SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ अर्थापत्तिनिरासः] न्यायागमानुसारिणीव्याख्यासमेतम् १८५ व्यापारविशेषोऽपि विशिष्टोऽप्रसिद्ध एवेति गम्यते । किं कारणम् ? तत एव शब्दात् तस्य क्रियाविशेषस्य गते क्यान्तराभावात्तद्विशेषगतिरतः क्रियाविशेषगतेः क्रियाप्राप्यत्वाच्च कामस्य, न ह्यन्यः कश्चिदुपायोऽस्ति कामप्राप्तौ क्रियातः, क्रियया शब्देन वा तदर्थावगमनात् । यथा त्वलकस्य वीथीमध्यपतितस्य हस्तं प्रसार्य कपर्दिकां देहि कपर्दिकां देहि भो ! इति वा रारट्यमानस्य कामोऽवगमितः क्रियया शब्देन वा प्रकरणविशेषसम्बन्धात् , सा च क्रिया नोपदेशमन्तरेण सिद्ध्यति, अलका- 5 वगमितकामरटनवदग्निहोत्रं स्वर्गकाम इत्युक्ते कुर्यादित्यर्थादापन्नो विध्यर्थोऽवगमितकामत्वात् , तस्यालकस्य यो वाऽर्थः स च विशेषसम्बन्धो वाक्यन्यायेन भवति । यथा सब्रह्मचारिणा सहाधीत इति समानेन ब्रह्मचारिणाऽधीते, केन सामान्येन समानेन ? प्रकृतविशेषणत्वात् , प्रकृताध्ययनक्रिययेति गम्यते, एवमिदमपि वाक्यम् , अनेन वाक्यन्यायेन प्रकृतस्वर्गकामाग्निहोत्रकर्मानुरूपविध्यर्थक्रियोपदेशताऽस्येति गम्यते, अतो हेतुहेतुमद्भावः प्रतिपादितः । प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्येत्यादि 10 यावज्जुहुयादित्यर्थापनार्थोऽनुवादोऽग्निहोत्रं स्वर्गकाम इत्येतावता कुर्याद्वाक्यशेषेण वाक्येन गतार्थत्वात् , तदेवं जुहुयादित्यनुवादो न विधिरितीयं व्याख्या न्याय्या, व्यक्तार्थोपपत्तित्वात् , प्रागभिहितव्याख्याविकल्पसमुत्थदोषाभावाच्च न्याय्येति मन्तव्या, यस्मादादिवाक्ये प्रधानश्रुत्यत्यागगुणकृदपीति, यदभिहितं प्रागग्निहोत्रं जुहुयादित्यस्य वाक्यस्याग्निहोत्रं कुर्यादित्यर्थव्याख्याविकल्पे विध्यर्थवाचित्वाभिमतश्रुतप्रधानजुहोत्यर्थत्यागस्ततः पुरुषप्रमाणकता, तदत्यागे वाक्यभेदापत्तिः पौनरुक्त्यादिदोषजातं तद-15 प्यत्र नास्ति, जुहुयाच्छब्दस्यानुवादत्वादेव हवनं कुर्यादित्यत्राप्यनिहोत्रप्रधानत्याग इत्यादि यहोषजातं तदपि नास्ति, तस्मादियं व्याख्याऽदिवाक्ये प्रधानश्रुत्यत्यागगुणकृद्पीति, तस्य जुहोतेरनुवादत्वेन पौनरुक्त्यत्यागभेदाद्यभावात् , चेदित्याशंकायाम् , एवं चेन्मन्यसे । इत्येवं ब्रुवन्तं परं दृष्ट्वाऽऽचार्य उत्तरमाहतन्न, अर्थापत्तेः पौनरुक्त्यादनुवादत्वासम्भवात् । 20 तन्नार्थापत्तरित्यादि, एषाऽपि व्याख्या नोपपद्यते, किं कारणं १ पौनरुक्त्यात् प्रयोगायोग्यत्वं लभ्यते तदर्थस्यैव च जुहुयाच्छब्दोऽनुवदतीत्यभिप्रायमाचष्टे-इदं तावदिति । क्रियया शब्देन वेति, क्वचित् क्रिययेष्टमवगम्यते कचिच्च शब्दात् यथा मार्गमध्यपतितालकस्य हस्तप्रसारणादिक्रियया कपर्दिका देहीति शब्देन प्रकरण. विशेषविशिष्टेन वा तदिष्टमवगम्यते तथेति भावः । वाक्यन्यायेनेति, तत्तत्पदैस्तत्तत्पदार्थानामुपस्थितौ विशेषणत्वादिविशिष्टस्यार्थस्य पदार्थसंसर्गरूपस्य बोधो वाक्याद्भवति, यथा चैत्र! नीलं घटमानयेत्यत्र चैत्र इत्येतावन्मात्रोक्तो को निर्दिष्टः 25 कर्मक्रियागुणाश्चानिर्दिष्टाः, घटमित्युक्ते कर्म निर्दिष्टं कर्तक्रियागुणा अनिर्दिष्टाः, आनयेत्युक्त क्रिया निर्दिष्टा कत्र्तकर्मगुणा अनिर्दिष्टाः नीलमित्युक्तौ गुणो निर्दिष्टः, कर्तकर्मक्रिया अनिर्दिष्टाः। चैत्र नीलं घटमानयेत्युक्तौ तु चैत्र एव को नान्यः घटएव कर्म नान्यत् , आनयैव क्रिया नान्या नील एव गुणो न कृष्णादिः, एवं पदानां सामान्ये वर्तमानानां यद्विशेषेऽवस्थानं स वाक्यार्थ । इति वाक्यन्यायः। केन सामान्येनेति, समाने साधारणे ब्रह्माणि वेदे यो व्रतं चरति स सब्रह्मचारी चरणं शाखा वेदस्य, तत्समानत्वे गम्ये 'चरणे ब्रह्मचारिणीति सूत्रेण निपातः सामान्यञ्च तदध्येयतुल्याध्ययनत्वेन, अत्र के सब्रह्मचारिणोऽस्येति प्रश्ने 30 कठा इत्युक्ते सम्बन्धादेतद्गम्यते नूनमयमपि कठ इति तथाऽयं कठ इत्युक्ते सम्बन्धादेतद्गन्तव्यं नूनं तेऽपि कठा इति, एवमिदमपि वाक्यमिति भावः । प्रागभिहितव्याख्यासूपन्यस्तदोषा अत्र न संजाघटन्तीत्याह-यदभिहितमिति। तदत्यागेश्रुतप्रधानजुहोत्यात्यागे। अर्थापत्तेरिति, व्याख्येयं प्रत्याख्येया पौवरुक्मप्रसङ्गात्, स-कथमिति चेदांपत्तेः अर्यापति.. द्वा.न. १४ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy