्वाद्वा संशयादिवज्ञानमेवान10 ध्यवसायः, अथवा सुप्तवदनध्यवसायोऽपि करणात्मैव व्यक्ततरः स्वापः।
(सा चेति) सा च सुप्तावस्थापि सतीषत्सुप्तता ज्ञानमेव, पूर्ववदेव सर्वात्मकतायां वस्तुनस्तथातथातत्त्वात् , स्थाणुः स्यात् पुरुषः स्यादित्यूर्खतासामान्यस्य वस्तुत्वात्-यदि स्थाणुः, वयोनिलयनादिविशेषात् , यद्युत्थायोपविष्टत्वकरचरणचलनादिविशेषात् पुरुष इत्युभयथापि तस्य वस्तुनस्तथातथातत्त्वात्स्थाणुत्वपुरुषत्वाभ्याम् । तथा विपर्ययोऽपि विज्ञानमेव, तथातथातत्त्वादर्थस्य स्थाणुत्व15 पुरुषत्वाभ्यां विपर्ययेण चेति सैव व्याख्या। अत्रापि साधनं चेतनात्मा सुप्तत्वाद्रव्यपुरुषवत् , पूर्ववदेव व्याख्या । सुप्तत्वं जाग्रत्त्वं वा चेतनस्यैव भवति नाचेतनस्य कस्यचित् , यथा चैतज्ज्ञानं तथाऽनध्यवसायोऽपि, नाध्यवसायोऽनध्यवसायोऽनभिव्यक्तबोधः सोऽपि संशयविपर्ययाभ्यां विशिष्यमाणः खापः, सुप्तत्वात् ज्ञानमेव चेतनाचेतनात्मकत्वात् , जागरितवत् , यथा जागरितावस्था ज्ञानमेव चेतनाचेतनात्मकत्वात् , तथाऽनध्यवसायोऽपि चेतनावत्, यस्मात्तदेव चेतनमचेतनञ्च-तस्यैव बहुचेतन20 त्वादल्पचेतनत्वाच्च चेतनश्च तदचेतनश्चेति विग्रहात् । चेतनाया एवाचेतनात्वाद्वा संशयादिवत् ,
आदिग्रहणात् विपर्ययनिर्णयौ गृह्यते, तद्वच्चेतनाचेतनावज्ज्ञानमेवानध्यवसायः । अथवा सुप्तवत् , यथाहि सुप्तः उच्छासनिःश्वासादिक्रियास्वव्यक्तं चेतयमानोऽपि ज्ञाता, एवमनध्यवसायोऽपि करणात्मैव व्यक्ततरः स्वापः विशिष्टस्वाप इत्यर्थः, एवं करणात्मा व्याख्यातः।
ज्ञानं जाग्दवस्था तदपेक्षयाप्यप्रस्फुटं ज्ञानं स्वप्न इति बोध्यम् । पुरुषव्यतिरिक्तस्य कस्याप्यभावादर्थानामपि तेन तेन प्रकारेण 25 ज्ञानात्मत्वान्न वैरूप्यमित्याह-अर्थस्य चेति । संशयविपर्ययानध्यवसायज्ञानानां जाग्रदवस्थाशेषत्वात् सुप्तावस्थाप्रारम्भ
रूपतया ज्ञानरूपतैवेत्याह-यथा चेदमिति । संशयविषयस्य तेन तेन प्रकारेण वस्तुत्वं कथमित्याशङ्कायामाह-स्थाणुः
स्यादिति, पुरोवर्तमानं स्थाणुर्वा स्यात् पुरुषो वा ऊर्ध्वत्वेन तद्वस्त्वेवेति भावः । विशेषलिङ्गेनान्यतरधर्मनिर्णये तु सुतरा- मित्याह-यदि स्थाणुरिति । विपर्ययितमपि वस्तु स्थाणुत्वस्य विपर्यये पुरुषत्वेन पुरुषत्वस्य विपर्यये वा स्थाणुत्वेन स्यादेव
तेन तेन प्रकारेण तस्य भवनादित्याह-तथा विपर्ययोऽपीति । तथा च प्रयोगमाह-अत्रापति. संशयो विपर्ययो वा 30 चेतनात्मा, सुप्तत्वात् , द्रव्यपुरुषवदित्यनुमानम् । व्याप्तिं ग्राहयति-सुप्तत्वमिति । चेतनाचेतनशब्दार्थमाह-तस्यैवेति ।
बहुचेतनत्वेऽल्पचेतनत्वस्याल्पचेतनत्वे वा बहुचेतनत्वस्यैकदाऽसम्भवे त्वाह-चेतनाया एवेति । एवं करणात्मेति, अचेतनसृष्टिं प्रति कारणत्वादिति भावः । 'विवर्त्तस्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणामिनः । अनादिवासनोद्भूतो न सारूप्यमपेक्षते'
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org