________________
जायदाद्यवस्थाः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
कास्ताः ? उच्यन्ते —
सुखदुःखमोहशुद्धयः सत्त्वरजस्तमोविमुक्त्याख्याः कार्याणि चासां यथासंख्यं तिसृणाम्, तद्यथा प्रसादलाघवप्रसवाभिष्वङ्गोद्धर्षप्रीतयः, दुःखशोषतापभेदापस्तम्भोद्वेगापद्वेषाः, वरणसदनापध्वंसनबीभत्सदैन्यगौरवाणि । चतुर्थ्यास्तु शुद्धं चैतन्यं सकलस्वपरिवर्त्तप्रपञ्चसर्वभावावभासनम् । अथवा ऊर्ध्वतिर्यगधोलोका अविभागा वा, संज्ञयसंज्ञयचेतनभावा वा ।
(सुखेत्यादि ) ( अविभागा इति ) यथासंख्यमेव ऊर्ध्वलोको जाग्रदवस्था, तिर्यग्लोकः 5 सुप्तावस्था, सुषुप्तावस्थाsधोलोकः, अविभागावस्था तुरीयावस्था, संज्ञयसंज्ञ्यचेतनभावा वा, संज्ञिनः समनस्का देवमनुष्यनारकपञ्चेन्द्रियतिर्यञ्चः जाग्रति, सुप्ता असंज्ञिनः पृथिव्यबग्निवायुवनस्पतिद्वित्रि'चतुरिन्द्रियामनस्कपञ्चेन्द्रियाः, काष्ठकुड्यादयः सुषुप्ताः, भवनमात्रं भावः सर्वत्राविभागा तुरीयावस्थेति ।
अत्राह-
२१९
अविभागात्मनस्तस्यैव चतुरवस्थत्वात् कालभेदाभावाच्च चतस्रोऽपि स्युः, न, नियता 10 एव ह्येता विमुक्तिक्रमात् तत् पुनः तुरीयं निरावरणमोहविघ्नं निद्रावियोग आत्यन्तिको निद्रासम्बन्धिजाग्रदाद्यवस्थाविलक्षणमात्मस्वतत्त्वं स एव परमात्मा विमुक्तः सर्वज्ञो व्याख्यातः ।
( अविभागात्मन इति) अविभागात्मनस्तस्यैवात्मनश्चतुरवस्थत्वात् कालभेदाभावाच्च चतस्रोऽपि प्रथमद्वितीयतृतीय तुरीयाख्याः स्युरित्येतदयुक्तम्, यस्मान्नियता एवैता विमुक्तिक्रमात् सर्वज्ञता च तुरीयमिति, सुषुप्तावस्थायाः तिरोभूतचैतन्यायाः सुप्तावस्था विमुक्तमलत्वाद् द्वितीया, मिथ्याह- 15 ष्ट्यादिका तृतीया, सम्यग्दर्शनचारित्रात्मिका मुक्तिप्रत्यासत्तेः सर्वज्ञता चतुर्थी । तत्पुनस्तुरीयं निरावरणमोहविघ्नं-निर्गता ज्ञानदर्शनावरणमोहविघ्ना अस्मिन्निति निरावरणमोहविघ्नं, मोहस्यैव महास्वापत्वात्, एकेन्द्रियादिषु स्त्यानर्ज्जुदयसद्भावाद्विशेषेण स्वापः, अविशेषेण तु सर्वप्राणिनां समोहानां मिथ्यादृष्ट्य चारित्राणां स्वापात् 'सुत्ता अमुणी सया मुणिणो सया जागरंति' (आ. सू. १०५) इति, तच्च तुरीयं कैवल्यं विगतावरणमोहविघ्नं रागद्वेष मोहप्रतिघातेभ्यो विविक्ततादर्शनं विशुद्धं प्रतिपूर्णमेकं स्वतत्त्वमिति 20 तत्पर्यायाः । किं रूपं तदिति चेत् ? निद्रावियोग आत्यन्तिकः, तद्व्याख्यानं निद्रासम्बन्धिजायदाद्यव
"
Jain Education International 2010_04
1
·
भवति, उपाधिद्वयोपरमे सुषुप्तावस्थायां उपाधिकृत विशेषाभावात् स्वात्मनि प्रलीन इव भवति, पुरुषावस्था च तुरीयेति । यथासंख्यमेवेति, तदुक्तं चैतन्योत्कर्षनिकर्षतारतम्याभ्यामूर्ध्वाधोमध्यभावेन सर्गस्य भौतिकस्य जाप्रदादिमेदेन विभजनम्, यथा ‘ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः' इति (सां. का. ५४ ) ऊर्ध्व. लोको प्रमृतिसत्यान्तो लोकः, समधिकज्ञानसुखादिशालित्वात्, सत्त्वबहुलो जाप्रदवस्थालक्षणः । सप्तद्वीपसमुद्रसंनिवेशस्ति- 25 र्यग्लोको रजोविशालः स्वप्नावस्था धर्माधर्मानुष्ठानपरः रजसः कर्मप्रवृत्तिजनकत्वात् कर्मानुष्ठानेषु तदर्जितरक्षणादौ च नियतमेव दुःखानुवृत्तिदर्शनात्, अधर्मानुष्ठानस्याति सौरभ्याच्च दुःखबाहुल्यम् । अधोलोकस्तमो विशाल: सुषुप्तावस्था, एवं गुणत्रयतारतम्यात् ब्रह्मादिस्तम्बपर्यन्तो ज्ञेयः । नन्वेताश्चतस्रोऽप्यवस्था आत्मनः सकृदेव स्युः क्रमिकत्वे कारणाभावादित्याशङ्कते - विभागात्मन इति । मोहलक्षणमलस्य विमुक्तिक्रमेण नियतत्वमेतासामित्युत्तरयति - यस्मान्नियता इति । तत्र प्रथमा तिरोभूतचैतन्यलक्षणसुषुप्तावस्था तत ईषद्विमुक्तमलत्वात् सुप्तावस्था द्वितीया, ततोऽपीषद्विमुक्तमला जाग्रदवस्था सम्यग्दर्शन - 30 ज्ञानचारित्रात्मिका सर्वज्ञता चतुर्थीति क्रमः । सुत्तेति, सुप्ता द्विविधा द्रव्यतो भावतश्च तत्र निद्राप्रमादवन्तो द्रव्यगुप्ताः भावसुप्तास्तु मिथ्यात्वा ज्ञानमयमहा निद्राव्यामोहिताः, ततो योऽमुनयः - मिध्यादृष्टयः सततं भावसुप्ताः, सद्विज्ञानानुष्ठान -
For Private & Personal Use Only
www.jainelibrary.org