________________
करणात्मवर्णनम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
२२१ णास्मा, सुप्तजाप्रदवस्थयोश्चान्तरावस्था सुप्तजागरिका, तत्र स्वप्नदर्शनं भवति, यथोक्तम् 'नो सुत्ते सुविणं पासइ नो जागरे सुविणं पासइ । सुत्तजागरे सुविणं पासइ।' (भग. १६ श. ६ उ. सू. ५७८) सा चापि जाग्रदवस्था करणात्माख्या चेतनात्मा-चेतना एवात्मा, तस्यैवार्थस्य जागरणात्मत्वात् । द्रव्यपुरुषवत्, द्रव्यपुरुषो भूतो भावी वा, यथा राजाऽऽसीद्भविष्यति वेति राजैवेत्युच्यते, करचरणगतचक्रपद्माद्याकृतिरेखादिलक्षणदर्शनात् , तदेव हि शरीरमनुभूतराज्यं भविष्यद्राज्यं वा राजा, तथा 5 करणात्मानः स्वपन्तो जाग्रतो वा चेतनात्मैव । अनुपयुक्तो वा द्रव्यपुरुषः, तस्मिन् ज्ञेयेऽनुपयुक्तत्वात्, यथाऽनुपयुक्तः पुरुषो नात्मत्वेन परिणमित आत्मस्वरूपज्ञानत्वेनापरिणमितो द्रव्यपुरुषो द्रव्यात्मैव तथा करणात्मा ज्ञानोपयोगरहितोऽपि चेतनात्मैवेति ।
एवं तर्हि परमात्मनः शुद्धचेतनात्मत्वात् सर्वात्मकत्वाच्च तस्य करणामावस्थानुपपत्तिरिति चेन्न चैतन्यस्य सर्वात्मकतायामपि सत्यां निद्राग्रहणात् , सुप्तोत्थितस्य सावशेषनिद्रस्येव 10 यज्ज्ञानं सा जागरावस्था करणात्मा, व्यपगतनिद्रस्येव सर्वज्ञावस्थेत्यनयोर्विशेषः, अर्थस्वरूपाग्रहणात् करणात्मावस्थायाः परमात्मना वैरूप्यमित्येतच्चायुक्तम् , अर्थस्य च तथातथातत्त्वात् ज्ञानमेव ह्यर्थः, करणमपि ज्ञानविवर्त्तत्वात् , यथा चेदं ज्ञानं तथा जाग्रदवस्था । शेषः सुप्तावस्था ज्ञानमेव, संशयादीषत्सुप्ततापि करणात्मा ।
(एवं तहीति) एवं तर्हि परमात्मनः शुद्धचेतनात्मत्वात् सर्वात्मकत्वाञ्च तस्य करणात्मावस्था- 15 नुपपत्तिरिति चेत् नेत्युच्यते चैतन्यस्य सर्वात्मकतायामपि सत्यां निद्राग्रहणात् सुप्तोत्थितस्य सावशेषनिद्रस्येव यज्ज्ञानं सा जागरावस्था करणात्मा व्यपगतनिद्रस्येव सर्वज्ञावस्थेत्यनयोः करणात्मपरमात्मावस्थयोर्विशेषः । स्यान्मतं अर्थस्वरूपाग्रहणात् करणात्मावस्थायाः परमात्मना वैरूप्यमित्येतच्चायु
रकचन्द्रकसंस्थितम् , श्रोत्रेन्द्रियं कदम्बकपुष्पसंस्थितम् । निष्पादितस्यानुपघातानुग्रहाभ्यामुपकार्युपकरणेन्द्रियमुच्यते , भावेन्द्रियश्च लब्ध्युपयोगभेदाद्विविधम् , लब्धिः पूर्वमुक्तव क्षयोपशमजनितशक्तिविशेषरूपेति । स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो 20 व्यापार उपयोगः स्पर्शनेन्द्रियादिनिमित्तः। तच्चोपयोगलक्षणं चैतन्यं प्रत्यक्षानुमानागमखरूपत्वाजाग्रदवस्थेत्युच्यत इति भावः। सुषुप्तजाग्रदवस्थयोर्मध्यावस्था सुप्तजागरिकेत्युच्यते या सैव खप्नावस्थेत्युच्यत इत्याह-सुप्तेति । द्रव्यपुरुषवदिति, अनुभूतपर्यायाधारं द्रव्यं यथाऽनुभूतघृताधारत्वपर्यायरिक्तघृतघटः, यद्भाविपर्याययोग्यं तदपि द्रव्यं राज्यपर्यायाहेकुमारवत्, तथाभूतभविष्यत्पर्यायश्च भूतभविष्यघृताधारत्वपर्यायरिक्तघृतघटवत् , तथा च यद्योग्यं भूतस्य भविष्यतो भूतभविष्यतोश्च
वयोरिदानीमसत्त्वेऽपि तदेव द्रव्यमुच्यते। पूःशरीरं तत्र शयनाभिवसनात् पुरुषः, अथवा सर्वेषामपि खर्गमर्त्यपाता- 26 लगतानां वर्गविमानवनशयनासनयानवाहनदेह विभवादिभावानां नानाभवेषु पूरणपालनभाषावावरूपः पारमार्थिकः पुरुषः, एताशपर्यायानाधारो भविष्यत्पर्यायो द्रव्यपुरुषः । ननु पुरुषः शुद्धचैतन्यस्वरूपो जगद्विलक्षणः जगचाशुद्धमज्ञानस्वरूपम् आप्रत्स्वप्राद्यवस्थात्मकत्वात् तत्कथं करणात्मपुरुषावस्थात्मकमित्याशङ्कते-एवं तीति, तस्य पुरुषस्य करणात्मावस्थाजामदवस्था, तस्या अविद्यालक्षणनिद्राविशेषत्वादिति भावः। शुद्धबुद्धखरूपोऽपि अनाद्यविद्यालक्षणनिद्रावच्छिन्नत्वमित्याहचैतन्यस्येति । अविद्योपस्थापिततत्तबुख्यादिसंघातविशेषोपहितजीवाभिधानं दधानः आत्मा एकोऽपि भिन्न इव विशुद्धोऽप्य-30 विशुद्ध इव ततश्चैकबुद्ध्यादिसंघातापगमे तत्र मुक्त इतरत्र बद्ध इव यथा मणिकृपाणाधुपधानमेदादेकामपि मुखं नानेव दीर्घमिव वृत्तमिव श्याममिवावदातमिवान्यतमोपधानविगमे तत्र मुक्तमिवान्यत्रोपहितमिव भवति, तथा खनजागरितयोरपि । उपाध्यभिभवोद्भवाभ्यां श्रमः सुषुप्तौ च तदभाषः परं ब्रह्म प्रविश्य विमुक्तकार्यकारणसंघातत्वेनाकर्तृत्वात् , विद्याप्रीपेनाविद्याध्वान्तं विधूय तुरीयावस्थायां पुरुष एव केवलो निर्धत्तः सुखी भवति । अत एव तुरीयावस्थाव्यतिरिकावस्थासु सावशेषनिद्रस्येव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org.