________________
सर्वज्ञतासाधनम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
२१५ परस्परमुत्कर्षभेदः, तेन तारतम्येन युक्तत्वात् , तत् पर्यन्तेन निरतिशयेन विना न भवितुमर्हति, पर्वतोन्नतिवत् , यथा पर्वतोन्नतिः तारतम्ययुक्तत्वाद्विन्ध्यसह्योजयन्तपारियात्रेन्द्रपदमलयमहेन्द्रहिमवकैलासादीनामन्यतमस्योत्कर्षपर्यन्तं प्राप्तया निरतिशयोन्नत्या विना न भवति एवं ज्ञत्वमपि । योऽपि कैलासं मन्दरं वाऽनभ्युपगच्छति तस्यापि शुषिरस्यावकाशदानसमर्थस्य पृथिव्याद्याश्रयस्य क्षेत्रस्य सद्भावात्तस्य च समन्ततोऽनन्तत्वान्महत्तरं महत्तममिति प्रमाणोत्कर्षस्य तत्र निरतिशयस्य दर्शनात् क्षेत्र '5 प्रमाणवदिति दृष्टान्तः । अस्यामेव प्रतिज्ञायां हेत्वन्तरं प्रत्यवगमकात्मकत्वात् , प्रत्यवगमयतीति प्रत्यपगमकं तदेव ज्ञत्वं तच्च निरतिशयोत्कर्षपर्यन्तम् , तद् दृष्टान्तः खद्योतादितारतम्यवृत्तोद्योतवदिति, यथा खद्योतमप्यग्निप्रदीपतारकादिषु तारतम्येन वृत्तत्वादुद्योतो भास्करे निरतिशयोत्कर्षपर्यन्तो दृष्टस्तथा ज्ञानमपि क्वचिदिति ।
इतर आह
ननु वक्तृत्वादीनां धर्माणामसार्वघ्याव्यभिचारात्, अत्रैव प्रकर्षोत्कर्षदर्शनाच्चासर्वज्ञतैवेत्येतच्च न, वक्तृत्वस्यापि तारतम्यादुत्कर्षवृत्तेर्निरतिशयनिष्ठत्वात् , सर्वस्य वक्ता तथ्यस्य चेति वक्तृत्वादेव तत्सिद्धेः, नित्यानुमेयमहापरिमाणाकाशदृष्टान्तसाधर्म्याच्च । असर्वातथ्याभिधायिताभ्यां विपर्ययेण भवितव्यमवस्थात्वात् , ज्ञत्वाज्ञत्वावस्थावत् , नीलोत्पलरक्तोत्पलवत् ।
ननु वक्तृत्वादीनामित्यादि, ननु वक्तृत्वशरीरित्वनामवत्त्वजातिमत्त्वादीनां धर्माणामसार्वघ्याव्यभिचारादसर्वज्ञतैव । किश्चान्यत् , अत्रैव-इन्द्रियप्रत्यक्षानुमानयोर्विषये प्रकर्षोत्कर्षदर्शनाच्चासर्वज्ञतैव, इत्येतच्च न, वक्तृत्वस्यापि तारतम्यादुत्कर्षवृत्तेः, विपर्ययेण भवितव्यमित्यभिसम्बद्ध्यते । वक्तृत्वादेव तावत्सार्वइयं ब्रूमः वक्ता वक्तृतरो वक्तृतम इत्युत्कर्षपरम्पराया निरतिशयनिष्ठत्वात् सर्वस्य वक्ता तथ्यस्य चेत्यवश्यमेषितव्यम् , तथाच सर्वस्य तथ्यस्य च वक्तृत्वात्तज्ज्ञ इति वक्तृत्वादेव सार्वज्योत्कर्षसिद्धेरयुक्त: 26 सार्वज्ञ्यप्रतिषेधः । यदपि चेन्द्रियविषये तत्पूर्वकानुमानविषये चोत्कर्षतारतम्यमुक्तं तदपि नित्यानुमेयमहापरिमाणाकाशदृष्टान्तसाधाददोषाय । स्यान्मतमाकाशासिद्धरदृष्टान्त इत्येतच्चायुक्तम् , अनुमानस
सर्वज्ञ इति भावः । अनुमानमाह-तदेव शत्वमिति । तत्-ज्ञत्वमित्यर्थः । दृष्टान्ते साध्यं हे वा मन्दरो वा निरतिशयोत्कृष्ट इति भावः । तत्रास्वारस्यं प्रदर्य दृष्टान्तान्तरमाह-योऽपीति, महत्परिमाणतारतम्यस्य गग: नादौ विश्रान्तेरिवेतिभावः । ज्ञत्वमुत्कर्षपर्यन्तं निरतिशयं क्वचित् प्राप्नोतीति प्रतिज्ञायामेव हेत्वन्तरमाह-अस्यामेवेति) 25 वस्तुप्रतिभासकत्वादिति हेत्वर्थः, दृष्टान्ते वस्तुप्रतिभासकेषु परमोत्कृष्टता प्राप्तो भास्करस्तत्र यथा तत्तारतम्यं विश्रान्तं तथैव ज्ञत्वोत्कर्षतारतम्यमपि यत्र विश्रान्तं स एव सर्वज्ञ इति भावः । ननु वक्तृत्वशरीरित्वादिधर्माणामसर्वज्ञ एव सत्त्वदर्शनात् त एव सार्वज्ञं प्रतिरुन्धन्ति, करणानामिन्द्रियादीनामपटुतया विपरीतविज्ञानसम्भवात् , तथा ऐन्द्रियकज्ञानानुमानिकज्ञानविषय, एवोत्कर्षापकर्षदर्शनाच्च न निरतिशयज्ञानसिद्धिरित्याशङ्कते-नन्विति । वक्तृत्वेऽप्यतिशयदर्शनादस्तिकाष्टाप्राप्तिर्वक्तृत्वस्य सातिशयत्वात् , यद्यत्सातिशयं तत्सर्व निरतिशयं यथा परिमाणमित्यनुमानेनासर्वज्ञताविपरीतमेव सिझ्यतीत्याह-वक्तत्वस्या: 30 पीति, अस्य विपर्ययेण भवितव्यमित्यप्रेतनेन सम्बन्धः, असर्वज्ञतासाधकतयोपात्तेन वक्तृत्वेन विपर्ययस्यैव सर्वज्ञताया सिद्धेरिति भावः । निरतिशयवक्तृत्वसिद्धावपि कथं सर्वज्ञता सिद्ध्यतीत्यत्राह-तथा चेति, यथार्थवत्कृत्वस्य ज्ञानमन्तरेणानुप) पत्तेरिति भावः। प्रत्यक्षानुमानयोर्विषय एवोत्कर्षदर्शनं बाधकतया यदुक्तं तत्राह-यदपीति महत्परिमाणतारतम्यस्य नित्यानुमेये ११
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org