________________
नियतिवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
२५३ पूर्वमिदं पश्चादिदमिदानी मिदं युगपदिति न युज्यते-पूर्वादयः कालत्रयवाचिनः, युगपदित्यभिन्नकालवाची शब्दः, तत्तु कालमन्तरेण लोकप्रसिद्धं व्यवहारजातं न युज्यते । कारणान्तरमप्याह-सर्वेषां तेषां बीजादौ नियतेः सन्निहितत्वात् ,-बीजे मूलाङ्कुरपत्रनालादीनां नियतेः सन्निहितत्वात् , शुक्रशोणितावस्थायामेव कललार्दुदगर्भार्भकादीनां नियतेः सन्निहितत्वात् पूर्वादिक्रमवृत्तिता युगपद्वृत्तिता वेति न युज्यते ।
नियतेरेवेति चेन्न, आनर्थक्यात्, इह तु नियत्यानर्थक्यमेव, पूर्वादिभिरेव कृतप्रयोजनत्वात् किं नियत्या? यत्पूर्व तद्बीजादि यत्पश्चात्तदङ्करादीत्येवमादिविकल्पव्यवहारेषु काल एव भवतीति भावितम्।
(नियतेरिति) स्यान्मतमेतदपि नियतेरेव युगपद्वर्त्तनं पूर्वादिक्रमवर्तनश्चेत्यादि, एवकारात् कालादिनिराकरणमित्येतच्चायुक्त आनर्थक्यात्-नियतेः पूर्वादीनां वा नैरर्थक्यात् । यदि नियतिरेव 10 कारण पूर्व पश्चादिदानी युगपदिति कालवाचिशब्दोपादानं तदर्थाश्रयणश्चानर्थकम् , तदभावे सति नियत्यैव कृतप्रयोजनत्वात् । तदुपादाने वा नियत्यानर्थक्यम् । इह तु नियत्यानर्थक्यमेवेति मन्यस्व कालप्रत्येकार्थव्यापारार्थानां पूर्वादीनामवश्याभ्युपगम्यत्वात्तैरेव कृतप्रयोजनत्वात् किं नियत्या प्रयो. जनम् ? इह पूर्वादिभिरित्याद्यक्षरै वितार्थत्वात् , यदर्थं नियतिरुपादीयेत एतन्नास्तीत्यभिप्रायः, तत्तु पूर्वादिभिः कृतमेव, यत्पूर्व तद्बीजादि यत्पश्चात्तदकुरादीत्येतयोः पूर्वापरशब्दयोः क्रमात्मककालवाचि-16 त्वादिति तन्निदर्शयति-एवमादिविकल्पव्यवहारेषु काल एव भवतीति भावितम् ।
किश्चान्यत्
सर्वसङ्ग्रहेणैव वा पूर्वापरयोः कारणकार्यत्वात् कालत्वाच्च नियतेरेवासिद्धेर्व्यवहारासिद्धिरन्यथा, पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते ।
(सर्वेति) सर्वसनन्हेणैव वा यत्कारणं तत्पूर्वं यत्कार्य तत्पश्चादिति क्रमवर्तिनां भावानां 20 कारणकार्यत्वेन सङ्ग्रहात् पूर्वापरयोः कारणकार्यत्वात् कालत्वाञ्च काल एव भवतीति, एतस्म क्रमव्यवहारस्य सिद्ध्यर्थ त्वयाऽनुक्रमाथं पुरुषं स्वभावमन्यद्वा कारणं तत्कार्यश्वाश्रित्याप्यवश्य पूर्वादय
भावादित्याह-सर्वेषामिति । पूर्वादिक्रमवृत्तिता युगपदृत्तिता च तथाविधनियतेरेव भवतीत्याशङ्कते-नियतेरेवेति, तथासति कालनियत्यन्यतरवैयर्थ्यमित्युत्तरयति-आनर्थक्यादिति एवकारव्यावर्त्यमाह-एवकारादिति । अन्यतरानर्थक्यमेव स्पष्टयति-यदिति । तदभावे सति-कालवाचिशब्दाभावे सतीत्यर्थः । तदुपादाने वा कालवाचिपूर्वादिशब्दोपादाने वेत्यर्थः। 25 तर्हि कालवैयर्थ्यमस्मदिष्टमेव सिद्धमित्यत्राह-इह विति, प्रकृते विचारे त्वित्यर्थः । हेतुमाह-कालेति, क्रमसहभावे. नाभिव्यक्तिनियामकतया नियतिखीकारो व्यर्थः सकलजनप्रसिद्धाबाधितपूर्वापरादिव्यवहारनियामकतया कालस्यावश्यकत्वेन तेनैव तथाविधाभिव्यक्तिसम्भवेन नियतेस्तन्नियामकतया स्वीकारो व्यर्थ एवान्यथासिद्धत्वादिति भावः । विकल्पः-इदं पूर्वमिदं पश्चादित्याद्यनुभवः तत्पूर्वकः शब्दप्रयोगलक्षणव्यवहारश्चासाधारणकालकृत इति भावः। सर्वसङ्ग्रहेणैव वेति, क्रमवर्तिनां हि भावानां कार्यकारणत्वेन सङ्ग्रहो भवता कृतः, तत्र यत्कारणं तत्पूर्व भवति कार्य च पश्चाद्भवति, ते च पूर्वत्वापरत्वे 30 कालव्यतिरेकेण न सम्भवतः, अभ्युपगतश्च कार्यकारणयोः क्रमः, नच स तावन्नियत्या सम्भवति, कालव्यतिरेकेण तस्या , अप्यनियतत्वात् , एवञ्च पूर्वत्वापरत्वे कालविशेषे एव, तदभ्युपगमे च किं नियत्या, पूर्वादिव्यवहारस्य कालेनैव सिद्धेरिति भावः । अनुक्रमार्थ-क्रमव्यवहारनिर्वाहाय, पूर्वादिकालाभ्युपगममन्तरेण नियतिरेव न सिद्ध्यति पूर्वादिव्यवहारनिय
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org