________________
१८२ द्वादशारनयचक्रम्
[विधिविध्यरे व्यता विधीयेत ? तथाऽप्रसिद्धरविधायक एव, कुतस्तदनुवादः ? इतिशब्दो हेत्वर्थे, तथा तेन प्रकारेण दाहनार्थत्वेनाप्रसिद्धरग्निहोत्रं जुहुयादित्यत्रैव तावज्जुहुयाच्छब्दो दाहनस्याविधायको नात एवानुवादः । अत्रैव ननु सेवादिवत् कर्त्तव्यताप्रतिपत्तिरितिकर्तव्यताभ्य इत्युपक्रम्य ग्रन्थो योज्यो यावद्वेवादासाधुता वा तद्वदिति । एवं तावजुहुयाच्छब्दस्य दाहनार्थत्वाभावादयुक्तम् होत्रशब्दस्य वा । 5 तथाभूतार्थाभ्युपगमे च प्राप्तेढुंदासः, घृतेन जुहुयादित्यत्र जुहोतिप्रयोगात् । यदा वाऽयं घृतेन जुहुयादिति प्रयुज्यते तदा ह्ययमगतार्थ इति विज्ञायेत, अप्रमत्तप्रयुक्तत्वात् , इषे त्वादिवत् , अथवाऽक्षरविद्यावत्।
तथाभूतार्थाभ्युपगमे चेति, अभ्युपेत्यापि दाहनात्मकमेव दानमिति दोषं ब्रूमः, कोऽसौ ? प्राप्तेयुदासः, येयं प्राप्तिर्यदग्नये च प्रजापतये च सायं जुहोतीति यया प्रापितमग्नौ प्रक्षेपो दानमिति तस्याः 10 प्राप्तेढुंदासः, कस्मात् ? घृतेन जुहुयादित्यत्र जुहोतिपदप्रयोगात् । अन्यथाप्राप्तौ श्रुतेन जुहोतिनोक्तत्वात्तदर्थस्य गतत्वादप्रयोगार्हत्वात् पौनरुत्यमस्य स्यात् , प्रयुक्तस्त्वयमतो ज्ञायते प्राप्तिश्रुतजुहोतिरनर्थक इति तस्मात् प्राप्तेढुंदासो जुहोतिप्रयोगात् । यदा वायं घृतेन जुहुयादिति प्रयुज्यते तदा ह्ययमगतार्थ इति विज्ञायेत यद्यन्येन शब्देनास्यार्थोऽनभिहितः स्यात् , किं कारणं ? अप्रमत्तप्रयुक्तत्वात् , अप्रमत्तेन हि वेदेन प्रमत्तात् पुरुषाद्विलक्षणेन रागाद्यविद्यादियोगरहितेन प्रयुक्तोऽयं त्वन्मतेन, लौकिकेनैव पुरुषे15 णाप्रमत्तेन विदुषा प्रयुक्तत्वादस्मन्मतेन मा भूत् सर्वपुरुषाप्रामाण्ये शब्दानाञ्च पुरुषाधीनोपलब्धित्वादप्रामाण्यमेवेति । अयं हे घृतेन जुहुयादित्यत्र जुहोतिशब्दोऽप्रमत्तप्रयुक्तो न येनकेनचिद्वालगोपालादिप्रयुक्तकल्पेन तुल्यः काकरुतादिकल्पेन तुल्यः । क इव ? इषे त्वादिवत् , यथा-'इषे त्वोर्जे त्वा वायवस्थोपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण' इत्यादिशब्दा अगतार्था इति विज्ञायन्ते तथायं घृतेन जुहुयादिति वाक्ये जुहोतिरप्रमत्तप्रयुक्तत्वादगतार्थ इति विज्ञायेत नान्यथा, अथवाऽक्षरविद्यावत्,
20 एव लोके प्रसिद्धरग्निहोत्रवाक्यमेव विधायकं न भवेदिति कथं घृतेन जुहुयादित्यनुवादकं भवेदित्यर्थः । कौमुद्यान्तु हु दानादनयोः, दानं चेह प्रक्षेपः, स च वैधे आधारे हविषश्चेति खभावाल्लभ्यत इत्युक्तम्, व्याख्याकृद्भिश्चात एव धनं ददातीत्यर्थे धनं जुहोतीति चुहयां काष्ठं प्रक्षिपतीत्यर्थे चुहयां काष्ठं जुहोतीति वा न प्रामाणिकप्रयोग इत्युक्तमिति चिन्त्यम् । अत्रापि ननु सेवादिवत् क्रियामात्रत्वादितिकर्तव्यताभ्यः प्रतिपत्तिरित्यादिग्रन्थो योज्य इत्याह-अत्रैव नन्वित्यादिना।
ननु भवतु दाहनात्मकमेव दानं जुहोत्यर्थस्तत्रापि दोषं ब्रूम इत्याह-तथाभूतार्थेति, यदग्नये च प्रजापतये चेति वाक्ये25 नानौ प्रक्षेपलक्षणं दानं प्राप्तं घृतेन जुहुयादित्यत्रापि जुहोतेर्दानार्थत्वे तत् परित्याज्यं स्यात् , तस्यापरित्याज्यत्वे तु घृतेन
जुहुयादित्यत्र जुहोतिप्रयोगो न कार्यः, अन्यथा पुनरुक्तिर्भवेत् , तस्माद्विज्ञायते यदग्नये चेत्यत्र जुहोतिरनर्थकः परित्याज्यश्चेति भावः । तदेव पुनः समर्थयति-यदा वाऽयमिति, यदा घृतेन जुहुयादित्यत्र जुहोतेः प्रयोगः क्रियते तथा विज्ञायतेऽसावनवगतार्थ इति, यतोऽसावप्रमत्तप्रयुक्त इति । अस्यैव हेतोरर्थमपौरुषेयत्वपौरुषेयत्ववाद्यभिप्रायेणाह-अप्रमत्तेन हीति, त्वन्मतेन-अपौरुषेयत्वाभिमन्तृमीमांसकमतेन, अस्मन्मतेन-पौरुषेयत्वाभिमंतृणामस्माकं मतेन । ननु सर्वपुरुषाणामप्रामाण्ये 30 शब्दानां पुरुषाधीनोपलब्धित्वात् शब्दः कोऽपि प्रमाणं न भवेदित्यस्माभिलौकिकेनाप्रमत्तेन पुरुषा विदुषा प्रयुक्तत्वादित्युक्तमित्याह-मा भूदिति । अप्रमत्तप्रयुक्तत्वादेव घृतेन जुहुयादित्यत्र जुहुयाच्छब्दो बालादिप्रयुक्तवाक्यतुल्यः काकरुतादितुल्यो वा न भवतीत्याह-अयं हीति। घृतेन जुहुयादित्यत्र जुहोतिशब्दो न गतार्थः, अप्रमत्तप्रयुक्तत्वादिति प्रयोगस्य दृष्टान्तमाह-इषे त्वादिवदिति । दृष्टान्तान्तरमाह-अथ वाऽक्षरविद्यावदिति, अक्षरविद्या-ब्रह्मविद्या । एवं स्थितेऽग्निहोत्रशब्दघटकहोत्रशब्दो घृतेन जुहुयादिति वाक्यघटकजुहोतिशब्दो वा यदग्नये चेति वाक्योक्तदानार्थो यदि भवेत्तर्हि स शब्दो न
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org