________________
२१६
द्वादशारनयचक्रम्
[ विधिविध्यरे
काचात्, सातिशयपरिमाणकं वस्तु सति पक्षे भावविशेषत्वात् घटवदिति, विभक्तपदार्थत्रादिमतापेक्षचैतदनुमानम्, अविभक्तैककारण विवर्त्तनाद्भेदवादे वक्ष्यत्युत्कर्षनिरतिशयत्वम् । भावतारतम्ययुक्तत्वात् साधितं साधयिष्यमाणार्थानुसारेण प्रतिजानानो भावितार्थोपनयनार्थमाह-असर्वातध्याभिधायिताभ्यां विपर्ययेण भवितव्यम्, असर्वज्ञताया वक्तृत्वासर्वज्ञताया वा अवस्थात्वात्, वक्तृत्वाव्यभिचारिण्या 5 सर्वज्ञताया वाक्यरूपेणानुमानात्मतया स्थितायाः इतरस्याः पदार्थतया इष्टाया वा अवस्थत्वात्, सा द्विविधाप्य सर्वज्ञतावस्थैव । तथा वस्तुतस्वाद्विशेषत्वादित्यादिहेतुसौलभ्यं दर्शयति, निदर्शनं ज्ञत्वाशत्वावस्थावत्, ज्ञं वेतनं स्थावरजङ्गममक्षं काष्ठादि तद्विधिविधिनयदर्शनेन जात्सुषुप्तावस्थे ते चैतन् पदार्थविषयं निदर्शनं वाक्यविषयं नीलोत्पलरक्तोत्पलवत्, यथा ज्ञमज्ञेनानं च ज्ञेन विना न भवति नीलोत्पलमनीलेनानुत्पलेन रक्तोत्पलेन वा विना न भवति तद्विपर्ययेण वाक्यार्थेन तथा 10 सार्वश्यं चासार्वश्येन विना न भवत्यसार्वज्ञ्यं वा सार्वश्येनेति ।
इतर आह-
धूमवत्त्वाग्निमत्त्वावस्थाविपर्ययेणापि तर्हि भवितव्यं तत्त्वतः, को विचारः ? निश्चितमेवैतत्तेनापि तत्त्वतो भवितव्यम्, नन्विदमेव वर्त्तते, तेन तु यदुच्यते तत्प्रमाणं सोऽपि शब्दो न पुरुषप्रवृत्तिमन्तरेण भवितुं वक्तुं वाऽर्हतीति उक्तत्वाद्वचनत्वाद्वस्तुत्वादपि व्याकरण15 बत् पौरुषेयम्, इतरथा स नैव वचनं स्यादपौरुषेयत्वाद्वन्ध्यापुत्रवत् ।
धूमवत्त्वेति धूमवत्वाग्निमत्त्वावस्थाविपर्ययेणापि तर्हि भवितव्यं तस्वतः, धूमस्यावस्थात्मक
प्रत्यक्षाद्यविषयेऽभ्युपगमान्न बाधकता तस्येति भावः । आकाशं साधयति - सातिशयेति, सातिशयं परिमाणं विवर्धमानं यत्र निरतिशयं भवति स एव महत्परिमाणवानाकाशः सिद्ध्यतीति भावः । सति पक्षे भावविशेषत्वादिति, साम्याति - शमभावत्वात्, यदपेक्षया न्यूनसमाधिकपरिमाणा भावाः सन्ति तथाविधभावत्वादित्यर्थो भाति, इदश्चानुमानं पृथक् पृथक् 20 स्वार्थाङ्गीकर्तुमतेनेत्याह-विभक्तेति एतन्मते महत्परिमाणवत्त्वस्याकाशादौ सम्भवान्निरतिशयकाष्ठावतां बहूनां सम्भ वात् । एकस्मादभिन्नात् कारणात् नानापरिणामाङ्गीकर्तृमते तु पुरुषादतिरिक्तस्याभावेन निरतिशयपरिमाणकस्यान्यस्याभावात् कथं तत्सिद्धिरित्यत्राह-अविभक्तैकेति । तारतम्ययुक्तत्वादितिहेतुना साधितमर्थमनुपदमेव साधयिष्यमाणार्थानुसारेणोपनयतीत्याह - भावतारतम्येति । असर्वेंति, यत्र काष्ठाप्राप्तिर्ज्ञानस्य वक्तृत्वस्य च तेनासर्वाभिधायिनाऽतथ्याभिधायिनाच न भवितव्यं किन्तु सर्वाभिधायिना तथ्याभिधायिना चेति भावः । अथवा सर्वज्ञसिद्धावनुमानान्तरं परिणामवादाश्रयेणाह -अस25 वैति, असर्वाभिघायिता अतथ्याभिधायिता च सविपर्यया, अवस्थात्वात् ज्ञत्वाज्ञत्वावस्थावस् नीलोत्पल रक्तोत्पलवदित्यनुमानम्, अत्रासर्वाभिधायित्वं ज्ञधर्मः, अतथ्याभिधायित्वं वाक्यधर्मः, आयोऽसर्वज्ञतारूपः पदार्थविषयः द्वितीयो वक्तृत्वास लतास्यो वाक्यविषयः, उभयमपि पुरुषस्यावस्थारूपम्, अत एवोकं असर्वज्ञताया वक्तृत्वासर्वज्ञताया वा अवस्थात्वादिति । वक्तृत्वासर्वज्ञतां व्याकरोति- वक्तृत्वेति । इतरस्या इति, सामान्यतोऽसर्वज्ञताया इत्यर्थः । हेत्वन्तराणि सूचयति - तथेति । दृष्टान्ताभिप्रायमाह - शं चेतनमिति । प्रसिद्धं प्रतिषेध्यमन्तरेण प्रतिषेधासम्भवादिति भावः30 मीलोत्पलेति, सर्ववाक्यानां सावधारणतया नीलोत्पलमित्यत्रानीलव्यावृत्त्यनुत्पलव्यावृत्ति रक्तोत्पलव्यावृत्तीनां बोधात् विपर्ययेण अनीलादिवाक्यार्थज्ञानमन्तरेण तद्बोधाभावादिति तात्पर्यं भासते, एवं ज्ञत्वाज्ञत्वयोरेकदैव वृत्तित्वं भासते, सर्वज्ञतादशायामेव वक्तृत्वादसर्वज्ञासिद्धेः, इयमसर्वज्ञता सर्वज्ञता च द्विविधाप्य सर्वज्ञतावस्थैव, तदुक्तं 'स्वरूपतः प्रमाणैर्वा सर्वज्ञस्वं द्विधा भवेत् । तच्चोभयं विनाऽविद्यासम्बन्धं नोपपद्यते' इति । नन्वेकदा सर्वज्ञत्वा सर्वज्ञत्वयोर्भावेऽग्नित्वानमित्व समानाधिकरनेsपि धूमः स्यात्, न स्वननित्वसमानाधिकरणो धूमः किन्तु तदव्यभिचार्येव अग्निकार्यत्वात्, अवस्थात्वं तु तत्रापि 35 दृष्टमतो व्यभिचारान्न विषर्ययसाधकत्वं तस्येत्याशङ्कते - धूमवत्त्वेति । सविपर्ययै निर्विपर्यये चावस्थात्वस्य दर्शनादिति भावः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org