________________
जुहोतेरविधायकता] न्यायागमानुसारिणीव्याख्यासमेतम्
१८३ यथा द्वे विद्ये वेदितव्ये इति ह स्म यब्रह्मविदो वदन्ति परा चैवापरा च। अथ परा यथा तदक्षरमधिगम्यते । यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्म तदव्ययं यद्भूतयोनि परिपश्यन्ति धीराः' (मुण्डक० १ मु० १ खं० ४-५-६ सू० ) इतीयमक्षरविद्या कचिदगतार्थेति विज्ञायते अप्रमत्तप्रयुक्तत्वात् , तथाऽयमपि जुहोतिप्रयोगो नान्यथा, तद्यदि प्राप्तिप्रापितदानार्थोऽग्निहोत्रं जुहुयादित्यत्र होत्रशब्दो जुहोतिशब्दो वा ततोऽयं घृतेन जुहुयादिति । पुनर्जुहोतिर्न प्रयुज्येत, प्रयुक्तस्तु तस्मात् प्राप्तिय॒दस्तेति ।
एवं तर्हि
प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति चेन्न तत्र विधिलिविषयस्यावृत्तेरज्ञातत्वात् । विध्यनुवादस्य तद्विषयतेति चेन्न, अज्ञातत्वादेवाननुवादत्वात् , कुत एवं ज्ञायते जुहोत्यर्थे जुहुयाच्छब्दः प्रयुक्तो न स्वार्थे इति ।
10 (प्राप्तीति) स्यान्मतं प्राप्तिवाक्येऽग्नये जुहोतीति श्रुतस्याग्निसम्प्रदानकस्य दानार्थस्य जुहोते. रनुवादोऽयं घृतेन जुहुयादिति जुहोतिरित्येतच्च न, तत्र विधिलिविषयस्यावृत्तेरज्ञातत्वात् ,-नैवमप्युपपद्यते तत्र-प्राप्तिवाक्ये जुहोतीत्यव्यापार्यमाणकर्तृसाधनदानार्थजुहोतिधातुप्रयोगस्य विधिलिङो विषये व्यापारणार्थे वृत्त्यभावात् , अस्य च जुहुयाच्छब्दस्य विधिलिविषयस्य नियोगार्थस्य नियोगरहिते जुहोतिशब्दार्थे तत्रावृत्तेरयं विधानार्थो न विदित एव, तस्मादज्ञातत्वात् प्राप्तिवाक्यवृत्तजुहोत्यर्थानु-15 वादायोग्यता, प्राप्तमनूद्यते, अप्राप्तश्च विधीयत इति वचनात् , तस्मादनुवादायोग्यत्वादयुक्तमुक्तं प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति । विध्यनुवादस्य तद्विषयतेति चेत् स्यान्मतं लक्षणशास्त्रेऽभिहितं 'व्यत्ययो बहुलम्' (पा० ३।११८५) 'सुप्तिङपग्रहलिङ्गनराणां कालहलचस्वरकर्तृयङाश्च । व्यत्ययमिच्छति शास्त्रकदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥' (पा० म० भा० ३।११८५ सूत्रे ) तस्माज्जुहोत्यर्थे जुहुयाच्छब्दस्य प्रयोगात् प्राप्तमेवानूद्यते तद्विषयत्वादेवास्यापीति । एतदपि न, अज्ञातत्वादेवाननुवा- 20 दत्वात् , सव्यापारणार्थशब्ददर्शनान्निापारणार्थत्वाच्च, इदं त्वया सन्निहितदेवताकोशपानेन प्रत्याय्यं
प्रयुज्येत प्रयुक्तश्चातो विज्ञायते वाक्यान्तरप्राप्तदानार्थः परित्यक्त इति निगमयति-तद्यदीति । ननु घृतेन जुहुयादिति वाक्यघटको जुहोतिः प्राप्तिवाक्यश्रुतजुहोतेरनुवादक इत्याशङ्कते-प्राप्तीति । प्राप्तिवाक्ये जुहोतिपदं श्रूयते न तु जुहुयात् पदम् , तस्मान्न तत्पदं विधायकमित्युत्तरयति-तत्रेति । यदग्नये च प्रजापतये च सायं जुहोति इति प्राप्तिवाक्ये केवलं जुहोतिपदमव्यापार्यमाणकर्तृके दानार्थ एव वर्त्तते नतु विधिलिक्विषये व्यापारणार्थकर्तृके, घृतेन जुहुयादित्यत्र जुहुयाच्छ- 25 ब्दश्च व्यापार्यमाणकर्त्तके वर्तते. न तु जुहोत्यर्थे. एवञ्च प्राप्तिवाक्येन विधेरज्ञातत्वान्न जुहयाच्छन्दस्तदनुवादक इत्याह-प्राप्तिवाक्य इति । प्राप्तिवाक्यघटकजुहोतेर्व्याकरणशास्त्रेण व्यापार्यमाणकर्तृकेऽर्थे वृत्तित्वं विज्ञायत इत्याशङ्कते-स्यान्मतमिति लक्षणशास्त्र-शब्दलक्षणप्रतिपादके शास्त्रे। सुप्तिङपग्रहेति, छन्दसि शास्त्रकृतः सुपां तिकां परस्मैपदानामात्मनेपदानां लिङ्गस्य पुरुषस्य कालस्य वर्णादेश्च व्यत्ययमिच्छन्ति स च बहुलाधिकारात् सिद्ध्यतीति वृत्तार्थः। तद्विषयत्वादेवेति, यदनये चेति वाक्यघटकजुहोतिविषयत्वाद्धतेन जुहुयादिति वाक्यघटकजुहुयाच्छब्दस्यत्यतोऽनुवादत्वं युज्यत इति भावः । 30 तन्निराकरोति-एतदपि नेति, जुहोतीत्यस्य जुहुयात्परत्वज्ञानोपायवैधुर्याज्जुहुयात् पदमेव विधायकं न त्वनुवादकमित्याह-अज्ञातत्वादेवेति । सव्यापारणेति, घृतेन जुहुयादिति प्रेरणार्थकजुहोतेर्दर्शनात् , यदग्नये च प्रजापतये च सायं जुहोतीति निर्व्यापारणार्थकजुहोतिशब्ददर्शनाचेत्यर्थः। तथा च जुहुयाच्छब्दो जुहोत्यर्थे जुहोतिशब्दो वा जुहयादर्थे
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org