SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १८१ जुहोत्यर्थत्यागः] न्यायागमानुसारिणीव्याख्यासमेतम् सप्रपञ्चो यावत्स्वदभिप्रायवद्धवनानुवादविशिष्टाग्निहोत्राभ्युपगमेऽपि चाग्निहोत्रस्यात्मादिवस्तुतत्त्ववदप्रसिद्धस्वरूपत्वात् करणासिद्धिः । शैलीप्रसिद्धौ छिदिवदनग्निहोत्रत्वं प्रसक्तं ततश्च यदग्नये होत्रं तदग्निहोत्रमिति तावमात्रार्थत्वात् प्रधानस्य स्वर्गसाधनताभिमतस्यानग्निहोत्रत्वाद्धृतेन जुहुयादित्यनेन प्रधानस्वगेकामानभिसम्बद्धजुहोत्यर्थानुवादेन किं प्रयोजनमितिकर्तव्यताकर्त्तव्यतया? । शैलीप्रसिद्धौ छिदिवदित्यादि, छिदिरिव छिदिवत् , यथा छिदौ दृष्टं लौकिकयूपमात्रफलत्वं नादृष्टालौकिकहवनात्मकाग्निहोत्रत्वं तथानग्निहोत्रत्वं-तथाग्निहोत्रं जुहुयादित्यस्यापि तच्छैल्यैवाग्निहोत्रमहवनात्मकमहवनात्मकाग्निहोत्रत्वाच्चानग्निहोत्रत्वं प्रसक्तं छिदिनिर्वय॑यूपवत् , अत्र चैतदपि न वैषम्यादित्यादिग्रन्थो योज्यो यावच्छैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथार्थ्यादिति, ततश्च-अनग्निहोत्रत्वप्रसङ्गाद्यदग्नये होत्रं तदग्निहोत्रमिति तावन्मात्रार्थत्वात् प्रधानस्य स्वर्गसाधनताभिमतस्यानमिहो- 10 त्रत्वाद्धृतेन जुहुयादित्यनेनानुवादेन प्रधानस्वर्गकामानभिसम्बद्धजुहोत्यर्थानुवादेन किं प्रयोजनमिति कर्तव्यताकर्त्तव्यतया ? प्रधानेन स्वर्गकामेन विना किं तया ? यथोक्तम् 'कातरसतेन सूरं सूरसहस्सेण पंडितं भरसु । अलसं जेण व तेण व णवर कतग्धं परिहराहि' इति । प्रधानार्थमप्रधानत्यागदर्शनात् । प्राप्तिप्रतिपाद्यप्रसिद्धावग्निहोत्रे जुहोतिप्रयोगो दानादिप्रसिद्ध्युपरोधेन दाहने एव तावद्विधेय इति परिभाव्य पश्चात् प्रसिद्धे दाहने घृतेन जुहुयादितीतिकर्तव्यताविधिर्योक्ष्यते, 15 अन्यथा तु तथाऽप्रसिद्धरविधायक एव कुतस्तदनुवादः? (प्राप्तिप्रतिपाद्यप्रसिद्धावग्निहोत्र इति) प्राप्त्या प्रतिपाद्या प्रसिद्धिरस्य तस्मिन् प्राप्तिप्रतिपाद्यप्रसिद्धौ, क ? अग्निहोत्रे, 'यदग्नये च प्रजापतये च सायं जुहोती'त्यनया प्राप्त्या प्रतिपाद्यप्रसिद्धौ तु तस्मिन् जुहोतिप्रयोगो दानादिप्रसिद्ध्युपरोधेन दाहन एव तावद्विधेयः । तावच्छब्दः क्रमार्थे, जुहोतीत्ययं धातुर्लोकप्रसिद्धदानादनार्थो न भवति, किं तर्हि ? दहनेनामिना दाहयेद्धृतादि 20 द्रव्यमित्युक्तं भवति, अग्निहोत्रं जुहुयादित्येतदिति परिभाव्य पश्चात् प्रसिद्ध दाहने घृतेन जुहुयाद् घृतं दाहयेदग्निना, घृतं दाहयेत्, अग्निघृतं दहेदिति ज्ञातार्थमनूयेतिकर्तव्यताविधिर्योक्ष्यते लोकप्रसिद्धिवैपरीयेन व्युत्पादनेन, अन्यथा तु लोके दहनादिष्वदृष्टत्वात् कथं दहनमनूद्य घृतादीतिकर्त दर्थेऽमिहोत्रशब्दस्य वृत्तेः कुर्यादित्यस्यापि व्यर्थत्वाच्च दुष्टः । अग्निहोत्रहवनं कुर्यादिति विकल्पं दूषयति-त्वदभिप्रायवदिति । यूपं छिनत्तीति विध्यन्तरविधानशैलीवदग्निहोत्रशैलीप्रसिद्ध्यभ्युपगमे दोषमाह-शैलीप्रसिद्धाविति, यथा यूपं छिनत्तीति 25 छिदिः केवलं यूपमात्रफलको न त्वदृष्टफलकः तथाग्निहोत्रमप्यग्नये होत्रमित्येतावन्मात्रफलं भवेन्नतु खर्यादिफलम् , तथा च खर्गसाधनतयाऽभिमतमग्निहोत्रमनग्निहोत्रमेव स्यात् शैलीवैषम्यात् एवञ्च धृतेन जुहुयादित्यनुवादोऽपि व्यर्थ एव प्रधानामिहोत्राभावादिति भावः । अत्रापि पक्षे पूर्वोक्तग्रन्थार्थमतिदिशति-अत्र चेति । यथोक्तमिति, कातरशतेन शूरं शूरसहस्रण पण्डितं भर । अलसं येन वा तेन वा नवरं कृतघ्नं परिहर ॥ इति छाया ॥ अनया कारिकया प्रधानार्थमप्रधानत्यागो दर्शितः । दाहन एवेति, अग्निहोत्रं जुहुयादिति वाक्येनाग्निघृतादिद्रव्यं दहेदिति विहितं प्रसिद्धार्थ दहनमनूध घृतेन 30 जुहुयादिति घृतमग्निना दाहयेदितीतिकर्तव्यता विधीयत इत्यर्थः। अग्निहोत्रस्य च प्रसिद्धिर्यदग्नये चेति वाक्येन तथा च घृतेन जुहुयादित्यत्र जुहोतिर्दानाद्यर्थमुपेक्ष्य दाहने वर्तते, तथा च घृतेन जुहुयादिति वाक्यस्य दहनेनाग्निना दाहये - तादिद्रव्यमित्यर्थ इति प्रतिभाति अन्यथाविति, लोकप्रसिद्धिविपरीतव्युत्पत्त्यनङ्गीकारे वित्यर्थः, तथा च हुधातोर्दानार्थ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy