________________
द्वादशारनयचक्रम्
[ विधिविरे
स्थाविलक्षणमात्मस्वतस्त्वं, निद्रासम्बन्धिन्यस्तिस्रोऽवस्था : जाग्रत्सुप्तसुषुप्ताख्याः, तत्तद्विलक्षणमात्मनः स्वं तवं शुद्धं चैतन्यं स एवान्येन व्याख्याविकल्पेन परमात्मा विमुक्तः सर्वज्ञ एवं व्याख्यातो वेदितव्यः । करणात्मानं कार्यात्मानञ्च व्याख्यास्यामः -
तत्र
5
तावन्महामोहनिद्राक्षयोपशमलब्धिजनितनिर्वृत्त्युपकरणेन्द्रियप्रत्ययं चैतन्यं जायते 'तच प्रत्यक्षादि, प्रत्यवेक्षणात्मकत्वाज्जाग्रदवस्था, सैव करणात्मा, सा चापि चेतनात्मैव, द्रव्यपुरुषवत् । यथानुपयुक्तः पुरुषो नात्मत्वेन परिणमितो द्रव्यपुरुषस्तथा करणात्मापि चेतनात्मैव । तत्र तावन्महामोहेत्यादि यावत्करणात्मा, दर्शनचारित्रमोहोदयेन यस्मात्सुप्ता मिध्यादृष्टोऽचारित्राच प्राणिनः, तस्मान्महामोह एव निद्रा तदुदये स्वापः, तत्क्षये विबोधः, यथोक्तम् 'यदा तु मनसि क्लान्ते बुद्ध्यात्मानः श्रमान्विताः । विषयेभ्यो निवर्त्तन्ते तदा स्वपिति मानवः ।।' इति । 10 तस्या निद्रायाः क्षयोपशमः - अनन्तानां पुरुषपरिणत्यापन्नाष्टविधतद्वातिकर्मणामुदितानां क्षयादनुदितानामुपशमालब्धिरशक्तिरुत्पद्यते, तस्मिन्नेव पुरुषे ज्ञानदर्शनवीर्याविकल्पतया घातिकर्मक्षयोपशमशक्त्या निर्वर्त्तितानि कृष्ण सारशबलपक्ष्मपुटाकारेण चक्षुः शेषेन्द्रियाणि च यथास्वमाकारैः तान्येव चोपकृतान्युपकरणत्वेन मसूरकक्षुरप्रातिमुक्तचन्द्रकयवनालिकानेकसंस्थानैः, ततस्तत्प्रत्ययं - लब्धिजनितनिर्वृत्युपकरणेन्द्रियप्रत्ययं चैतन्यमुपयोगो जायते । 'लब्ध्युपयोगौ भावेन्द्रियम्' ( तत्त्वार्थ० २।१८ ) इति वचसैव कर15 नात् । तच्च प्रत्यक्षादि प्रत्यवेक्षणात्मकत्वात्, आदिग्रहणादनुमानागमात्मकत्व जाग्रदवस्था,
२२०
रहितत्वात् निद्रया तु भजनीयाः । मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तः सततं जाग्रति द्रव्यनिद्रोपगता अपीति तद्व्याख्या । उक्तञ्च स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रियन्नपानादिविचित्र भोगैः स एव जाग्रत्परितृप्तिमेति । स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके । सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति । पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः । पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् | आधार20 मानन्दमखण्डबोधं यस्मिँलयं याति पुरत्रयञ्च' इति ( कैवल्ये ) शुद्धं चैतन्यमिति, यदिन्द्रियादिद्वाराऽऽगन्तुकज्ञानं तत्कदाचित् परोक्षं कदाचित् सन्दिग्धं कदाचिद्विपर्यस्तं भवति, न चैवमात्मा, स ह्यनुमिमानोऽप्यपरोक्षः, स्मरन्नप्यानुभविकः संदिहानोऽप्यसंदिग्धः, विपर्यस्यन्नप्यविपर्यस्तः, अतस्तत्स्वभावः, न च तत्स्वभावस्य चैतन्यस्य कदाप्यभावो नित्यत्वात्, सुषुतिदशायामपि चैतन्य मस्त्येव, परन्तु विषयाभावादेवास्याचेतयमानता, प्रकाश्याभावेन वियति प्रकाशकस्या प्रकाशकत्ववत् । इदच चैतन्यं जाप्रदाद्यवस्थाविलक्षणमनागन्तुकत्वात् जाग्रदाद्यवस्थानाञ्चाविद्यामायाद्यपरपर्यायनिद्राप्रयुक्तत्वमिति भावः । 26 सैव करणात्मेति, उपयोगलक्षणजाग्रदवस्थेत्यर्थः, तस्योपयोगस्य प्रत्यक्षानुमानागमखरूपप्रमाणात्मकतया करणत्वादिति भावः । सा चापीति, उपयोगखरूपजाप्रदवस्थाया अपि अवस्थावतश्चेतनादनन्यत्वात्तत्स्वरूपैवेति भावः । द्रव्येति, अवस्थावचेतनात्मा च द्रव्यपुरुषवत्तथाविधोपयोगाभावेऽपि कारणात्मैवोच्यत इति भावः । दर्शनचारित्रेति, मोहनीयं द्विविधं दर्शनचारित्रमोहनीय मेदात्, तत्त्वार्थश्रद्धानलक्षणदर्शनस्य मोहनाद्दर्शनमोहनीयं मिथ्यात्वसम्यक्त्वसम्यङ् मिथ्यात्व मेदभिनम्, प्राणातिपातादिलक्षणचारित्रस्य मोहनाच्चारित्रमोहनीयं कषायनोकषायभेदभिन्नम्, तत्र दर्शन मोहोदयिनो मिध्यादृष्ट30 यश्चारित्रमोहोदयिनोऽचारित्रास्तेषां बोधस्याज्ञानरूपत्वात् सुप्ता एवोच्यन्ते, तस्य च मोहस्यात्यन्तिके विनाशे शुद्धं खखरूपं चैतन्यमभिव्यज्यत इति भावः । यथोक्तमिति, यदा चैतन्यं चेतसो जाम्रति क्लान्तत्वात् सत्त्वरजसी अभिभूय खाच्छाद
न तमसाऽभिभूतं सत् विषयाकारपरिणामाभावात्तमोमयं बुद्धिसत्त्वं जानीते तदा सुषुप्तं भवतीति गाथार्थः । तथा च तमसो महामोहत्वान्महामोह एव निद्रेति भावः । एतादृशनिद्रायाः क्षयोपशमाल्लब्धि शक्तिरुत्पद्यत इत्यार्हतमताश्रयणेनाहतस्या निद्राया इति, अष्टविधेति, चक्षुरचक्षुरिन्द्रियपश्च कज्ञानावरणनिद्रेत्यष्टविधकर्मणामित्यर्थः । आर्हतमते हि द्विविधा - 36 नीन्द्रियाणि द्रव्येन्द्रियाणि भावेन्द्रियाणि चेति, निर्वृत्तीन्द्रियमुपकरणेन्द्रियश्चेति द्विविधं द्रव्येन्द्रियम्, निर्वृत्तीन्द्रियमिन्द्रियद्वाराणि तत्र स्पर्शनेन्द्रियं नानासंस्थानसंस्थितम्, जिह्वेन्द्रियं क्षुरप्रसंस्थितम् घ्राणेन्द्रियमतिमुक्तचन्द्रकसंस्थितम् चक्षुरिन्द्रियं मसू
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org