________________
- 10
बीहिसर्वात्मकता] न्यायागमानुसारिणीव्याख्यासमेतम्
२९७ कार्यस्यान्यव्यभिचारिणः क्वचित् कदाचिदप्यनमावदर्शनादवस्थात्वं संशयहेतुरित्यभिप्रायः । आचार्य आह-को विचारः १ निश्चितमेवैतत्-अनग्निरपि भवत्येवेत्यर्थः । तेनापि-विपर्ययेणापि तत्त्वतो भवितव्यम् , नन्विदमेव वर्तते-ज्ञानात्मकैककारणस्याम्यनन्यादिस्वावस्थात्मकत्वप्रतिपादनस्य प्रस्तुतत्वात् , एवमग्निं व्यभिचारयिष्यामः । परमते तावत् प्रतिज्ञार्थं भावयामः-तेन त्वित्यादि ज्ञानात्मकत्वादात्मनस्तद्विजृम्भितविकल्पत्वाच्च शब्दस्य, यदुच्यते यच्छब्द आह तदस्माकं प्रमाणमिति, सोऽपि शब्दो न । पुरुषप्रवृत्तिमन्तरेण भवितुं वक्तुं वाऽहंतीति पुरुषस्वरूपस्यैव तस्य वचनत्वं युज्यते नान्यथेति, अस्मिन्नर्थे कारणमाह-उक्तत्वाद्वचनत्वाद्व्याकरणवत् पौरुषेयमिति सर्वस्य पुरुषात्मकत्वं दर्शयति । हेतुसौलभ्यं यथा वस्तुत्वादपीत्यनेन दर्शयति । सर्वस्य तदात्मकत्वात् तदवस्थामात्रत्वादित्यादिसर्यो हेतुरस्मिन्नर्थे भवति, इतरथा स नैव वचनं स्यात् शब्दः, अपौरुषेयत्वात् खरविषाणवत्,-किं वा वचनं न वचन. मित्यनेन नैव वा स्यादपुरुषात्मकत्वात् वन्ध्यापुत्रवत् । आह
नन्वेकस्मिन्नेव काले तस्यैव वस्तुनोऽग्नित्वमनग्नित्वञ्चेति प्रत्यक्षादिविरुद्धं सामस्त्येनाभावात् , न, ननु प्रत्यक्षत एव व्रीह्याद्येकं वस्त्वेकस्मिन्नेव काले भूम्यबादिसर्वात्मकम् तेन विनाऽभावात् , तस्य तथाभवनात् व्रीहिस्वात्मवत् , कतमोऽसौ व्रीहिः क्षित्युदकबीजादिगतवर्णगन्धरसस्पशोदिधर्मपरिणतिमन्तरेण ? इति ।।
नन्वित्यादि, यदुच्यते त्वयैकस्मिन्नेव काले तस्यैवैकस्य वस्तुनोऽग्नित्वमनग्नित्वश्चेति प्रत्यक्षादिविरुद्धं सामस्त्येनाभावात् , आदिग्रहणादनुमानागमलोकव्यवहारविरुद्धमिति । आचार्य आह-ननु प्रत्यक्षत इत्यादि, सर्वप्रमाणज्येष्ठमूलप्रत्यक्षत एव ब्रीह्यादि, आदिग्रहणादाम्रजम्बूफलादि, एकं वस्त्वेकस्मिन्नेव ब्रीह्यवस्थानकाले, भूम्यबादिसर्वात्मकत्वाद्रीहेः, कतमोऽसौ व्रीहिः क्षित्युदकबीजादिगतवर्णगन्धरसस्पर्शादिधर्मपरिणतिमन्तरेणेति, भूम्यादेः परस्परधर्मापत्तेः सर्वात्मकत्वम् , तस्मादबादिरेव ब्रीहिः, 20 तेन विनाऽभावात् , तस्य तथा भवनात् , ब्रीहिखात्मवत् , तस्मान्नास्ति प्रत्यक्षादिविरोधः।
अमिरप्यनग्निरेव, नातःसंशयाभावादवस्थात्वस्यासाधकत्वमित्युत्तरयति-को विचार इति । ननु कथमनिरप्यनमिरित्यत्राहनन्विदमेवेति, अवस्थावस्थावतोरमेदात् कारणखरूपज्ञानलक्षणपुरुषस्यैवान्यनम्यवस्थात्मकत्वप्रतिपादनस्य क्रियमाणत्वादग्निं व्यभिचरत्यपि धूम इति भावः । तेन यदुच्यते शब्देन-यदुच्यते सोऽयं शब्दो ज्ञानखरूपात्मविवर्तमेद एवेश्याह-: ज्ञानात्मकत्वादिति, पुरुषप्रवृत्तिव्यतिरेकेण शब्दसम्भूतेर्वचनस्य वाऽसम्भवात् पुरुषात्मनैव तस्य वचनत्वं नान्यथा पुरुषे. 25 णोच्यते यत्तद्वचनमिति व्युत्पत्तेः तथा च शब्दसन्दर्भः पुरुषेणोक्तत्वात् पुरुषस्य वचनत्वाद्वा पौरुषेयो व्याकरणादिवदिति भावः। इतरथेति, शब्दस्य तद्वचनत्वतदात्मत्वतदवस्थामात्रत्वाद्यभाव इत्यर्थः । वचनं वचनं न स्यादिति व्याघातार्थमतस्तदर्थमाहकिं वेति, वन्ध्यापुत्रवद्वचनमेव न स्यादपुरुषोत्तत्वात् पुरुषानात्मकत्वात् पुरुषावस्थामात्रत्वाभावाचेति भावः । एकस्मिन्ने वेति, य एव यदैवाग्निः स तदैवानग्निरपि तर्हि स नैवाग्निः स्यात् , पूर्णतयाऽमित्वेनाभावात् गृह्यते च प्रत्यक्षादिनामित्वे. मानिरिति प्रत्यक्षादिविरोध इति भावः। एकस्यैव व्रीह्यादेरेकदैव भूम्यबादिसर्वात्मकतायाः प्रत्यक्षत उपलब्धेर्न प्रत्यक्षादिविरोध 30 इत्याशयेनोत्तरयति-ननु प्रत्यक्षत इति । क्षित्युदकबीजादिसमूहात्मक एव व्रीहिर्नान्यः कश्चित्तव्यतिरिक्त इलाह-कत. मोऽसाविति । अनुमानमप्यत्रार्थे प्रदर्शयति-तस्मादिति । व्रीहेर्भूम्यबादिरूपत्वे तद्रूपेण प्रहणं स्थान तु भवत्यतो में
द्रा० न०२८
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org