________________
वाय्वाद रूपादिता] न्यायागमानुसारिणीव्याख्यासमैतम्
अत्राह
रूपादिभेदसम्बन्ध एव विशेष उच्यते, तन्न, अन्यासम्बन्धेऽरूपादित्वात्तेषाम् , सर्वे सर्वत्र सर्वदा सर्वथा द्रव्यक्षेत्रकालभावाविभागसम्बद्धरसा एव हि रूपादयः, शुद्धानां वचिदप्यभावात् ।
(रूपादीति) रूपादिभेदसम्बन्ध एव विशेष इति, रूपरसगन्धस्पर्शसंख्यासंस्थानादीनां सप्रभे-B दानां सम्बन्ध एव विशेष उच्यते त एव हि परस्परतो विशिष्यमाणा विशेषाख्या इति, अत्रोच्यते तन्त्र, अन्यासम्बन्धेऽरूपादित्वात् , अन्यैर्द्रव्यादिभिरसम्बन्धः तेषामरूपादित्वात् , अन्यैर्द्रव्यादिभिरसम्बन्धे तेषामरूपादित्वं प्रसज्यते यस्मात् सर्वे सर्वत्र सर्वदा सर्वथा द्रव्यक्षेत्रकालभावाविभागसम्बद्धरसी एव हि रूपादयः, किं कारणं ? शुद्धानां कचिदप्यभावात् , प्रागुक्तद्रव्यादिसम्बन्धाभावे रूपादिखरूपाभावात् तत्सम्बद्धानामेव दृष्टत्वात् , सप्रभेदद्रव्यादिसम्बन्धाभावे रूपादयो न सन्त्येवेत्यरूपादित्वं 10 तेषां प्रसक्तम् ।
इतर आह
लोके दृष्टो ननु च वायौ शुद्ध एव स्पर्शः, उच्यते तत्रापि हि क्षेत्रादिद्रव्यस्य रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात् , वैधम्र्येण द्रव्यादिवत् , चक्षुरादीन्द्रियग्राह्यपरिणत्यभावाद्धेत्वनुमेयताभावात् ,
15 (लोक इति) लोके दृष्टो ननु च वायौ शुद्ध एव स्पर्शः स्यादरूपादित्वं यदि द्रव्यक्षेत्रकालरूपरसादिभिरसम्बन्धे रूपाद्यभाव एवेत्ययमेकान्तः स्यात्, स्याचानुमानं यदि दृष्टेन न बाध्यते, दृष्टश्च वायुः स्पर्शमात्र एव, न हि दृष्टाद्गरिष्ठं प्रमाणमस्तीति, अत्रोच्यते तत्रापि हि क्षेत्रादिद्रव्यस्य रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात् , वैधयेण द्रव्यादिवत् यथा द्रव्यादयो गृह्यन्ते प्रत्यक्षेण न तथा वायौ रूपरसगन्धादयोऽनभिव्यक्तिसौम्याद्गृह्यन्ते, किं कारणं? चक्षुरादीन्द्रियप्रायपरिणत्य- 20 भावात् , हेत्वनुमेयताभावात् , यथोक्तं सङ्ग्रहान्तरे "मूर्तिः कथं न वायोराख्यायेत च कथं न रूप्येषः । तद्व्यक्तिग्रहणं प्रति न शक्नुयादिन्द्रियं किञ्चिदि"ति, गन्धवन्तस्तोयाग्निवायवः, मूतिमत्त्वात् पृथिवीवत्, एवं रसवन्तावग्निवायू मूर्त्तत्वाद्भूम्यम्बुवत् , रूपवान् वायुर्मूर्त्तत्वादग्निभूमिजलवत् , रूपरसगन्धस्पर्शवन्ति वाय्वग्निजलानि, मूर्तत्वात् पृथिवीवत् । नास्त्येवेति तात्पर्यम् । नन्वेकमनेकेन सम्बद्धं भवतु, अनेके च रूपादयः परस्परं कुतो न विशिष्टा_इति त एव विशेषा उच्यन्त 25 इत्याशयेनाह रूपादिमेदसम्बन्ध एव विशेष इति, द्रव्याद्यसम्बद्धरूपादीनामभावेन शुद्धरूपादीनां विशेषत्वासम्भव इत्याह अन्यासम्बन्धेऽरूपादित्वादिति । तथा चानुमानं रूपादयो न सन्ति द्रव्याद्यसम्बद्धत्वाद्गगनकुसुमवदिति । शुद्धानां क्वचिदप्यमावादिति, द्रव्यसम्बन्धव्यतिरेकेण परस्परभिन्नानां रूपादीनामभावादित्यर्थः । तस्मात् सर्वे सर्वदा सर्वत्र सर्वथा द्रव्यक्षेत्रकालभावेरपृथग्भावेन सम्बद्धा एवेति सिद्धम् , अत्र दृष्टविरोधमाह लोके दृष्ट इति, यद्यपि वायो स्पर्श एव प्रत्यक्षतो गृह्यते न रूपादयः, एतावता न तत्र रूपादय इति न वक्तुं शक्यम् , सतोऽप्यनुपलब्धेः, अभिव्यक्त्यभावात् सूक्ष्मत्वात् 30 तद्रूपादौ चक्षुरादीन्द्रियग्राह्यपरिणत्यभावाद्वा, अनुमानात्तु ते तत्र सन्त्येवेत्याशयेनाह तत्रापि हीत्यादि, अनभिव्यकिसौक्षम्यादिति, अनभिव्यक्तेः सौम्यादा, अथवाऽनभिव्यक्तियोग्यसूक्ष्मतापरिणामादित्यर्थः, वातायनरेणुस्पर्शरसगन्धादितिसाधर्म्यदृष्टान्तस्याने वाच्यतया प्रथममत्र वैधदृष्टान्तमाह वैधयण द्रव्यादिवदिति तटयति यथेति हेत्वनुमेय. ताभावादिति, हेतुविशेषेण वाय्वादौ रूपादीनामनुमेयत्वादित्यर्थः, अनुमानचानुपदमेवोच्यते । मूर्तिः कथं नेति पूर्वार्धः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org