SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् [विध्यरे भावश्चेति सर्व सर्वेण सम्बद्धं तस्मात् सर्वस्य सम्बद्धत्वात् पूर्ववत् सहक्रमवृत्तिरूपादिशिवकादिपथिव्यादिब्रीह्याधङ्करादिसमवस्थानाद्रव्याणां क्षेत्रतोऽपि तेषामेकगतिसमवस्थानात् कालतोऽप्यनेकप्रभेदोपवर्ण्यधर्मास्तिकायादिपृथिव्यादिपानीयादानधारणादिसमवस्थानात् , भावतोऽपि पूर्ववद्रव्यादिरूपादिशिवकादिभवनसमवस्थानात् स्यादेकघटसंहतनानावस्थगुणवदिति यथोक्तं "द्रव्यमेव हि तथावस्थानाद्रूपादिभावं लभते, एकपुरुषपितृपुत्रादिवत् , द्रव्यमेव हि घटाख्यं रूपं रसो गन्धः स्पर्शः संख्या संस्थानं शुक्छ नीलं तिक्त कटु सुरभि मृदु कर्कशं शुक्लतरं शुक्लतमं चेत्यादिविशेषणतां नातिवर्त्तते त एव ह्येते गुणाः पर्यायाश्च नानावस्थाः परस्परविशिष्टाः परस्परस्य द्रव्यस्य च विशेषणं द्रव्यमेव गुणाः पर्यायाश्च तथाऽन्येऽपि द्रव्यक्षेत्रकालभावाः सप्रभेदा इति । स्यादेतदेवं यद्येतद्वक्ष्यमाणदोषेण न व्याहन्येतेत्यत आह10 तत्र सर्वार्थानां नित्यप्रवृत्तत्वात् समयमपि नास्ति तेषां समवस्थानं यदाश्रयो विशेषोऽवस्थाप्येत आत्तवदिति समवस्थानाभावान्निराश्रयः खपुष्पवन्नास्ति विशेषः । (तत्रेति) तत्र सर्वार्थानां नित्यप्रवृत्तत्वात्समयमपीत्यादि यावद्यदाश्रयो विशेषोऽवस्थाप्येतेति, एवं परस्परविशेषणत्वेन सर्वेऽर्था नित्यं प्रवृत्ता एवेति समयमात्रमपि नास्ति तेषां समवस्थानं, समवस्थानाश्रयो हि विशेषोऽवस्थाप्येत तदभावात् कुतो विशेषः, आत्तवदिति, तत्कालावगृहीतक्षणोत्पन्नवि15 नष्टभाववदित्यर्थः, ततः किमिति चेत् ? समवस्थानाभावान्निराश्रयः खपुष्पवन्नास्ति विशेषः । स्यान्मतं सम्बन्धदेशो न दूष्यते, उपेक्ष्यत इत्यत्रोच्यते सम्बन्धदेशोपेक्षायामुपान्त्यत्यागोऽकस्मात् सामान्याभ्युपगमात् तुल्यत्वात् सामान्यस्य । (स्यान्मतमिति) स्यान्मतं सम्बन्धदेशो न दूष्यते, उपेक्ष्यत इति किमुक्तं भवति ? सम्बन्ध देशान् द्रव्यादीन् मुक्त्वा निराश्रयत्वाद्विशेषो मा भूत् सम्बन्धदेशस्थानान्तु घटपटादीनां किमिति वा 20 विशेषो न स्यात्तदाश्रयत्वाद्विशेषस्येत्यत्रोच्यते सम्बन्धदेशोपेक्षायामुपान्त्यत्यागोऽकस्मात्, एवं सत्यकस्मा देवोपान्त्यस्य विशेषस्य त्यागः सामान्याभ्युपगमात् कथं सामान्यमभ्युपगतमिति चेत् ? तुल्यत्वात् सम्बन्धदेशस्थानां द्रव्यक्षेत्रकालभावप्रत्यासत्तितुल्यक्षणत्वात् सामान्यस्य समानभावस्य । पितृत्वपुत्रत्वादिभावमुपगच्छति, एवञ्च द्रव्यक्षेत्रकालभावापेक्षया सर्व सर्वेण सम्बद्धमिति शुद्धानां रूपादीनां क्वचिदप्यभावान्न विशेषतासम्भव इति भावः। सर्वार्थानामिति, वस्तुमात्रस्य खत एव भेदाभेदात्मकतया वृत्तेर्यत् यतो व्यावत्तेत तथावि25 धस्य पदार्थस्यैवाभावात् पराप्रसिद्ध्या परापेक्ष विशेषोऽपि खपुष्पवनास्ति निरूपकाधारलक्षणाश्रयाभावादिति भावः। तत्का लेति, तत्कालेऽवग्रहविषयीभूतक्षणमात्रस्थायिनि पदार्थे न कस्यचित्यवस्था शक्यते कर्तुम् , व्यवस्थानिरूपकस्याधारस्य च विनष्टत्वादिति । अतो विशेषस्याश्रयाभावानिराश्रयस्य गगनकुसुमवद्वस्तुत्वासम्भवेन विशेषाभावप्रसङ्ग इति भावः । सम्बन्ध देशः आश्रयभूतो देशो विशेषस्य न दूष्यते न निराक्रियते येन निराश्रयत्वाद्विशेषाभावः प्रसज्येत उपेक्ष्यते गजनिमीलिका. विषयः क्रियते गौणीक्रियत इति भावः। तथा च सति विशेषाणां द्रव्यादिना समानत्वात् सामान्यतापत्तिरित्युत्तरयति सम्ब. 30न्धदेशोपेक्षायामिति । सम्बन्धदेशानिति, घटपटरूपादयः सर्वे द्रव्यक्षेत्रादिनाऽवश्यं विशिष्यन्तां नाम, अन्यथः निराश्रयत्वापत्तिः स्यात् तेच घटपटादयः परस्पर विषिष्टा एवेति तेषां विशेषो भवत्येव, घटपटादेराश्रयस्य सत्त्वादिति भावा उपान्त्यत्याग रति, यदि समानकालीनेषु घटपटादिषु विशेषो व्यवस्थाप्यते तर्हि घटपटादिष्वनेकेषु समानस्य द्रव्यक्षेत्रकालादेः सम्बन्धस्य स्वीकारातू सामान्यमभ्युपगतं भवेत् । तथा चैकमेव वस्तु सर्वस्मात्सम्बद्धमिति समवस्थानाभावाद्विशेषो Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy