________________
जुहोतिबाहुल्यदोषः] न्यायागमानुसारिणीव्याख्यासमेतम् गुडेन च भुञ्जीत तान्येव च बुभुक्षा चेदयादिति, न तु यथा हि वैद्यके त्रिफला घृतेनैव भक्षयेन्न गुडेन, गुडस्य चाक्षुष्यत्वात् , यथोक्तम् 'प्रभूतकृमिमज्जासृङ्मेदोमांसकफो गुडः । चक्षुस्तेजोमयं तस्य विशेषाच्छेष्मणो भयम् ॥' इति । - किञ्चान्यत्
इदं वाग्निहोत्रं जुहुयाद्यदग्नये च प्रजापतये च सायं जुहोति घृतेन जुहुयात् , शूर्पण । जुहोति तेन ह्यन्नं क्रियते इत्येवमादिविध्यनुवादार्थवादवाक्यगतो जुहोतिः श्रूयमाणः प्राप्तिविहितेतिकर्तव्यतानतिरिक्तहवनक्रियानाममात्रार्थो विप्रकीर्णावयवकलापाकारा क्रियैव वाऽस्यार्थोऽसिद्धरूपो यथा घटयूपादि, तन्मात्रत्वात्तु तस्याः प्रकरणानुबन्धनात् हित्वा जुहोतिप्रयोगबाहुल्यं कृप्रकृतिलिङ्कर्तृता च दर्शयितव्येति यदग्नये च प्रजापतये च सायं जुहोति सद्धृतादिना स्वर्गकामः कुर्यादिति । तत्प्रतिपादनार्थमभिमतवाक्यार्थताऽस्यैवं स्यात् । 10 . (इदं वेति) इदं वाग्निहोत्रं जुहुयाद्यदग्नये च प्रजापतये च सायं जुहोति घृतेन जुहुयात् शूर्पण जुहोति तेन ह्यन्नं क्रियत इत्येवमादिविध्यनुवादार्थवादवाक्यगतो जुहोतिः श्रूयमाण उपस्थापनादीतिकर्तव्यतानतिरिक्तसेवनक्रियानामधेयमात्रार्थत्ववत प्राप्तिविहितेतिकर्तव्यतानतिरिक्तहवन क्रियानाममात्रार्थो विप्रकीर्णावयवकलापाकारा क्रियैव वाऽस्यार्थोऽसिद्धरूपो-न सिद्धरूपो यथा घटयूपादि, तन्मात्रत्वात्तु तस्याः क्रियायाः प्रकरणानुबन्धनात् , प्रकरणेनानुबन्धयन् वक्ता ब्रूते श्रोता च प्रतिपद्यते 16 क्रियामात्रमवश्यमनेन शब्देन कर्तव्यमित्येतावच्चोद्यत इति, तस्मात् क्रियामात्रत्वात् प्रकरणानुबन्धनात हित्वा-त्यक्त्वा जुहोतिप्रयोगबाहुल्यं-सर्वान् जुहोतिपदप्रयोगान् क्रियामात्रे प्रतिपाद्ये नान्तरीयकत्वात् कृप्रकृतिलिङ्कत्तता च दर्शयितव्येति, तत्प्रतिपादनार्थमभिमतवाक्यार्थताऽस्य स्यादेवं कल्प्यमाने । तन्निदर्शयति यदग्नये च प्रजापतये च सायं जुहोति तद्वतादिना स्वर्गकामः कुर्यादिति । एतावता तदर्थस्य सुगमत्वाज्जुहोतिप्रयोगबाहुल्यमप्रत्ययरटितमेव पुनरन्यत्रान्यत्र जुहुयात् जुहोतीत्यादि। 20
किश्चान्यत्
तद्वचनन्त्वप्रमाणनियमागमोऽनुपदेशकश्च विवेत्तुरपीति सम्भाव्यते, अप्रत्यवेक्षितार्थस्वात् पौर्वापर्ययोगाप्रतिसम्बद्धार्थत्वात् , घटितानुमतविध्वंसनाच्च उन्मत्तप्रलापवत् ।
विरुद्धार्थमापद्यते भवतः दनैव हवनाभ्युपगमादिति भावः, न त्वायुर्वेदादौ यथा नियमोपदेशस्तथा लोकेऽपीत्याह-न विति। अथ विध्यनुवादादिवाक्येषु सर्वत्र क्रियामात्रप्रतीतेः क्रियामात्रार्थत्वं सर्वेषां विप्रकीर्णानामवयवत्वेनाभिमतानाम् , ता एव 25 क्रियाः प्रकरणेनेकीकृत्य वक्त्रा क्रियामात्रमवश्यं कर्त्तव्यमित्येतावदेव विधीयते इत्युच्यते श्रोता च तथैव प्रतिपद्यते तथा च क्रियामात्रे प्रतिपादनीये तन्मात्रशक्तं कुर्यादित्येकपदमेव प्रयोज्यं तद्विहायानेकधा जुहुयादितिप्रयोगो निरर्थक एवेत्याहतन्मात्रत्वास्विति । अत्र मीमांसकाः जुहोतिपदबहुत्वं कमैकत्वख्यापनाय, धर्मभेदे शब्दान्तरस्यापि निमित्तत्वात् , अत . एवामिहोत्रं जुहोति अग्निहोत्रं जुहुयात् खर्गकामो दना जुहोति शूर्पण जुहोतीत्यादीनां न धर्मभेदकत्वम्, न चाङ्गेन क्रियामात्रेऽभिधातव्ये नान्तरीयको लिङन्तः कृञ् प्रयोक्तव्य इति वाच्यम्, भावनाबोधकलिव गतार्थतया कृमोऽप्यनर्थकत्वे 30 तुल्ये धर्मैकताज्ञापकजुहोतिप्रयोगस्यैव साधुत्वादिति सिद्धस्य गतिमाहुः । मूलकृद्भिस्तु मूल एव कुठारघातः क्रियते तदप्रामाण्यज्ञापनार्थमिति बोध्यम् । अथ विवेतारं प्रतीदं वाक्यं न कमप्यर्थ बोधयितुमीष्टेऽत एवानुपदेशकमित्याह-तवचनन्त्विति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org