________________
२५४ द्वादशारनयचक्रम्
[विधिविध्यरे साश्रियणीया एव, नियत्यादिमात्रेण पूर्वाद्यनपेक्षेण व्यवहारासिद्धेः, नियतेरेवासिद्धेर्व्यवहारासिद्धिरन्यथेति, पूर्वादिभिर्विना बीजादीनामनियतत्वात् स्वभाववन्नियत्यभावो नियत्यभावाव्यवहारासिद्धिरिति । मम पुनः कालवादिनः पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते ? सिद्ध्यत्येव नियत्या विनापि क्रमव्यवहारः पूर्वादिभिरेव कृतत्वादित्यर्थः । B किश्चान्यन्नियतिवादे
त्वन्यायेन तु हिताहितप्राप्तिप्रतिषेधार्थाचारोपदेशावनर्थको, चशूरूपग्रहणनियतिवत्, नियत्या सिद्ध्यत्स्वसिद्ध्यत्सु वा किं यत्नोपदेशाभ्याम् ? अयत्नत एव तथा सिद्धेः।
(त्वदिति) त्वन्यायेन तु-त्वदीयेनैव न्यायेन विदुषां हिताहितेत्यादि, हितप्राप्त्यर्थ आचारो लौकिक:-कृषिवाणिज्यसेवादिरोदनपचनभोजनादिश्च दृष्टार्थः, तदुपदेशश्च-एतत्कुरु, इदं ते श्रेय 10 इति, लोकोत्तरश्चादृष्टार्थो यमनियमादिः, अहितप्रतिषेधार्थश्च लौकिकः क्षारविषकण्टकाग्निशस्त्रादिपरिहारार्थः, तदुपदेशश्च बालादीनां मा कार्षीरिति । लोकोत्तरश्चादृष्टार्थो हिंसानृतस्तेयाब्रह्मादिभ्यो विरतिः श्रेयसीति, तावतावाचारोपदेशावनर्थको स्याताम् , नियत्यैव ह्यवश्यम्भाव्यर्थोऽनों वेति किमाचारोपदेशाभ्याम् । किमिव ? चक्षुरूपग्रहणनियतिवत् , यथा चक्षुषा रूपं पश्यन्तं पुरुषं नियत्या
स्वभावतोऽन्येन वा केनचित्कारणेन त्वदभिमतेन सिद्धत्वात् , पुरुषकाराइते यो ब्रूयात् 'चक्षुषा रूपं 15 पश्य मा द्राक्षीर्जिह्वयेति किं तेन कृतं स्यात् ? तथा नियत्या सिद्ध्यत्स्वसिद्ध्यत्सु वा किं यत्नोपदेशाभ्याम् ? किं कारणं ? अयत्नत एव तथा सिद्धेः, ओदनकवलाद्यास्यप्रवेशोऽपि प्रक्षेपयत्नादृते त्वन्मतेन सिद्धयेत् , अप्रक्षिप्ते कवले क्षुत्प्रतीकारः स्यादित्यादि योज्यम् ।
यत्नोऽपि नियतित एव चेत् सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधौ, भावस्यान्यथाभावाभावात् । 20 (यत्नोऽपीति) स्यान्मतं योऽप्यसौ यत्नो नियतित एव, एषोऽप्याचारोपदेशरूपस्तृप्तिप्रयोजनौदनपचनास्यप्रक्षेपादिरूपश्च, तथा तथा नियतित्वादित्येवं चेन्मन्यसे ततः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधौ-यथासंख्यं लोकविरोध आगमविरोधश्च, सर्वलोकस्य सर्वशास्त्राणाञ्चारम्भप्रयोजनयोस्तदभिधानस्य चानर्थक्यम् । बुभुक्षाप्रतीकारप्रयोजन ओदनपाकारम्भः सह प्रयोजनेन तृप्त्यादिना, तदुपदेशवचनारम्भप्रयोजनानि चानर्थकानि लोके, शास्त्रेषु च धर्मार्थ
25 मनासामर्थ्यात् , अतो न व्यवहारसिद्धिरित्याह-मम पुनरिति । नियतिवादेऽनुपपत्त्यन्तरमभिधत्ते-त्वन्यायेन विति, तुशब्द एवार्थे, हितप्राप्तिफलको योऽयमाचारो लौकिकोऽलौकिको वा, तथाऽहितप्रतिषेधफलको लौकिकोऽलौकिको वा य आचारस्तदुपदेशो व्यर्थः, तथाविधनियत्यैव हिताहितयोः प्राप्तिपरिहारयोः सिद्धः स्पष्ट मन्यत् । अनर्थकत्वे हेतुमाह-नियत्यैव हीति, दृष्टान्तं सङ्गमयति-यथेति । सर्वे आचारोपदेशा अपि न नियतिमन्तरेण सम्भवन्तीत्याशङ्कते यत्नोऽपीति,
तथा सति लोकविरोध आगमविरोधश्च प्रसज्यते भवतो निरोधासम्भवात् , अभवतः कारकासम्भवाल्लौकिकप्रवृत्तिनिवृ30 स्थुपदेशानां निरर्थकत्वादित्याह-सर्वलोकेति । असौशब्दस्यैवार्थमाह-एषोऽपीति । ओदनपाकादौ तृप्तिबुभुक्षाप्रशा
न्त्यर्थ लौकिकी प्रवृत्तिरोदनादिकं कुर्वित्याद्यभिधानञ्च यल्लोके दृश्यते तस्य विरोधः, अलौकिकी च धर्माद्यर्थी प्रवृत्तिस्तज्ज्ञापकशाबारम्भः तदनुसारेण विदुषामुपदेशश्च दृश्यमानो यस्तस्य विरोध इति दर्शयति-यथासंख्य मिति । हेतुमाह-भाव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org