________________
5
10
द्वादशारनयचक्रम्
[ विधिविध्यरे
विशेषलिङ्गाभावात् कुत एवं ज्ञायते जुहोत्यर्थे जुहुयाच्छन्दः प्रयुक्तो न स्वार्थ एव, - जुहोतिर्वा जुहुयादर्थे प्रयुक्त इति, तस्मादविदितार्थत्वाद्विधित्वं विधित्वाच्च नानुवादोऽननुवादत्वाश्चैवमपि न युक्तम् । अभ्युपेत्यापि जुहोत्यर्थे जुहुयाच्छब्दस्य वृत्तिं दोषं ब्रूमः -
१८४
15
हवनाच्च भावनमेवमनवगमितमेवाभिप्रेतस्य स्यात् ।
( हवनाच्चेति, ) विध्यर्थाभावात् पुरुषो हवनकर्मण्यनियोजित एव, ततो भावनं स्वर्गाख्यस्य विशिष्टसुखलक्षणस्य देशविशेषस्य विशिष्टसुखसाधनभूततयाऽभिप्रेतस्यार्थस्य भावबोधकं स्यात्, यदर्थमितिवृत्तमिदं वाक्यं स्वर्गाख्यफलसाधनेऽग्निहोत्रकर्मणि पुरुषं नियोक्ष्यामीति, तदर्थं हि वाक्यमनिहोत्रं जुहुयादित्येतत्प्रवृत्तमनेनैव कर्मणा स्वर्गो भाव्यते तस्मादिदं कुर्विति, तदर्थज्ञापनाभावे किमनेन वाक्येन जुहोतीत्युक्तेन । अत्राह
प्रागभिहिताग्निहोत्रकरणवाक्यार्थविकल्पगतदोषपरिहारार्थमियमर्थव्याख्याऽऽश्रीयते—
प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्य स्वर्गकामकर्मत्वाभिधानादवगमितकामानुरूपकर्मण उक्तत्वादेव तद्विधक्रियाविशेषगतेः क्रियाप्राप्यत्वाच्च कामस्य अलकावगमितकामरटनवत् कुर्यादित्यर्थादापन्नो विध्यर्थ इति जुहुयादित्यर्थापन्नार्थोऽनुवाद इतीयं व्याख्या न्याय्या, व्यक्तार्थोपपत्तित्वात्, आदिवाक्ये प्रधानश्रुत्यत्यागगुणकृदपीति चेत्,
प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्येत्यादि, इदं तावद्व्यवस्थितं यद्मये च प्रजापतये च सायं जुहोतीत्यनया प्रात्या विहितमग्निहोत्रस्य स्वरूपं सिद्धम्, अतः प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्य कर्मत्वेन च श्रवणात्, कस्य ? कर्तुः स्वर्गकामस्य कर्मत्वाभिधानात् ततः किमिति चेत् ? स्वर्गशब्दाभिहितविशिष्टकर्मविषयकामाभिधायिशब्दश्रवणात् कर्मापि तदग्निहोत्राख्यं तदनुरूपं विशिष्टमेवेत्युक्तं भवति, अतः स्वर्गकामकर्मत्वाभिधानादवगमितकामानुरूपकर्मोक्त स्वर्गकामशब्दावबोधनेन कामानुरू20 पस्यैव कर्मण उक्तत्वादेव तद्विधक्रियाविशेषगतेर्विशिष्टफलविषयकामः पुरुषः कर्त्ता, कर्मापि तदनुरूपत्वाद्विशिष्टमेव तद्विधैव, क्रियापि अप्रसिद्धफलविषयकाम सम्बन्धिकर्मा, अप्रसिद्धं यथातथावदनुष्ठान
प्रयुक्त इत्यत्र विनिगमनाविरह इति भावः । सर्वत्र जुहुयाच्छन्दस्य जुहोत्यर्थत्वाङ्गीकारे च दोषमादर्शयति-हवनाच्चेति, अमहोत्रं जुहुयादित्यत्रापि यदि जुहुयाच्छन्दो जुहोत्यर्थः तदा सिद्धार्थबोधकत्वेन साध्यं न किश्चिदर्थं बोधयेत्, अतो न तेन वाक्येन किञ्चित्प्रयोजनमिति किन्तेन वाक्येनेति भावः । भावनमिति । धात्वर्थ इत्यर्थः, न तु प्रेरणालक्षणो भावना 25 तद्बोधकलिङाद्यभावात् एवञ्चैतद्वाक्यं सुखविशेषरूपस्वर्गस्य देशविशेषरूपस्वर्गस्य वा विशिष्टसुखसाधनरूपस्य सद्भावमात्रं गमयेन्न तु पुरुषमग्निहोत्रादिकर्मणि प्रयोजयेदिति व्यर्थतैव तादृशवाक्यानामिति भावः, अथवा तु भावनं पुरुषप्रवृत्त्यनुकूलव्यापारविशेषः, तथाविधवाक्यश्रवणादिदं मां प्रवर्तयति मत्प्रवृत्त्यनुकूलव्यापारव दिदमिति नियमेन प्रतीतेः एवञ्च यदीदं वाक्यं पुरुषं न प्रवर्तयतीति ततो निरर्थकमिति । नन्वग्निहोत्रं जुहुयात् स्वर्गकाम इतिवाक्यस्याग्निहोत्रं कुर्यात् स्वर्गकाम इत्यर्थपरत्वं नोच्यते येन जुहोत्यर्थत्यागादिदोषाः प्रागुक्ता भवेयुः, किन्तु अर्थापनार्थानुवादत्वं जुहुयाच्छन्दस्येत्युच्यत इत्याशयेन पूर्वपक्षी 80 प्राह-प्राप्तिविहितेत्यादिना । अथाग्निहोत्रं स्वर्गकाम इत्येवोच्यतां तत्रानिहोत्रस्वरूपं यदनये च प्रजापतये चेति प्राप्तिवाक्येन सिद्धं तच्च स्वर्गकाम पुरुषस्य कर्मत्वेनाभिहितम्, विशिष्टकर्मसाध्यस्वर्गशब्दवाच्य फलविशेषकामनाबोधकखर्गकामलक्षणशब्दश्रवणात् तदप्यग्निहोत्रं कर्मविशिष्टमेव, स्वर्गकामशब्दाव गमितकामानुरूपत्वात्, तथाविधं विशिष्टं कर्म न विशिष्टां क्रियामन्तरेणेति क्रियाविशेषस्य गमकम्, क्रियां विना तथाविधेष्टप्राप्त्यसम्भवात्, सापि क्रिया नोपदेशमन्तरेति कुर्याच्छन्दोऽर्था
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org