________________
२१४
A
द्वादशारनयचक्रम्
[विधिविध्यरे अभिमतात्मप्रतिपत्तिवत्, यथा त्वभिमतः प्रतिशरीरं शरीरादिव्यतिरिक्तमात्मैवात्मानं शरीरादींश्च बाह्यानर्थान् प्रतिपद्यमानोऽपि स्वात्माधिगमे प्रमाणान्तराभावाद्वाह्यो ग्राहकश्च तथा रूपादिभेदेन ज्ञानसुखादिभेदेन च स्वयमेव विपरिवर्त्तमान इति । निदर्शनमायाह बुद्ध्यादीत्यादि, बुद्धिसुखदुःखे
च्छाद्वेषादिकालाकाशदिगात्माद्यमूर्त सूक्ष्ममुच्यते रूपादयस्तु स्थूला एव, प्रत्यक्षत्वात् , सूक्ष्माः स्थूल। त्वादि च तेषां यथासंख्यं बुद्ध्यादीनां तत्त्व एवेत्यभिसंभत्स्यते, क्षीराद्यत्यन्तापरिदृष्टास्तत्त्व इत्यादि,
युगपद्भाविनः क्षीरावस्थायामत्यन्तापरदृष्टा धर्मास्तत्त्व एव दृश्यन्ते, तद्यथा आद्रवो रसः आकठिनं दधि मूलं मृदुः कठिनः मस्तु द्रवमेव, आदिग्रहणात् क्षीरमपि धेनावत्यन्तापरदृष्टं धेन्वभ्यवहृततृणगोरक्तादौ अत्यन्तापरिदृष्टाः धेनुगतरसरुधिरादिपरिणतिविशेषक्रमागतप्रश्रवादयः तत्त्व एव प्रविभागेन
व्यवस्थिताः । तेषां व्यवस्थावत् सर्वस्य चेतनाचेतनस्य जगतः चेतनात्मनि पुरुषेऽत्यन्तापरिदृष्टस्य 10 व्यवस्था युगपदेव, यथा च तस्यैव क्रमभुवोऽन्ये धर्मा माधुर्याम्लादयस्तथा पर्यायास्तत्व एव ज्ञानास्मके, तस्यैव ता अवस्थाः । नैताः स्वमनीषिका उच्यन्ते किं तर्हि ? जिनवचनार्णवविग्रुष एवैताः, तद्यथा ‘से किं भावपरमाणू ? भावपरमाणू वण्णवंते गंधवंते रसवंते फासवंते' इति वर्णादीनां तत्त्व एवानेकात्मके तदात्मनां भावात् ।।
एवञ्च सार्वयमप्ययत्नेन लब्धं पुरुषात्मकत्वात् सर्वस्य, अस्य ज्ञत्वमेवोत्कर्षपर्यन्तवृत्तं 1 सर्वज्ञता, तन्निरतिशयं क्वचित् प्रामोति, तारतम्ययुक्तत्वात् , पर्वतोन्नतिवत् , क्षेत्रप्रमाणवत्, प्रत्यवगमकात्मकत्वात् खद्योतादितारतम्यवृत्तोड्योतवत् ।।
एवञ्चेत्यादि, अस्मिन् ज्ञानात्मकैककारणविवर्त्तमात्रभेदवादे युक्त्यन्तरप्रतिपाद्यं सार्वज्यमयत्नेन लब्धं पुरुषात्मकत्वात् सर्वस्य, न हि पुरुषः कश्चिदात्मानं न वेत्ति, यथा तृणादिष्वत्यन्तापरदृष्टं दधित्वं
तत्कारणत्वात्तदात्मकं तथा सर्वज्ञताऽपि, अस्य का सा सर्वज्ञता? ज्ञत्वमेवोत्कर्षपर्यन्तवृत्तं-तदेव ज्ञत्व20 मुत्कर्षपर्यन्तं निरतिशयं कचित् प्राप्नोति, तारतम्ययुक्तत्वात् , तरतमभावस्तारतम्यं ज्ञतरो ज्ञतम इति
प्रमेयप्रकाशनं प्रमाणफलं तत्प्रकाशनशक्तिः प्रमाणम् , तदेवं ग्राह्यग्राहकभावो ज्ञानस्यैवेति भावः । तत्र दृष्टान्तमाह-अभिमतात्मप्रतिपत्तिवदिति । ज्ञानात् पृथग्भूतस्यार्थस्य सद्भावेऽप्यात्मा यथा बाह्यानां वस्तूनां ग्राहकः खात्मानं प्रति ग्राह्यश्च, स्वात्मानं खेनैव ग्रहणात् , खात्मभिन्नस्य स्वग्राहकस्य कस्यचिदभावात्तथारूपादिभेदेन ज्ञानसुखादिभेदेन च चैतन्यमेव विपः रिणमते ग्राह्यं प्राहकञ्चेति भावः। बुद्धिसुखेत्यादि, बाह्यान्तरभेदाः स्थूलसूक्ष्मभेदा उक्ताः, तत्रापि बाह्यभेदाः सह25 भाविन एवोक्ताः, क्रमभाविभेदाश्च क्षीरादीत्यनेनोक्ताः, तदेवं सर्वे धर्माः पुरुष एवं व्यवस्थया वर्तमाना इति भावार्थः । : निरूपणमुपसंहरति-तेषां व्यवस्थावदिति । अत्र प्रमाणमाह-जिनवचनेति, 'भावपरमाणूणं भंते ! कइविहे पण्णत्ते, गोयमा चउबिहे पण्णत्ते, तं जहा-वण्णमंते गंधमंते रसमंते फासमंते' इत्येवं भगवत्यां (श०२० उ० ५) पाठो दृश्यते । ननु यथा मृत्पिण्डस्यैकस्य परमार्थतो मृदात्मना ज्ञाते सर्व मृन्मयं घटशरावोदश्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवति तथा जगतः पुरुषात्मकत्वे पुरुषविज्ञानस्य सर्वेषां भावात्सर्वं विज्ञातमेवेति सार्वश्यमयत्नमेव लभ्यते न हि कश्चिदात्मानं न वेत्तीत्याह30 अस्मिन्निति । अत्र विवर्तपदेन व्याख्याटीकापर्यालोचनेन परिणाम एव विवक्षित इति भाति, दर्शनान्तरे तु एकस्य तत्त्वा
दप्रच्युतस्य भेदानुकारेणासत्याविभक्तान्यरूपोपग्राहिता विवर्त्त इत्युक्तम् , विवर्तपरिणामयोर्लक्षणश्च 'अतत्त्वतोऽन्यथाप्रथा विवर्त्त इत्युदीरितः स तत्त्वतोऽन्यथाप्रथा विकार इत्युदीर्यते' इति शुक्तो रजतं विवर्त्तः, दुग्धं दधि भवतीति परिणामः, अधिष्ठानसमस. ताककार्यापत्तिः परिणामः, अधिष्टानविषमसत्ताककार्यापत्तिर्विवर्त इति । सर्वज्ञतां पृच्छति-अस्य केति । यदाऽभ्यासात् ज्ञानस्य प्रकर्षतरतमादिप्रक्रमेण तत्प्रकर्षसम्भवे तदुत्तरोत्तराभ्याससमन्वयात् सकलभावातिशयपर्यन्तं यः संवेदनमवाप्यते स
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org