________________
द्वादशारनयचक्रम्
[विधिविध्यरे कथं न प्रसिद्धम्, अग्निहोत्रं जुहुयादित्यत्र हवनस्योक्तत्वादिहानुवदनं ननूपपन्नमिति चेन्न, तस्यैव सर्वप्रयोगपरीक्षायामर्थाभावात् । तत्र तावद्धवनापूर्वकरणार्थतायां प्रधानाग्निहोत्रश्रुतित्यागाद्यापत्तिा, अर्थाभावादित्ययमभिसम्बद्ध्यते, क्रमोल्लंघनेन विकल्पद्वयोपन्यासः तुल्योत्तरत्वात् , हवनं कुर्यात् ,
अमिहोत्राख्यमपूर्वं कुर्यादित्येतयोरर्थविकल्पयोः प्रधानस्याग्निहोत्रशब्दस्य तदर्थस्य च त्याग आपद्यते, 5 घृतेन जुहुयादित्यादिष्वनुवादसफलीकरणार्थमग्निहोत्रं जुहुयादित्यत्र जुहुयाच्छब्दस्य स्वप्रकृत्यर्थस्य सार्थकत्वेऽग्निहोत्रशब्दः पौनरुत्त्यान्निरर्थक आपद्यते । अथ प्रधानत्वादग्निहोत्रस्य मा भूदग्निहोत्रशब्दो निरर्थक इति सार्थकतोच्यते ततो जुहुयाच्छब्दनैरर्थक्यात् प्रयोगो नोपपद्यते, विहितार्थाभावेऽनुवादत्वाभावात , प्रधानत्वश्चास्याग्निहोत्रस्य साक्षात् स्वर्गादिकाम्यपुरुषार्थसाधनत्वेन विधानाजुहोतिप्राधान्ये च तदनुपपत्तिः । अत्र च न तु घटवदग्निहोत्रशब्दः काश्चिदपि कर्त्तव्यतां ब्रवीतीत्यादि सर्वो ग्रन्थः पूर्वो10 त्तरपक्षप्रसङ्गतो योज्यो यावन्नापि घटादिकर्त्तव्यतायामिव काचित्क्रिया प्रसिद्धा ययाऽग्निहोत्राख्यता हवनस्यातिदिश्येत हवनाख्यता वाऽग्निहोत्रस्येति हवनं कुर्यादित्ययमुक्तोत्तरार्थविकल्पः । अपूर्वार्थपक्षेऽप्यमिहोत्रशब्दस्य जुहुयाच्छब्दस्यैकार्थत्वात् प्रधानापूर्ववाच्याग्निहोत्रशब्दस्य त्यागस्तथैव, विशेषतस्तु अथाग्निहोत्रमित्यस्यापूर्वविशेषाभिधानार्थतैव कल्प्यते तथासत्यपूर्वाभिधानेन कोऽर्थ इत्यादि याव
तदनुष्ठातव्यमिति ग्रन्थश्च योज्यः । आदिग्रहणात् पुरुषप्रमाणकताशब्दप्रामाण्यत्याग इत्यादिदोषः, ततः 15 प्रधानानिहोत्रश्रुतित्यागाद्यापत्तिरर्थाभावात् , केदमभिहितमित्यादि । . अग्निहोत्रोभयकरणार्थतयोरपि विकल्पयोस्तुल्योत्तरत्वात् ।
(अग्निहोत्रेति) अग्निहोत्रोभयकरणार्थतयोरपि जुहोतित्यागाद्यापत्तेरग्निहोत्रं कुर्यादग्निहोत्रहवनं कुर्यादित्येतयोरपि विकल्पयोस्तुल्योत्तरत्वादिति, उभयार्थविकल्पस्याग्निहोत्रं कुर्याद्धवनं कुर्यादित्येतयोः पक्षयोरक्तदोषदुष्टत्वात् समानोत्तरत्वादिति । अत्रापि अथ पुनरेवं न निर्वहतीत्यादिग्रंथो योज्या
10 कथं न प्रसिद्धमिति । अग्निहोत्रं जुहुयादित्यत्र सर्वप्रयोगपरीक्षायां क्रियमाणायां न कश्चिदर्थः सिद्धयतीति न तत्र हवनविधानं सम्भवतीत्युत्तरयति-तस्यैवेति, अग्निहोत्रं जुहयादिति वाक्यसम्बन्धिन एवेत्यर्थः ।धृतेन जुहयादित्यत्र हवनस्यानुवादत्वसम्पतयेऽग्निहोत्रवाक्ये हवनं कुर्यादिति हबनविधानाङ्गीकारेऽग्निहोत्रशब्दो व्यर्थः स्यादर्थाभावात् , अग्निहोत्रशब्दप्रतिपाद्यार्थस्य विधिप्रत्ययप्रकृतिभूतेन जुहोतिनैवोक्तत्वादन्यथा पुनरुक्तत्वापत्तरित्याह-हवनं कुर्यादिति, अत्राग्निहोत्रशब्दत्यागः, अग्निहोत्राख्यम
पूर्व कुर्यादित्यत्रामिहोत्रशब्दार्थत्यागः, अपूर्वार्थताङ्गीकरणात्, अत्राग्निहोत्रशब्दनिरर्थकताच हवनेनैवापूर्वविशेषस्याभिव्यङ्ग्यत्वात् 9 जुहुयात् खर्गकाम इत्येतावता वाक्येनैव गतार्थत्वादिति । मीमांसका अपूर्वविधौ धात्वर्थस्य विधौ करणत्वेनाङ्गीकारादग्निहोत्रेण होमेन भावयेदित्यग्निहोत्रनामकहवनसामान्य विधानमनीकुर्वन्त्यन्यथा सामान्य विध्यभावे विशेषविधीनामसम्भवादिति बोध्यम् । नन्वग्निहोत्रशब्दः प्रधानं पुरुषप्रवृत्त्युद्देश्यखर्गसाधनीभूतार्थाभिधायकत्वादतो न निरर्थक इत्याशङ्कते-अथ प्रधानत्वादिति। अनुवादार्थ जुहुयाच्छब्द इत्यत्राह-विहितार्थेति । विधीयमानार्थाभावेऽनुवादत्वासम्भवादित्यर्थः, तथा च जुहुयाच्छब्दो व्यर्थः स्यादिति भावः। अपूर्वार्थपक्षेऽपीति, यः खर्ग कामयते स जुहुयात् इत्युक्तावेवापूर्व जुहुयात् खर्गकाम इति लब्धत्वान्न प्रयोजनं किंचिदग्निहोत्रशब्देनेति त्याग एवाग्निहोत्रशब्दस्य प्राप्तस्तदतिरिक्तज्ञानाजनकत्वात् , अपूर्ववाचकत्वेऽपि तस्य नापूर्वस्य निरूपणं हवनेन कत्तुं शक्यमप्रत्यक्षत्वादिति भावः । पूर्वोक्तग्रन्थार्थमत्राप्यतिदिशति-अथाग्निहोत्रमित्यादिना । अथाग्निहोत्रं कुर्यादग्निहोत्रहवनं कुर्यादिति विकल्पद्वयाश्रयेणाह-अग्निहोत्रोभयेति । जुहुयाच्छब्दः कुर्यादर्थे वर्तते हुधात्वर्थस्यामिहोत्रशब्दत एव लाभादतोऽग्निहोत्रं जुहुयादित्यनेनाग्निहोत्रं कुर्यादिति विवक्षित इति विकल्पोऽपि जुहोत्यर्थत्यागात् जुहुया
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org