________________
सतो वैलक्षण्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
(नन्विति) स्यान्मतम्। घटस्यासत्त्वं पटात्मना, पटासत्त्वं घटात्मनेति तयोरितरेतराभावलक्षणासत्त्वं वैलक्षण्यं च परस्परतः, दृष्टान्तौ च घटपटावसन्तौ, तस्मादसवैलक्षण्यस्यासत्यपि दर्शनादनैकान्तिकतेति चेदुच्यते-न, सतो वैलनण्यात्, नानैकान्तिकताऽस्य हेतोः, सतो वैलक्षण्यात् , सत एव वैलक्षण्यं-तद्धीतरेतराभावात्मकं वैलक्षण्यं सत एव, नासतः, तस्मादसतो वैलक्षण्यं न भवति, किन्तर्हि ? सद्वैलक्षण्यमपि तत् , सत एवेतरापेक्षया तद्रूपेणासत्त्वात् , अयन्तु कार्यस्यायत्यां । प्रादुर्भावोऽसता खपुष्पेणात्यन्तविलक्षणः, अप्रादुर्भावश्च खपुष्पस्य कार्येणासतेति नास्ति सतो वैलक्षण्यं सता, तद्विशेषधर्मत्वाद्रूपादिविशेषधर्मेणावलक्षण्यवत् । अथवा सतोऽवैलक्षण्यात् , सतः अवैलक्षण्यात्, सतस्तु घटादेः पटादिना सह वैलक्षण्यं नास्त्येव सत्त्वान्वयाविशेषात् , देशकालाकारादिमात्रविशेषस्याविशेषत्वादगुल्यादिविशिष्टकाङ्गाविशेषवत् । अथवा न तसत् खपुष्पम् , कस्माद्धेतोः ? सदसद्विलक्षणत्वात् , सताऽसता च विलक्षणत्वात् , सच्च द्विविधम् , तुल्यजातीयं घटस्य घट एव, अतुल्य- 16 जातीयं पटादि, असञ्च कार्य आयत्यां भावादकुरादि, खपुष्पमत्यन्ताप्रादुर्भावात् कार्येणासता विलक्षणं सता च घटपटादिना, त्वन्मतेनेतरेतराभाववैलक्षण्येन तुल्यजातीयेन च भावानां परस्परवैलक्षण्यम् । दृष्टान्तो घटवदिति, यथा घटस्तुल्यजातीयेभ्यो घटान्तरेभ्योऽतुल्यजातीयेभ्यश्व पटादिभ्यः सन्यो विलक्षणोऽसतश्च खपुष्पादेः संश्च दृष्टः, तथा खपुष्पं घटवत् सदसद्विलक्षणत्वान्नासत्, सदेवेत्यर्थः, द्विःप्रतिषेधः प्रकृतं गमयतीति कृत्वा, इतर उदुम्बरपुष्पवत्, यदसत न तत्सदसद्विलक्षणं यथोदुम्बर-15 पुष्पं त्वन्मतेनात्रापि वैधय॑दृष्टान्तः । खपुष्पखरविषाणोदुम्बरपुष्पादीनामसत्त्वाविशेषादनिष्टापादनसाम्यात् साध्यान्तःपातित्वं तस्माद्वैधर्म्यदृष्टान्तेन नार्थः। अस्तु तत् सद्विलक्षणमितरेतराभावापेक्षत्वात् कथमसद्विलक्षणं खपुष्पमिति चेत् ? आयत्या प्रादुर्भवता कार्येणासता वैलक्षण्यस्य त्वयैवाभ्युपगतत्वात् , त्वन्मतनिवारणार्थत्वादस्य प्रयासस्य, नास्माकं दोष इति ।
अथैवमप्यसदेव खपुष्पमिति निश्चयो न निवर्तते, अप्रादुर्भावात्मकं च तदिति 20
तथा च येन केनचित् पटादिनाऽसता वैलक्षण्यं घटादावस्ति, साध्याभावोऽसत्त्वमपि तत्रास्त्यतो हेतोय॑भिचारित्वमित्याशङ्कते-नन्विति । इतरेतराभावेति, भेदात्मकं तदसत्त्वं न तु त्रैकाल्यविरहरूपमित्यर्थः । ननु घटपटादौ यदसत्त्वं वैलक्षण्यश्च तत्तु सत एव सता, सतामन्योन्यखरूपेणासत्त्वात् , हेतुघटकबासस्वमसत एवासता, तथा तद्वैलक्षण्यमपीति नासद्विलक्षणत्वं घटादावस्तीति न व्यभिचार इत्युत्तरयति-तद्धीति । वस्तुतः सतः सता वैलक्षण्यं नास्त्यैव, सत्त्वान्वयाविशेषात्, यश्च वैलक्षण्यं तत्र प्रदर्श्यते स च विशेषधर्म एवेत्याशयेन पक्षान्तरमाह-अथवेति । ननु 25 मा भूत् पटादिना घटस्य वैलक्षण्यं असता कार्येण वैलक्षण्यमस्त्येव, तथा तत्रासत्त्वमपि, अपरखरूपेणासस्वात्तस्य, तथा च व्यभिचारो दुरुधर एवेति कल्पान्तरमाह-अथवा नेति, सत्त्वञ्च द्विविधं घटादेः सजातीयघटान्तरनिरूपितम् , विजातीयपटान्तरनिरूपितश्च, तथाऽसदपि, उत्तरकालप्रादुर्भाविकार्यनिष्ठमेकम् , अपरश्चोत्तरकालाप्रादुर्भाविखपुष्पादि निष्ठम्, तथा च खपुष्पमसता कार्येण विलक्षणं तथोभय विधेन सता च तस्मानासदिति भावः । ननु सतः सता वैलक्षण्यं नास्तीति पूर्वमुक्तम्, तत्कथमत्र घटादेः सजातीय विजातीयविलक्षणतोच्यत इत्यत्राह-वन्मतेनेति । दृष्टान्ते हेतुसाध्यसमन्वयमाह-यथा घट 30 इति व्यतिरेकदृष्टान्तं भवन्मतेनैवोपात्तं न त्वस्मन्मतेन. अस्माकं तु तदुम्बरपुष्पं पक्षान्तर्गतमेव, खपुष्पगतासत्वाविलक्षणस्वात् वैधर्म्यदृष्टान्ताभावे च क्षत्यभावादित्याह-इतर इति । असद्विलक्षणत्वं खपुष्पे कथमित्याशंक्य साधयति-अस्तु तदिति । ननु कार्यस्खपुष्पयोरसत्त्वस्यैवाङ्गीकारे खपुष्पस्य प्रादुर्भावाङ्गीकारे च कार्यमप्यप्रादुर्भावात्मकं भवेत् भवेद्वा प्रादुर्भावात्मकत्वात् कार्य नासदित्साह-मथैवमपीति, कार्यसपुष्पयोः प्रादुर्भावाप्रादुर्भावलक्षणे वैलक्षण्ये विद्यमानेऽपीलर्थः।
मा.न.१५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org