________________
[ विधिविध्यरे
विषयत्वादनुबादस्य, अप्राप्तविशेष्यस्वार्थविषयत्वाद्धि वेदादिवाक्यगत एव तावज्जुहुयाच्छन्दोऽनुवादो . घटते प्राप्तत्वाद्यभावात् तस्यानुवादस्तु घृतेन जुहुया दित्यत्र जुहुयाच्छन्द इष्टः स्यात्, तत्प्रतिरूपकस्तस्यार्थप्रतिशब्दकस्यैवेत्यापन्नोऽप्राप्ताविशेषणापरार्थत्वाद् विधेर्विषयविप्रकृष्टीभूतार्थश्चेति ततश्च . विधिविषय विप्रकृष्टीभूतार्थत्वान्न कर्त्तव्यताविषयत्वमिति कर्त्तव्यतायाः, यथा दश दाडिमादि5 लोकावयवानाम् ।
१८८
"
द्वादशास्नयवक्रम्
किञ्चान्यत्
इति घटितविघटितमितिकर्त्तव्यतैव कर्त्तव्यतेति । ततश्च प्रतिसमाधेये विरुद्धतरदोषापादनं विधिविषयविप्रकृष्टीभूतार्थत्वादिति गण्डस्योपरि स्फोट आपादितः, ततोऽहमेव ते बुद्धिसंविभागं करोमि श्रूयताम् । लौकिकजुहोत्यर्थानुष्ठानप्रवृत्तोपदेश एव त्वयं परमनुवादः 10 स्यात् । स चानुपपन्ननियमार्थ उपदेशस्त्वदिष्टविरुद्धार्थः ।
( इति घटित विघटितमित्यादि ) यावद्गण्डस्योपरि स्फोट आपादित इति, इतिशब्दो हेत्वर्थे, यस्मादित्थं कर्त्तव्य विषय विप्रकृष्टत्वमिति कर्त्तव्यताया इत्यादिदोषजातं विध्यनुवादत्वाभावात्, तस्माद्घटितविघटितं प्रागीषद्ध दितमासीत् सेवादिवदितिकर्त्तव्यतैव कर्त्तव्यतेति, तदप्यनया प्राप्तिविहितस्वरूप सिद्धेरित्यादिकया कल्पनया विघटितमुक्तविधिनैव ततश्च प्रतिसमाधेये विरुद्धतरदोषापादनं 15 विधिविषयविप्रकृष्टीभूतार्थत्वादिति, ततश्च प्रतिसमाधेये तस्मिन्नेव वाक्ये ऽनुवादत्वाभावादवाक्यत्वमिति दोषदुष्टे तत्प्रतिसमाधानार्थमुच्यते त्वया अहो ! परमविदुषा चिकित्सकेनानपेक्षितपूर्वापरक्रियाविधिविपाकेन चिकित्सयेव गण्डस्योपरि स्फोट आपादितः, तस्मादप्रसिद्धार्थत्वान्न मौलो जुहोति -
तवानुवादो घटते । यदि भवतो घृतेन जुहुयादित्यस्यानुवादत्वमिष्टं ततोऽहमेव ते बुद्धिसंविभागं करोमि श्रूयताम्, लौकिक जुहोत्यर्थानुष्ठानप्रवृत्तोपदेश एव त्वयं परमनुवादः स्यात्, लौकिको 20 हि दानादनार्थो जुहोतिः, तदर्थानुष्ठानप्रवृत्तोपदेशो यद्यस्य विषयः स्यादद्यादद्यादिति तदर्थप्रसिद्धेस्तद्विषयोऽनुवादो युज्यते, विधिर्वा यस्मै कस्मैचित्, यदि किञ्चिद्दद्यात्तदा घृतं दद्यात् तेन जुहुयात्, यदि भुञ्जीत घृतेन जुहुयादित्येतस्मिन्नर्थेऽनुवादो घटते स चानुपपन्ननियमार्थ उपदेशः, समीकृत्य व्याख्यातोऽर्थोऽस्य शब्दस्य मया, तथापि पुनस्त्वदिष्टविरुद्धार्थमेतदापद्यते, लोकेऽनुपपन्ननियमो - पदेशार्थत्वदर्शनात्, विचित्रयोर्दानभोजनयोः स्वपर प्रीतिहेतुत्वात्, यथोपपत्तिर्धृतेन पयसा दध्ना
Jain Education International 2010_04
25 माबिभर्त्ति विधिविहितस्यैवानुवादताऽभ्युपगमेन कर्तव्यतायाश्चार्थापन्नत्वेन विधिविहितत्वाभावादत एव चाप्रसिद्धत्वं विधेरिति तस्य प्राप्तत्वाद्यभावान्न कर्तव्यताविषयत्वमिति कर्त्तव्यताया इति स्यादभिप्राय इति भासते । ननु विध्यनुवादत्वासम्भवेन कर्त्तव्यता विषय विप्रकृष्टत्वादितिकर्तव्यताया इत्यादिदोषसम्भवेन एतत्कल्पना किश्चित्संघटितार्थपूर्वकल्पनापेक्षयाऽति जघन्येत्याहइतीति । दभा जुहुयादित्यत्र जुहुयाच्छब्दो न भवदुक्तविधिनानुवादः किन्त्वहं प्रतिपादयामि तस्यानुवादत्वमित्याह यदि भवत इति । लोके हि जुहोतिर्दानेऽदने च वर्त्तते तदर्थानुष्ठाने प्रवृत्तं प्रति यदीदमुपदेशः स्याद्दद्यात् अद्यादिति तदा तदर्थस्य प्रसि30 स्य दना जुहुयादित्यस्यानुवादता विधानं वा युज्यते यथा यदि भवान् यस्मै कस्मैचित् किञ्चिद्दद्यात्तर्हि घृतं दद्यादिति वक्तव्ये घृतेन जुहुयादिति वदतु, तथा यदि किञ्चिद्भुजीत स हि घृतं भुञ्जीतेति वक्तव्ये घृतेन जुहुयादिति वदतु तथा च जुहुयादित्यनुवादः स्यादिति भावः । न चेष्टापत्तिः कर्त्तुं शक्यते भवतेत्याह- तथापि पुनरिति । कारणमाह-लोक इति । लोके छुपदेशो न नियमितार्थो भवति घृतेनैव भुजीतेति । किन्तु बुभुक्षा चेद्यथाभिलषितं घृतेन दना गुडेन वा भुञ्जीतेत्युपदेशः । एतच्चा
1
For Private & Personal Use Only
www.jainelibrary.org