________________
अनुषादत्वाभावः] न्यायागमानुसारिणीव्याख्यासमेतम् र्थविषयानुषदनाच, किं संवृत्तं ? वाक्यभेदस्य पुनरुक्तस्य चाङ्गीकरणम् , न हीदमेव वा स्वर्गकामाभिसम्बद्धाग्निहोत्रं विधानं तदनुवदनश्च कत्तुं शक्नोति स्वर्गकामकर्तृकस्याग्निहोत्रकर्मणो वाक्यान्तरेणाप्रापितत्वात, यथाऽसौ देवदत्त इत्यत्र तु देवदत्त एवानूद्यते विधीयते च, प्रत्यक्षप्रसिद्धस्त्वदसो विषयोऽनुद्यते, एवमिह प्रसिद्धार्थापेक्षया स तु नास्ति, तस्मादुभयार्थकल्पनादेकस्य तदसम्भवाच वाक्य. भेददोषः, पौनरुत्त्यन्तु विशेषविधानाभावात् । विशेषविध्यर्थो ह्यनुवादो युक्तो यथाऽयं देवदत्त । इत्ययंशब्देन स्वप्रत्यक्षप्रसिद्धार्थमनूद्य देवदत्तविधानम् , न तु तथाऽत्र कश्चिद्विशेषो विधीयते तस्मादविशेषाभिधानात् पौनरुत्तयम् । तस्मादग्निहोत्रं जुहुयादित्यस्य वाक्यस्य प्रथमत्वादेकवाक्यगतत्वाच्चानयोर्विध्यनुवादयोरापन्नाग्निहोत्रकर्मविधित्वे जुहोतेरनुवादत्वे वाक्यभेदपुनरुक्तदोषाङ्गीकरणान्नेत्येवाभिसम्बध्यते । एवं तावदग्निहोत्रं जुहुयादित्यत्र जुहुयाच्छब्दो नानुवादो घटते, न वाऽग्निहोत्रं स्वर्गकाम इति विधिः।
10 किश्चान्यत्
अनुवादस्य च प्राप्तविशेषणपरार्थविषयार्थत्वादनुवादत्वाभावः। “(अनुवादस्य चेति) अनुवादत्वं हि प्राप्तविषयार्थम् , यथाऽयं देवदत्त इत्ययंशब्दार्थः प्राप्त्यर्थप्राप्तो देवदत्तार्थोऽधुना प्रापणीयः । एवं प्रसिद्ध्यप्रसिद्धिभ्यां विशेषणविशेष्यौ, तावेवोपकारकोपकार्यस्वाभ्यां परार्थस्वार्थों, न तथाऽग्निहोत्रं जुहुयादित्यत्र प्राप्तविशेषणपरार्थविषयत्वमग्निहोत्र- 15 जुहुयाच्छब्दयोः, अतोऽप्राप्ताविशेषणापरार्थत्वसाम्यादनुवादत्वाभावः ।
अभ्युपगम्यापि प्राप्तादि दोष उच्यते
यत्पश्चादुच्यते कर्त्तव्यताप्रसिद्ध्यर्थमितिकर्तव्यतावाक्यं धृतेन जुहुयादिति, तस्य विधिविषयविप्रकृष्टीभूतत्वान्न कर्त्तव्यताविषयत्वम् ।
(यदिति) यत्पश्चादुच्यते कर्त्तव्यताप्रसिद्ध्यर्थमितिकर्तव्यतावाक्यं घृतेन जुहुयादिति, 20 तस्य विधिविषयविप्रकृष्टीभूतत्वं जुहुयाच्छब्दस्यानुवादाभिमतस्य, किं कारणम् ? प्राप्तविशेषणपरार्थ
यमानेति । पौनरुक्त्यं सङ्गमयति-न हीदमेवेति, अग्निहोत्रं जुहुयादिति वाक्यमेव खर्गफलकामिहोत्रविधानं तस्यैव चानुवदनं कतुं शक्नोति, अग्निहोत्रविधेर्वाक्यान्तरेणाप्राप्तत्वात् , अप्राप्तं हि नानूद्यते प्राप्तञ्च न विधीयत इति नियमः । असौ देवदत्त इत्यत्र तु प्रत्यक्षप्रसिद्धमेवादःशब्देनानूध देवदत्तत्वं विधीयत इत्येकस्यैव वाक्यस्योभयमुपपद्यते, प्रकृतवाक्यस्य तु अनूद्य किश्चित् कस्यचिद्विधेयस्याभावानोभयरूपतेत्युभयरूपताङ्गीकारे च वाक्यमेद एवेति भावः । तथा वाक्यमेदानीकारेऽपि 25 विधेयस्य कस्यचिदभावात् पुनरुकतेल्याह-पौनरुत्यन्विति । विधिविहितस्य पुनरनुवादः स्तुत्यर्थ निन्दार्थमङ्गविशेषविधानार्थमानन्तर्यप्रकाशनार्थ वानुवादः क्रियते, यथाऽश्वमेधेन यजेतेति विधाय तरति मृत्यु तरति पाप्मानं योऽश्वमेधेन यजेतेति स्तुत्यर्थ, उदिते जुहोतीत्यादि विधाय श्यावोऽस्याहुतिमभ्यहरति य उदिते जुहोतीति निन्दार्थ, अग्निहोत्रं जुहोतीति विधाय दना जुहोतीति दध्याद्यविशेषविधानार्थ, दर्शपूर्णमासाभ्यो यजेत, सोमेन यजेतेति पृथक् पृथक् विधाय दर्शपूर्णमासाभ्यामिष्टा सोमेन यजेतेति आनन्तर्यप्रकाशार्थ तस्य तस्यानुवादः क्रियते, प्रयोजनव्यतिरेकेण च पुनर्वचनेऽनुवाद एव न स्यात् 10 पुनरुक्तिरेव स्यादित्याशयेनाह-अनुवादस्य घेति । अनुवादः प्राप्तविषयो विशेषणविषयः परार्थविषयश्च भवति, प्रसिद्धत्वात्, अग्निहोत्रजुहुयाच्छन्दयोश्चन तथेत्यनुवादत्वाभाव इति भावः। अथ प्राप्तविशेषणपरार्थविषयत्वमभ्युपगम्यापि दोष आह-यत्पधादुच्यत इति । विधिविषयेति, दमा हुमादित्यत्र जुहुयाच्छन्दो विधेयों विषयस्तस्मादत्यन्तं विप्रकृष्टत्वाचानुवादता
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org