________________
असद्रिकल्पासङ्गतत्वम् ]. न्यायागमानुसारिणीव्याख्यासमेतम् चेत् ? अप्रमाणनियमागमोऽनुपदेशकश्च वेदः, अचेतनत्वादाकाशवत् , यथाऽऽकाशमचेतनत्वादप्रमाणम् , कूटस्थनित्यत्वाच्च न ज्ञानवद्वचनमेवं वेदोऽपीति प्रामाण्योपदेशाभावः।
यदपि च प्रसह्य परमाक्रम्य कारणेषु घृतादिष्वेवंविधेषु स्वर्गादिफलस्य खपुष्पवदसत्त्वमुच्यते तदपि चान्याय्यमेव यदेतदसत्त्वं नाम त्वया कचिन्मन्यते, न्यायेन बाध्यत्वात्, ततोऽन्यत् कार्यम्, तदसमर्थविकल्पत्वात्, घटपटवत् ।
यद्यपि च प्रसोत्यादि, प्रसह्य-बलात्कारेण परं कश्चित् पुरुषमवगणयता एकवीरंमन्येनाऽऽक्रम्य परिभूयास्मन्मतं, यदपि चाग्निहोत्रं जुहुयादित्यत्र कारणेषु घृतादिष्वितिकर्तव्यतासु स्वर्गादिफलस्य खपुष्पवदसत्त्वमुच्यते, एवं विधेष्विति, सर्वेतिकर्तव्यतानामादिमध्यावसानेषु, तत्पुनरसत्त्वमेकान्तेन, न कथञ्चित् कार्यादिसत्त्वमपीत्येतत्पक्षनिरपेक्षं, सर्वथा नास्त्येवेति त्वयेष्टं तदपि चान्याय्यमेव, यतो यदेतदसत्त्वं नाम त्वया कचिन्मन्यते, नामेति मिथ्याकल्पितनाममात्रमेव तत् , 10 यत्त्वया कचित्सत्त्वनिरपेक्षमसदिति चिन्त्यते, कथं पुनरन्याय्यं तदसत्त्वमिति चेदुच्यते-न्यायेन बाध्यत्वात् , कतमो न्याय इति चेदेवं तर्हि ब्रूमः-ततोऽन्यत्कार्य-असतोऽन्यदित्यर्थः, कुतः ? तदसमर्थविकल्पत्वात् , असङ्गतार्थोऽसमर्थोऽसम्बद्धो विकल्पतः, तेन-असता सहासम्बद्धो विकल्पोऽस्येति तदसमर्थविकल्पं कार्यं तस्य कार्यस्यासमर्थविकल्पत्वात् ततोऽन्यत्वम्, किमिव ? घटपटवत्, यथा घटविकल्पाः पृथुबुनार्धग्रीवादयो मृदुचतुरस्रादिभिः पटविकल्पैरसङ्गताः पटविकल्पाश्च तैरित्यसङ्गतौ 15 घटपटौ परस्परतः, एवमसद्विकल्पैरसङ्गतं कार्य तस्मात्ततोऽन्यदिति ।
स्यान्मतम्
असद्विकल्पासङ्गतत्वं कार्यस्यासिद्धम् , तन्न, प्रसिद्धमेव हि विकल्पासामर्थ्यमसत्कार्ययोरसतः कार्यस्य च, असत्कार्ययोर्विकल्पाश्चत्वारः खपुष्पमसत्कार्यमप्यसत्, खपुष्पं सत् कार्यमसत् , खपुष्पमसत् कार्य सत्, खपुष्पं सत् कार्यमपि सदित्येतेषु कार्यखपुष्पयोरुभयोर- 20 सत्त्वं कार्यासत्त्वमेवेत्येतद्विकल्पद्वयं स्यात् , उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षाभ्युपगम एव सत्कार्यवाद इति वादाभावात्। ततश्च तयोर्यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेव कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्यां स्यात् , असत्कार्यवत् , न चैतदृष्टमिष्टं वा । इत्याशयेनाह-कूटस्थेति। अथेतिकर्तव्यतात्मसु कारणेषु धृतादिषु कार्यस्य स्वर्गादेरेकान्तेनासत्त्वं यत्त्वयाऽभ्युपगम्यते सोऽप्यभ्युपगमो न्यायविरुद्ध इत्याह-यदपि चेति । त्वयाङ्गीक्रियमाणमसत्त्वमप्यप्रसिद्धं न्यायबहिर्भूतत्वात् सत्त्वासमानाधिकरणा- 25 सत्त्वासिद्धरित्याह-यदेतदसत्त्वमिति । न्यायबाध्यत्वमाविष्करोति-एवं तर्हि इति। असतोऽन्यत् कार्यम् तद. समर्थविकल्पत्वात् , घटपटवदिति प्रयोगः, असत्सम्बन्धिभिर्वक्ष्यमाणविकल्पैरसम्बद्धत्वादिति हेत्वर्थः । दृष्टान्तं सङ्गमयतियथेति । हेत्वसिद्धिमाशय निराकरोति-असद्विकल्पेति असत्सम्बन्धिभिर्विकल्पैरसङ्गतत्वं तस्य कार्ये वाऽसिद्धत्वमिति शङ्कित्वा तस्य सिद्धत्वमेवाङ्गीकुर्वित्याह-प्रसिद्ध मेवेति । अयं भावः असत्कार्यमसत् खपुष्पमित्येको विकल्पः, सत् खपुष्पमसत्कार्यमिति द्वितीयः, असत् खपुष्पं सत्कार्यमिति तृतीयः, सत् खपुष्पं सत्कार्यमिति चतुर्थः, तत्र कार्यस्य सद्विषयावुभौ विकल्पो so सत्कार्यवाद एव सम्भवेताम् , कार्यस्यासद्विषयावुभौ तु सत्कार्यप्रतिपक्षभूतौ असत्कार्यवाद एव सम्भवेताम् तौ च विकल्पावसङ्गतायौँ, असत्कार्यवादप्रतिपक्षभूतविकल्पद्वयाश्रयणे च सत्कार्यवादाभ्युपगमप्रसङ्गेन वादस्य पर्यवसानमेव भवेत, अतो नासिद्धत्वं
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org