________________
द्वादशारनयचक्रम्
[विधिविध्यरे ततश्चानुवादत्वासम्भवात्तस्मादनुवादासम्भवात्तन्नेत्यभिसम्बन्धः । इदश्च पुनरुक्तमपन्नस्य पुनर्वचनलक्षणः पुनरुक्तनिग्रहस्थानविकल्पः। द्विविधं पुनरुक्तं निग्रहस्थानम् , तद्यथा 'शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्' 'अर्थादापन्नस्य स्वशब्देन पुनर्वचनं' (गौ. अ. ५ आ.२ सू. १४-१५) इति, तस्मादिदमर्थादापन्नस्य पुनर्वचनं विशेषविधानमन्तरेणार्थापनार्थस्य स्वशब्देनोच्चारणात् । घृतेन जुहु5 यादित्यत्र न स्यात् पुनरुक्तम् , घृतविशिष्टहवनविधानात् । इह तु स्वर्गकामानुरूपकर्मानुरूपक्रियाविशेषविध्यर्थताया उपदेशवृत्तेरेव गतार्थतयाऽभ्युपगतत्वात् । घृतविशिष्टहवनविधानजुहोत्यनुवादतायाश्च मूलवाक्यगतजुहोत्यासिद्धेरननुवादतैव ।
किश्चान्यत्
जघन्यतरा चेयं व्याख्या, साक्षाच्छ्रुतविधेर्जुहुयात्त्यागेन चार्थापनार्थाश्रुतानूदितजुहु10 याद्विकल्पनात् स एव पुरुषप्रमाणकत्वदोषः शब्दाप्रामाण्यदोषश्च ।
(जघन्यतरेति) जघन्यतरा चेयं व्याख्या, कस्मात् ? साक्षाच्छ्रुतविधेर्जुहुयात्त्यागेन चार्थापन्नार्थाश्रुतानूदितजुहुयाद्विकल्पनात् स एव पुरुषप्रमाणकत्वदोषः शब्दाप्रामाण्यदोषश्च । जुहुयादित्यस्य क्रियाशब्दस्य विध्यर्थस्य साक्षाच्छ्रुतस्य प्रत्यक्षस्य त्यागं कृत्वाऽर्थापन्नार्थस्य-अर्थादापन्नोऽर्थोऽस्येत्यर्था
पन्नार्थः, कोऽसौ ? स एव जुहुयाच्छब्दोऽनुवादाभिमतः, तस्याश्रुतस्यार्थापनार्थस्यानूदितविकल्पनात्15 अनुवादकल्पनात्तन्नातिवर्तते ।
किश्चान्यत्विधीयमानवाक्यार्थविषयानुवदनाच वाक्यभेदस्य पुनरुक्तस्य चाङ्गीकरणात् ।
(विधीयमानेति) विधीयमानो वाक्यार्थो विधीयमानवाक्यार्थः स विषयोऽस्येति विधीयमानवाक्यार्थविषयः स एव जुहुयाच्छब्दस्तस्यैवानुवदनं स एवानुवादस्तस्मात् विधीयमानवाक्या20 सिद्धत्वादतो नानुवादत्वमिति भावः। द्विविधमिति, उक्तस्य पुनर्वचनलक्षणमेकमर्यादापन्नस्य पुनरभिधानमपरमिति द्विविधमित्यर्थः अन्यथा पूर्वमुक्तशब्दस्यैव पुनर्वचनमेकं पूर्व येन शब्देन योऽर्थ उक्तस्तस्यान्यशब्देनाभिधानरूपमपरम् , अर्थादापन्नस्याभिधानलक्षणमन्यदिति त्रिविधं पुनरुक्तं स्यादिति । शब्दार्थयोरिति, शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादादिति गौतमसूत्रम्, अन्यत्रानुवादाच्छन्दपुनरुक्तमर्थपुनरुक्तं वा भवति, नित्यःशब्दो नित्यः शब्द इति शब्दपुनरुक्तं, अनित्यः शब्दो निरोधधर्मको ध्वनिरित्यर्थपुनरुक्तम् , अनुवादो न पुनरुक्तम् ग्रामोग्रामो रमणीयः पचतु पचतु भवानिति, चैत्रो ब्रह्मचारी
ति शब्दार्थपुनर्वचनयोरपुनरुक्ततया व्यवहारादिति सूत्रार्थः । अर्थाटापन्नस्येति, अथोदापन्नस्यापि खशब्देन शब्दान्तरेण वा पुनर्वचनं तृतीयं पुनरुक्तं यथाऽसत्सु मेघेषु वृष्टिर्न भवतीत्युक्तेऽर्थादापद्यते सत्सु भवतीति, तन किमर्थं खकण्ठेन पुनरुच्यते, अर्थप्रतीत्यर्थो हि शब्दप्रयोगः प्रतीतेऽर्थे किं तेनेति सूत्रार्थः । घृतेन जुहुयादिति, न ह्यत्र जुहुयाच्छन्दः पुनरुकः, विशेषविधायकत्वात् , घृतविशिष्टं हवनं हि तत्र विधीयत इति सार्थकं तत्पदमिति भावः । इह विति, अग्निहोत्रं जुहुयात् खर्गकाम इत्यत्र तु वर्गकामानुरूपविशिष्टामिहोत्रकर्मानुरूपविशिष्ट क्रियाविशेषविधेर्जुहुयादित्यस्योपदेशगत्यैव गतार्थत्वाजु. 30 हयात्पदं पुनरुकमेव, न वा घृतेन जुहुयादिति वाक्यविहितजुहोत्यनुवादताऽस्य सम्भवति, तस्याङ्ग विधिरूपतयाऽमिहोत्रवाक्य
स्याङ्गिविधित्वेनागवाक्यश्रुतजुहोतेरङ्गिवाक्येनानुवादतायाः क्वाप्यनभ्युपगमादिति भावः । अथ त्वदुक्तेयं व्याख्याप्रकारो न .सङ्गतिमङ्गति, अग्निहोत्रं जुहुयादिति श्रुतजुहोतिविधेस्त्यागात्, अर्थापन्नाश्रुतविध्यनुवादताङ्गीकारादित्याह-जघन्यतरा चेय. मिति। तथाङ्गीकारेऽप्युत्तरोत्तरविरोधपरिहारविचारात्मकतोश्रयणतोऽर्थनिर्वर्णनात् पुरुषप्रमाणकवादः प्राप्तः, तस्य च रागादि
मत्त्वेन तत्सम्बन्धादग्निहोत्रादिवाक्यानामप्रामाण्यप्रसङ्ग इत्याह-स एवेति । तन्नातिवर्त्तते इति, अग्निहोत्रादिवाक्यं 35 पुरुषप्रमाणकस्बदोषमप्रामाण्यदोष नातिवर्तत इमर्थः। भवानवादाशीकारे वाक्यमेदपुनरुतदोषावप्यापयेते इत्याह-विधी
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org