________________
१९२ - द्वादशारनयचक्रम्
[विधिविध्यरें (असदिति) असद्विकल्पासङ्गतत्वं कार्यस्यासिद्धम् , तन्न, प्रसिद्धमेव यस्मादसद्विकल्पासामर्थ्यमसत्कार्ययोरसतः कार्यस्य च सिद्धमेवेति गृहाण विकल्पचतुष्टये द्वयोरेव सम्भवात् , असत्खपुष्पं कार्यमङ्करादि, तयोर्विकल्पाश्चत्वारः, खपुष्पमसत्कार्यमप्यसत् । खपुष्पं सत्कार्यमसत् ।
खपुष्पमसत्कार्य सत् । खपुष्पं सत्कार्यमपि सदित्येतेषु चतुषु विकल्पेषु कार्यखपुष्पयोरुभयोरसत्त्वं 5 कार्यासत्त्वमेवेत्येतद्विकल्पद्वयं स्यात्-सम्भवेत् , किं कारणं ? उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षाभ्युपगम एव सत्कार्यवादः, प्रतिपक्षोऽसत्कार्यवादस्य, इतिशब्दो हेत्वर्थे, इत्यस्माद्धेतोर्वादाभावः तस्माद्वादाभावादुमयाभावकार्याभावविकल्पावेव सम्भवेताम् , नेतरौ । ततश्च तयोः उभयासत्त्वकार्यासत्त्वविकल्पयोः, तद्यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेवाविशेषः खपुष्पकार्ययोः असत्त्वाविशेषादेवाविशेष कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्यां स्यात्-एष्यति कालान्तरेऽस्माद्वर्तमानक्षणादन्य10 स्मिन् क्षणे भवेत् , दृष्टान्तः असत्कार्यवद्वीजाङ्कुरवत् , न चैतद् दृष्टमिष्टं वा खपुष्पप्रादुर्भाव इति ।
____ अथ न कार्यप्रादुर्भाववत् खपुष्पप्रादुर्भाव इष्यते, असच कार्यमिति निश्चितम्, तद्वैलक्षण्यान्न तीसत् खपुष्पम् , सदेव, असद्विलक्षणत्वात् , घटवत् , इतरे उदुम्बरपुष्पवत् ।
(अथेति ) अथैतस्मादनिष्टापत्तिदोषाद् दृष्टेष्टविरोधादपसर्पन श्रूयास्त्वं न कार्यप्रादुर्भाववत् 15 खपुष्पप्रादुर्भाव इष्यते, असञ्च कार्यमिति निश्चितम् । ततः को दोष इति चेदुच्यते तद्वैलक्षण्यान्न तीसत्
खपुष्पम् , असत्कार्यवैलक्षण्यान्नेदानीमसत् खपुष्पं किन्तु 'सदिति प्राप्तमसत्कार्यवैलक्षण्यं खपुष्पस्यायत्यामप्रादुर्भावः, तस्मादसत्कार्यवैलक्षण्यादायत्यामप्रादुर्भावान्न तबसत् खपुष्पम् , किं तर्हि ? सत् , को हेतुः ? असद्विलक्षणत्वात् , असता कार्येण सह विलक्षणत्वात् , दृष्टान्तो घटवत् , यथा
घटोऽसद्विलक्षणत्वात् सन्नेवं खरविषाणमप्यायत्यां प्रादुर्भवता कार्येण वैलक्षण्यात् सत् प्रसक्तम् । 20 इतर उदुम्बरपुष्पवत् , इतर इति वैधर्म्यदृष्टान्तः यदसत् तदसद्विलक्षणं न भवति यथोदुम्बरकुसुममिति परस्यानिष्टापादनार्थत्वादसद्वैधयं खपुष्पस्येति ।
ननु घटासत्त्वं पटासत्त्वविलक्षणम् , न, सतो वैलक्षण्यात् । अथवा सदसद्विलक्षणत्वान्न तसित् खपुष्पम् , घटवत् , इतर उदुम्बरपुष्पवत् । __ हेतोरिति भावः। असत्कार्ययोरिति, असत् खपुष्पमसत्कार्यमिति, सत् खपुष्पमसत्कार्यमिति वा विकल्पाङ्गीकारे तत्र 25 विकल्पासामर्थ्य सिद्धमेवेत्यर्थः । कार्यखपुष्पावाश्रित्य विकल्पचतुष्टयं प्रदर्शयत्यसकल्पनया-तयोर्विकल्पा इति, चतुधैव कल्पयितुं शक्यत्वादिति भावः । अविशेष इति, तथा च खपुष्पवत् कार्यमपि नोत्पद्यतेति भावः। आयत्यामिति, उत्तरकाल आयतिः। एष्यत्कालान्तरमेव दर्शयति-वर्तमानक्षणादिति । ननु कार्येऽसत्स्वनिश्चयेऽपि न कार्यवत् खपुपस्य प्रादुर्भावोऽप्रसिद्धेः कार्यस्य चोत्तरकालमुपलम्भात् , दृष्टानुरोधेन कार्यकारणाभावनिर्णयादित्याशङ्कते-अथैतस्मादिति । तत्रोत्तरमारचयति-तद्वैलक्षण्यादिति, खपुष्पेणाऽसत्कार्यवृत्तिधर्मविरुद्धधर्मवता भाव्यम्, अन्यथाऽसद्विलक्षणत्वमेव न 30 स्यात्ततश्चासत्त्वविरोधिसत्त्ववता भाव्यमिति खपुष्पं सत् स्यात् यो ह्यसद्विधर्मा स सन् दृष्टो यथा घटः, एवं खपुष्पमपि स्यात्, यच्चासन्न न तदसद्विधर्म यथोदुम्बरपुष्पमित्याशयं प्रकाशयति-असत्कार्येति । ननु कथमसत्कार्यवैलक्षण्यं खपुष्पस्येत्यत्राहअसत्कार्यवैलक्षण्यमिति, यत्किञ्चिदसद्विलक्षणत्वं खपुष्पेऽस्त्येव । असन्मात्रवेलक्षण्यन्तु भाव एव वर्तत इति बोध्यम् । ननु घटः पटादिरूपेण पटश्च घटादिरूपेणासन् भवतीतीतरेतराभावरूपं सत्वं घटे पटे चाखे लक्षण्यमपि परस्परतो वर्तते,
Jain Education International 2010_04
For Private & Personal Use Only
.
www.jainelibrary.org