________________
२१८ द्वादशारनयचक्रम्
[विधिविध्यरे तत्काले तथाऽग्रहणादप्रत्यक्षतेति चेत् सर्वाप्रत्यक्षता तर्हि, कदापि सर्वेण ग्रहणाभावात्, न हि यद्यथा भवति तथेन्द्रियेण गृह्यते, तुषकणादिरूपादिमात्रग्रहणवृत्तत्वाद्रीह्यादिचाक्षुषप्रत्यक्षस्य ।
(तत्काल इति) स्यान्मतं व्रीहिकाले भूम्यबाद्यात्मकस्य वस्तुनः तथा-भूभ्यबादिप्रकारेणा5 ग्रहणान्न हि तद्वस्तु प्रत्यक्षं स्यात् , नहि तद्वस्तु ब्रीहिमात्रमेवेति, उच्यते-सर्वाप्रत्यक्षता तर्हि कदाऽपीत्यादि-सर्वस्य वस्तुनः कदापि सर्वेणात्मस्वरूपेण ग्रहणाभावान्न कस्यचित् प्रत्यक्षवं स्यात्, तहशेयति-नहि यद्यथा भवतीत्यादि, व्रीहेरपि प्रत्यक्षत्वं नास्ति यथा विद्यते तथेन्द्रियग्रहणाभावात्, इन्द्रियेण तु तुषमात्रदर्शनात् तन्मात्रस्याव्रीहित्वात् कणाद्यदर्शनात्, कणमात्रस्याप्यत्रीहित्वात् कुण्डकाद्यदर्शनादित्यादि, रूपरसगन्धस्पर्शानामन्यतमस्यैवेन्द्रियविषयत्वात् , अत आह-तुषकणादिरूपा10 दिमात्रग्रहणवृत्तत्वाद्रीह्यादिचाक्षुषप्रत्यक्षस्य ।
स्यान्मतम्
रूपस्य रूपमात्रत्वात्तर्हि प्रत्यक्षत्वमित्येतच्चायुक्तम् , यावद्रूपग्रहणावृत्तत्वाद्रूपादिप्रत्यक्षस्य, तस्मात् स्थितमेतत् सर्व सर्वात्मकं ज्ञानस्वतत्त्वैककारणविजृम्भितमात्रश्चेति ।
रूपस्येति, रूपस्य रूपमात्रत्वात्तर्हि प्रत्यक्षत्वमित्येतच्चायुक्तम् , यावद्रूपग्रहणावृत्तत्वात् रूपादि15 प्रत्यक्षस्य, रूपरसगन्धशब्दस्पर्शा रूपादयस्ते हि परस्पराविनिर्भागवृत्तयस्तेषु रूपमात्रग्रहणं कथं यथार्थ
प्रत्यक्षं स्यादिति नास्ति प्रत्यक्षं, तस्मात् स्थितमेतत्सर्वं सर्वात्मकं ज्ञानस्वतत्त्वैककारणविजृम्भितमात्रं चेति ।
तस्यैवेदानी स्वरूपोपदर्शनार्थमुच्यतेतस्य चतस्रोऽवस्था जाग्रत्सुप्तसुषुप्ततुरीयान्वर्थाख्याः एताश्च बहुधा व्यवतिष्ठन्ते ।
(तस्येति) तस्य-अनन्तरप्रतिपादितचैतन्यतत्त्वस्येमाश्चतस्रोऽवस्थाः, जाग्रत्सुप्तसुषुप्ततुरीयान्वर्थाख्याः, जानदवस्था, सुप्तावस्था, सुषुप्तावस्था, तुरीयावस्था, एताश्चान्वर्थाः । एताश्च बहुधा व्यवतिष्ठन्ते, चतुर्थीमवस्थां मुक्त्वा तिसृणामेकैकस्याः प्रतिप्रक्रियं संज्ञादिभेदाल्लोकव्यवहारभेदाच्चानेकभेदत्वात् , चतुर्थी पुनरेकस्वरूपैव, विशुद्धत्वात् । अथवा सापि स्वरूपसामर्थ्यात् सर्वात्मनैवाने
कधा विपरिवर्त्तते, तद्यथा 'जंजंजे जे भावे परिणमति पओगवीससादवं । तं तह जाणाति जिणो 25 अपज्जवे जाणणा णत्थि" इति ( आव. नि. २६६७)
20
खकालेऽपि व्रीह्यादेः प्रत्यक्षतेत्याशङ्कते-तत्काल इति । सर्वाप्रत्यक्षतेति, तथा च सति कस्यापि प्रत्यक्षता न भवेत् , तस्य तदीयसर्वप्रकारेण ग्रहीतुमशक्यत्वात् , किन्त्वेकदेशग्रहण एव चक्षुरादेः सामर्थ्यम् , नहि रसगन्धादिप्रकारेण घटं प्रत्यक्षीकर्तुं चक्षुः समर्थमिति भावः । ननु कथं सर्वाप्रत्यक्षतोच्यते, रूपस्य रूपमात्रत्वेन तस्य सामस्त्येन ग्रहणादित्याशङ्कते-रूप
स्येति । रूपरसादीनामविनिर्भागवृत्तित्वेन तदेकदेशरूपस्यैव ग्रहणान्न यद्यथा भवति तथेन्द्रियेण गृह्यत इति न प्रत्यक्षमित्याह30 यावद्रूपेति। जाग्रदिति, इन्द्रियादिभिर्विषयोपलब्धियोग्यावस्था जाग्रदवस्था बुद्धाबुद्धादिभेदभिन्ना, जागरितप्रभववासनानिमित्ततत्तुल्यनिर्भासावस्था सुप्तावस्था स्वप्नावस्था वा विशेषविज्ञानोपशमावस्था सुषुप्त्यवस्था, कैवल्यावस्था तुरीयावस्थेति। अथवा मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान् गृहन् तद्विशेषापन्नो जागर्ति, तद्वासनाविशिष्टः स्वप्नान् पश्यन् मनःशब्दवाच्यो,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org