________________
१९० द्वादशारनयचक्रम्
[विधिविध्यो (तद्वचनन्त्विति) योऽप्यज्ञप्रयुक्तशब्दार्थोन्नयनसमर्थो विवेक्ता पुरुषः पदवाक्यप्रमाणजस्तं प्रत्यप्ययं वाक्यप्रयोगोऽप्रमाण नियमागमोऽनुपदेशकश्च । अप्रमाणनियमागमः प्रत्यक्षानुमानगम्यार्थासंवादात् , अनुपदेशकस्त्वगमकत्वात् , तत्पुनः संभावयामि, भवेदेवं मा संस्था निष्ठुरमप्रमाणनियमा. गमोऽनुपदेशकश्चेत्यवधायकोच्यत इति, कुतः ? अप्रत्यवेक्षितार्थत्वात् पौर्वापर्यायोगाप्रति सम्बद्धार्थत्वात् 5 घटितानुमतविध्वंसनाच, अप्रत्यवेक्षिता जुहोतिबाहुल्यप्रयोगनिर्विषयत्वादिभिः पूर्वापरसम्बन्धरहितता पृथगाभिमतानां विध्यादिशेषाभावात् घटितविध्वंसनमितिकर्तव्यतैव कर्त्तव्यतेति, घटितस्यादिवाक्यगतजुहोत्यनुवादाभ्युपगमात् घटितानुमतविध्वंसनमिति, एतेभ्यो हेतुभ्योऽप्रमाणनियमागमोऽनुपदेशकश्च वाक्यप्रयोगः । दृष्टान्त उन्मत्तप्रलापवत्, यद्वाक्यमुन्मत्तादिप्रलपित पुरुषोच्चारितशब्दसामान्यात तद्वाक्यं वदतोऽप्रमाणनियमागममगमकञ्च यथा 'शङ्खः कदल्यां कदली च भेयाँ तस्याश्च भेयां सुमह10 द्विमानम् । तच्छङ्घभेरीकदलीविमाना उन्मत्तगङ्गाप्रतिबन्धभूताः ॥ इति, तथेदमपि विवेत्तुरप्यर्थप्रतिपादनसमर्थं न भवतीति ।
एवं विचार्यमाणमिदं वाक्यं दोषेभ्यो न मुच्यते, अथवा नैवायं दोषो न च विचारयोग्योऽयमुद्राहः प्रत्यपेक्षाप्रामाण्ययोनिर्विषयत्वात् , त्वन्मतात्तन्न ज्ञानवद्वचनम् ।
(एवमिति) (निर्विषयत्वादिति) ज्ञानं हि प्रमाणमप्रमाणं वेति विचार्यते प्रत्यपेक्षते 15 च, तत्र प्रामाण्यस्य मुख्यत्वात् , न ह्यत्र रूपादिप्रामाण्यवत् प्रामाण्यमङ्गीक्रियते, तस्मात् प्रत्यपेक्षायाः प्रामाण्यस्य च ज्ञानविषयत्वात्त्वन्मतादेव वेदस्याज्ञानाभिमतत्वान्न विचारो न प्रमाणभावो वाऽस्ति, अज्ञानत्वाद्वेदस्य । त्वया हि प्रागेवोत्पततोक्तम् 'न हि किश्चिज्ज्ञानं निश्चितं विशुद्धश्चास्ति, सर्वस्य संशयाद्यज्ञानानुविद्धत्वादिति, तदर्शयन्नाह-त्वन्मतात्तन्न ज्ञानवद्वचनमिति । यथा ज्ञानकार्यत्वाज्ज्ञानमात्मप्रयुक्तशब्दोऽचैतन्यमपि, कार्य कारणोपचारात्, अन्नकार्यप्राणान्नत्ववदिति वा, ततः किमिति
20 योऽज्ञवचनमपि सङ्गतार्थ कर्तुं समर्थस्तं प्रत्यपीदं वचनमसङ्गतार्थ किमुतान्यं प्रतीत्याह योऽपीति। अप्रमाण नियमागम इति यस्मिन्नागमे प्रमाणानां नियमो नास्तीत्यप्रमाणनियमागमः, एतदेवाह-अप्रमाणेति। न केवलं तस्य-तथा विधार्थाबोधकत्वमपि तु निरर्थकत्वेनानुपदेशकत्वमपीत्याशयेनाह-अनुपदेशक इति। सम्भावयामीत्युक्तसम्भावनाकारणमाह-तरपुनरिति । अप्रत्यवेक्षितेति, जुहोतिप्रयोगबाहुल्यमनुवादत्वाद्यसम्भवेन निर्विषयत्वं पौनरुक्त्यमित्यादिदोषदुष्टार्थमविचार्यैवोपन्यस्तत्वादित्यर्थः। पौर्वापर्येति, पूर्वापरीभावस्वरूपसम्बन्धरहितत्त्वेनासम्बद्धार्थत्वादित्यर्थः,घटितेति कर्त्तव्यतेवेतिकर्तव्यतेति सम्मतस्या25 मिहोत्रं जुहुयादिति वाक्यगतजुहोतेरापन्नार्थानुवादताभ्युपगमेन विध्वंसनादित्यर्थः, शहाकदश्यामिति,शङ्खादीनां कदल्यादावसम्भवात् शङ्खादीनाश्च प्रचुरप्रवाहेणोन्मत्तायाः गङ्गाया रोधकत्वासम्भवाच्चेदं वाक्यं यथा नार्थप्रतिपादनसमर्थ तथा वेदवचनमपीत्यर्थः। तदेवं दोषबाहुल्याव्यभिचारि वेदवचनमित्युपसंहरति एवमिति, किश्च प्रमाणत्वाप्रमाणत्वाभ्यां ज्ञानस्यैव विचायेतयाऽज्ञानभूतस्य वेदवचनस्य दोषप्रदर्शनं विचारकरणञ्च निष्फलमित्याशयेनाह-अथ वेति । प्रामाण्याप्रामाण्ययोर्विचारस्य
ज्ञान एव मुख्यतया वेदस्याज्ञानस्य तदविषयत्वादित्याह-प्रत्यपेक्षेति । कथमज्ञानत्वं वेदस्येत्यत्राह-त्वया हीति, विधिन. 30 यान्ते एतन्नयवादिनोक्तम् , न तु मीमांसकेन तन्मते ज्ञानानां खतःप्रामाण्याभ्युपगमेनाप्रमाणलक्षणाज्ञानानुविद्धत्वासम्भवादिति बोध्यम् । वेदस्याज्ञानत्वं समर्थयति-यथेति, चेतनोदीरितमेव हि शब्दो बुझ्या विचार्य प्रयुक्तराज्ज्ञानजन्य इति कार्ये शब्दे कारणीभूतस्य ज्ञानस्योपचारात् ज्ञानमुच्यते तथा न वेदात्मकः शब्दः, चेतनोदीरितत्वानङ्गीकारादतोऽप्रमाणनियमागमो
श्चेति भावः । अन्नकार्यति अन्नस्य कार्य प्राण एवानमुच्यते उपचारात् तद्वदित्यर्थः । उपचारमात्रे दृष्टान्तोऽयं न तु कार्ये कारणोपचारे, तथा शब्दस्सैकान्तनित्यत्वाभ्युपगमेनार्थक्रियाकारित्वासम्भवात् तदहितस्य प्रमाणत्वोपदेशत्वे न सम्भवत
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org